logo

|

Home >

Scripture >

scripture >

Marathi

Om symbolशम्भुस्तोत्रम - shambhu stotra Om symbol

Singer

Play Song

Source language

Translation language

Click on the songs to view the meaning


shambhu stotra शम्भुस्तोत्रम This Page is courtesy of Sanskrit Documents List. Please send your corrections shambhu stotra .. शम्भुस्तोत्रम .. नानायोनिसहस्रकोटिषु मुहुः संभूय संभूय तद\- गर्भावासनिरन्तदुःखनिवहं वक्तुं न शक्यं च तत . भूयो भूय इहानुभूय सुतरां कष्टानि नष्टो.अस्म्यहं त्राहि त्वं करुणातरङ्गितदृशा शंभो दयाम्भोनिधे .. १ .. बाल्ये ताडनपीडनैर्बहुविधैः पित्रादिभिर्बोधितः तत्कालोचितरोगजालजनितैर्दुःखैरलं बाधितः . लीलालौल्यगुणीकृतैश्च विविधैर्दुश्चोष्टितैः क्लेशितः सो.अहं त्वां शरणं व्रजाम्यव विभो शंभो दयाम्भोनिधे .. २ .. तारुण्ये मदनेन पीडिततनुः कामातुरः कामिनी\- सक्तस्तद्वशगः स्वधर्मविमुखः सद्भिः सदा दूषितः . कर्माकार्षमपारनारकफलं सौख्याशया दुर्मतिः त्राहि त्वं करुणातरङ्गितदृशा शंभो दयाम्भोनिधे .. ३ .. वृद्धत्वे गलिताखिलेन्द्रियबलो विभ्रष्टदन्तावलिः श्वेतीभूतशिराः सुजर्जरतनुः कम्पाश्रयो.अनाश्रयः . लालोच्च्हिष्टपुरीषमूत्रसलिलक्लिन्नो.अस्मि दीनो.अस्म्यहं त्राहि त्वं करुणातरङ्गितदृशा शंभो दयाम्भोनिधे .. ४ .. ध्यातं ते पदाम्बुजं सकृदपि ध्यातं धनं सर्वदा पूजा ते न कृता कृता स्ववपुषः स्त्रग्गन्धलेपार्चनैः . नान्नाद्यैः परितर्पिता द्विजवरा जिह्वैव संतर्पिता पापिष्ठेन मया सदाशिव विभो शंभो दयाम्भोनिधे .. ५ .. संध्यास्नानजपादि कर्म न कृतं भक्त्या कृतं दुष्कृतं त्वन्नामेश न कीर्तितं त्वतिमुदा दुर्भाषितं भाषितम . त्वन्मूर्तिर्न विलोकिता पुनरपि स्त्रीमूर्तिरालोकिता भोगासक्तिमता मया शिव विभो शंभो दयाम्भोनिधे .. ६ .. संध्याध्यानजपादिकर्मकरणे शक्तो.अस्मि नैव प्रभो दातुं हन्त मतिं प्रतीपकरणे दारादिबन्धास्पदे . नामैकं तव तारकं मम विभो ह्यन्यन्न चास्ति क्वचित त्राहि त्वं करुणातरङ्गितदृशा शंभो दयाम्भोनिधे .. ७ .. कुम्भीपाकधुरंधरादिषु महाबीजादिषु प्रोद्धतं घोरं नारकदुःखमीषदपि वा सोढुं न शक्तो.अस्म्यहम . तस्मात त्वां शरणं व्रजामि सततं जानामि न त्वां विना त्राहि त्वं करुणातरङ्गितदृशा शंभो दयाम्भोनिधे .. ८ .. माता वापि पिता सुतो.अपि न हितो भ्रात्रादयो बान्धवाः सर्वे स्वार्थपरा भवन्ति खलु मां त्रातुं न के.अपि क्षमाः . दूतेभ्यो यमचोदितेभ्य इह तु त्वामन्तरा शंकर त्राहि त्वं करुणातरङ्गितदृशा शंभो दयाम्भोनिधे .. ९ .. .. शंभुस्तोत्रं संपूर्णम ..

Related Content

শংভুস্তৱঃ - Shambhustavah

shambhustavah

ಶಂಭುಸ್ತವಃ - Shambhustavah

ശംഭുസ്തവഃ - Shambhustavah

शंभुस्तवः - Shambhustavah