This Page is courtesy of Sanskrit Documents List. Please send your corrections
shiva panchAkShara nakShatramAlA stotram .. शिवपञ्चाक्षरनक्षत्रमालास्तोत्रम .. श्रीमदात्मने गुणैकसिन्धवे नमः शिवाय धामलेशधूतकोकबन्धवे नमः शिवाय . नामशेषितानमद्भावान्धवे नमः शिवाय पामरेतरप्रधानबन्धवे नमः शिवाय .. १.. कालभीतविप्रबालपाल ते नमः शिवाय शूलभिन्नदुष्टदक्षफाल ते नमः शिवाय . मूलकारणाय कालकाल ते नमः शिवाय पालयाधुना दयालवाल ते नमः शिवाय .. २.. इष्टवस्तुमुख्यदानहेतवे नमः शिवाय दुष्टदैत्यवंशधूमकेतवे नमः शिवाय . सृष्टिरक्षणाय धर्मसेतवे नमः शिवाय अष्टमूर्तये वृषेन्द्रकेतवे नमः शिवाय .. ३.. आपदद्रिभेदटङ्कहस्त ते नमः शिवाय पापहारिदिव्यसिन्धुमस्त ते नमः शिवाय . पापदारिणे लसन्नमस्तते नमः शिवाय शापदोषखण्डनप्रशस्त ते नमः शिवाय .. ४.. व्योमकेश दिव्यभव्यरूप ते नमः शिवाय हेममेदिनीधरेन्द्रचाप ते नमः शिवाय . नाममात्रदग्धसर्वपाप ते नमः शिवाय कामनैकतानहृद्दुराप ते नमः शिवाय .. ५.. ब्रह्ममस्तकावलीनिबद्ध ते नमः शिवाय जिह्मगेन्द्रकुण्डलप्रसिद्ध ते नमः शिवाय . ब्रह्मणे प्रणीतवेदपद्धते नमः शिवाय जिंहकालदेहदत्तपद्धते नमः शिवाय .. ६.. कामनाशनाय शुद्धकर्मणे नमः शिवाय सामगानजायमानशर्मणे नमः शिवाय . हेमकान्तिचाकचक्यवर्मणे नमः शिवाय सामजासुराङ्गलब्धचर्मणे नमः शिवाय .. ७.. जन्ममृत्युघोरदुःखहारिणे नमः शिवाय चिन्मयैकरूपदेहधारिणे नमः शिवाय . मन्मनोरथावपूर्तिकारिणे नमः शिवाय सन्मनोगताय कामवैरिणे नमः शिवाय .. ८.. यक्षराजबन्धवे दयालवे नमः शिवाय दक्षपाणिशोभिकाञ्चनालवे नमः शिवाय . पक्षिराजवाहहृच्च्हयालवे नमः शिवाय अक्षिफाल वेदपूततालवे नमः शिवाय .. ९.. दक्षहस्तनिष्ठजातवेदसे नमः शिवाय अक्षरात्मने नमद्बिडौजसे नमः शिवाय . दीक्षितप्रकाशितात्मतेजसे नमः शिवाय उक्षराजवाह ते सतां गते नमः शिवाय .. १०.. राजताचलेन्द्रसानुवासिने नमः शिवाय राजमाननित्यमन्दहासिने नमः शिवाय . राजकोरकावतंसभासिने नमः शिवाय राजराजमित्रताप्रकाशिने नमः शिवाय .. ११.. दीनमानवालिकामधेनवे नमः शिवाय सूनबाणदाहकृत्कृशानवे नमः शिवाय . स्वानुरागभक्तरत्नसानवे नमः शिवाय दानवान्धकारचण्डभानवे नमः शिवाय .. १२.. सर्वमङ्गलाकुचाग्रशायिने नमः शिवाय सर्वदेवतागणातिशायिने नमः शिवाय . पूर्वदेवनाशसंविधायिने नमः शिवाय सर्वमन्मनोजभङ्गदायिने नमः शिवाय .. १३.. स्तोकभक्तितो.अपि भक्तपोषिणे नमः शिवाय माकरन्दसारवर्षिभाषिणे नमः शिवाय . एकबिल्वदानतो.अपि तोषिणे नमः शिवाय नैकजन्मपापजालशोषिणे नमः शिवाय .. १४.. सर्वजीवरक्षणैकशीलिने नमः शिवाय पार्वतीप्रियाय भक्तपालिने नमः शिवाय . दुर्विदग्धदैत्यसैन्यदारिणे नमः शिवाय शर्वरीशधारिणे कपालिने नमः शिवाय .. १५.. पाहि मामुमामनोज्ञदेह ते नमः शिवाय देहि मे वरं सिताद्रिगेह ते नमः शिवाय . मोहितर्षिकामिनीसमूह ते नमः शिवाय स्वेहितप्रसन्न कामदोह ते नमः शिवाय .. १६.. मङ्गलप्रदाय गोतुरंग ते नमः शिवाय गङ्गया तरङ्गितोत्तमाङ्ग ते नमः शिवाय . सङ्गरप्रवृत्तवैरिभङ्ग ते नमः शिवाय अङ्गजारये करेकुरङ्ग ते नमः शिवाय .. १७.. ईहितक्षणप्रदानहेतवे नमः शिवाय आहिताग्निपालकोक्षकेतवे नमः शिवाय . देहकान्तिधूतरौप्यधातवे नमः शिवाय गेहदुःखपुञ्जधूमकेतवे नमः शिवाय .. १८.. त्र्यक्ष दीनसत्कृपाकटाक्ष ते नमः शिवाय दक्षसप्ततन्तुनाशदक्ष ते नमः शिवाय . इक्षराजभानुपावकाक्ष ते नमः शिवाय रक्ष मां प्रपन्नमात्ररक्ष ते नमः शिवाय .. १९.. न्यङ्कुपाणये शिवंकराय ते नमः शिवाय संकटाब्धितीर्णकिंकराय ते नमः शिवाय . कङ्कभीषिताभयंकराय ते नमः शिवाय पङ्कजाननाय शंकराय ते नमः शिवाय .. २०.. कर्मपाशनाश नीलकण्ठ ते नमः शिवाय शर्मदाय नर्यभस्मकण्ठ ते नमः शिवाय . निर्ममर्षिसेवितोपकण्ठ ते नमः शिवाय कुर्महे नतीर्नमद्विकुण्ठ ते नमः शिवाय .. २१.. विष्टपाधिपाय नम्रविष्णवे नमः शिवाय शिष्टविप्रहृद्गुहाचरिष्णवे नमः शिवाय . इष्टवस्तुनित्यतुष्टजिष्णवे नमः शिवाय कष्टनाशनाय लोकजिष्णवे नमः शिवाय .. २२.. अप्रमेयदिव्यसुप्रभाव ते नमः शिवाय सत्प्रपन्नरक्षणस्वभाव ते नमः शिवाय . स्वप्रकाश निस्तुलानुभाव ते नमः शिवाय विप्रडिम्भदर्शितार्द्रभाव ते नमः शिवाय .. २३.. सेवकाय मे मृड प्रसीद ते नमः शिवाय भावलभ्य तावकप्रसाद ते नमः शिवाय . पावकाक्ष देवपूज्यपाद ते नमः शिवाय तवकाङ्घ्रिभक्तदत्तमोद ते नमः शिवाय .. २४.. भुक्तिमुक्तिदिव्यभोगदायिने नमः शिवाय शक्तिकल्पितप्रपञ्चभागिने नमः शिवाय . भक्तसंकटापहारयोगिने नमः शिवाय युक्तसन्मनःसरोजयोगिने नमः शिवाय .. २५.. अन्तकान्तकाय पापहारिणे नमः शिवाय शान्तमायदन्तिचर्मधारिणे नमः शिवाय . संतताश्रितव्यथाविदारिणे नमः शिवाय जन्तुजातनित्यसौख्यकारिणे नमः शिवाय .. २६.. शूलिने नमो नमः कपालिने नमः शिवाय पालिने विरिञ्चितुण्डमालिने नमः शिवाय . लीलिने विशेषरुण्डमालिने नमः शिवाय शीलिने नमः प्रपुण्यशालिने नमः शिवाय .. २७.. शिवपञ्चाक्षरमुद्रां चतुष्पदोल्लासपद्यमणिघटिताम . नक्षत्रमालिकामिह दधदुपकण्ठं नरो भवेत्सोमः .. २८.. इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ शिवपञ्चाक्षरनक्षत्रमालास्तोत्रं संपूर्णम ..