logo

|

Home >

Scripture >

scripture >

Marathi

Om symbolसदाशिव महेन्द्र स्तुतिः - Sadashiva Mahendra StutihOm symbol

Singer

Play Song

Source language

Translation language

Click on the songs to view the meaning


Sadashiva Mahendra Stutih सदाशिवमहेन्द्रस्तुतिः । परतत्त्वलीनमनसे प्रणमद्भवबन्धमोचनायाशु । प्रकटितपरतत्त्वाय प्रणतिं कुर्मः सदाशिवेन्द्राय ॥१॥ परमशिवेन्द्रकराम्बुजसंभूताय प्रणम्रवरदाय । पदधूतपङ्कजाय प्रणतिं कुर्मः सदाशिवेन्द्राय ॥२॥ विजननदीकुञ्जगृहे मञ्जुळपुलिनैकमञ्जुतरतल्पे । शयनं कुर्वाणाय प्रणतिं कुर्मः सदाशिवेन्द्राय ॥३॥ कामाहिद्विजपतये शमदममुखदिव्यरत्नवारिधये । शमनाय मोहविततेः प्रणतिं कुर्मः सदाशिवेन्द्राय ॥४॥ नमदात्मबोधदात्रे रमते परमात्मतत्त्वसौधाग्रे । समबुद्धयेऽश्महेम्नोः प्रणतिं कुर्मः सदाशिवेन्द्राय ॥५॥ गिलिताविद्याहालाहलहतपुर्यष्टकाय बोधेन । मोहान्धकाररवये प्रणतिं कुर्मः सदाशिवेन्द्राय ॥६॥ शममुखषट्कमुमुक्षाविवेकवैराग्यदाननिरताय । तरसा नतजनततये प्रणतिं कुर्मः सदाशिवेन्द्राय ॥७॥ सिद्धान्तकल्पवल्लीमुखकृतिकर्त्रे कपालिभक्तिकृते । करतलमुक्तिफलाय प्रणतिं कुर्मः सदाशिवेन्द्राय ॥८॥ तृणपङ्कलिप्तवपुषे तृणतोऽप्यधरं जगद्विलोकयते । वनमध्यविहरणाय प्रणतिं कुर्मः सदाशिवेन्द्राय ॥९॥ निगृहीतहृदयहरये प्रगृहीतात्मस्वरूपरत्नाय । प्रणताब्धिपूर्णशशिने प्रणतिं कुर्मः सदाशिवेन्द्राय ॥१०॥ अज्ञानतिमिररवये प्रज्ञानांभोधिपूर्णचन्द्राय । प्रणताघविपिनशुचये प्रणतिं कुर्मः सदाशिवेन्द्राय ॥११॥ मतिमलमोचनदक्षप्रत्यग्ब्रह्मैक्यदाननिरताय । स्मृतिमात्रतुष्टमनसे प्रणतिं कुर्मः सदाशिवेन्द्राय ॥१२॥ निजगुरुपरमशिवेन्द्रश्लाघितविज्ञान काष्ठाय । निजतत्त्वनिश्चलहृदे प्रणतिं कुर्मः सदाशिवेन्द्राय ॥१३॥ प्रविलाप्य जगदशेषं परिशिष्टखण्डवस्तुनिरताय । आस्यप्राप्तान्नभुजे प्रणतिं कुर्मः सदाशिवेन्द्राय ॥१४॥ उपधानीकृतबाहुः परिरब्धविरक्तिरामो यः । वसनीकृतखायास्मै प्रणतिं कुर्मः सदाशिवेन्द्राय ॥१५॥ सकलागमान्तसारप्रकटनदक्षाय नम्रपक्षाय । सच्चित्सुखरूपाय प्रणतिं कुर्मः सदाशिवेन्द्राय ॥१६॥ द्राक्षाशिक्षणचतुरव्याहाराय प्रभूतकरुणाय । वीक्षापावितजगते प्रणतिं कुर्मः सदाशिवेन्द्राय ॥१७॥ योऽनुत्पन्नविकारो बाहौ म्लेच्छेन छिन्नपतितेऽपि । अविदितममतायास्मै प्रणतिं कुर्मः सदाशिवेन्द्राय ॥१८॥ न्यपतन्सुमानि मूर्धनि येनोच्चरितेषु नामसूग्रस्य । तस्मै सिद्धवराय प्रणतिं कुर्मः सदाशिवेन्द्राय ॥१९॥ यः पापोनोऽपि लोकान तरसा प्रकरोति पुण्यः निष्ठाग्र्यान । करुणाम्बुराशयेऽस्मै प्रणतिं कुर्मः सदाशिवेन्द्राय ॥२०॥ सिद्धेश्वराय बुद्धेः शुद्धिप्रदपादपद्मनमनाय । बद्धे प्रमोचकाय प्रणतिं कुर्मः सदाशिवेन्द्राय ॥२१॥ हृद्याय लोकविततेः पद्यावलिदाय जन्ममूकेभ्यः । प्रणतेभ्यः पदयुगळे प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ २२॥ जिह्वोपस्थरतानप्याह्वोच्चारेण जातु नैजस्य । कुर्वाणाय विरक्तान्प्रणतिं कुर्मः सदाशिवेन्द्राय ॥२३॥ कमनीयकवनकर्त्रे शमनीयभयापहारचतुराय । तपनीयसद्रुशवपुषे प्रणतिं कुर्मः सदाशिवेन्द्राय ॥२४॥ तारकविद्यादात्रे तारकपतिगर्ववारकास्याय । तारजपप्रवणाय प्रणतिं कुर्मः सदाशिवेन्द्राय ॥२५॥ मूकोऽपि यत्कृपा चेल्लोकोत्तरकीर्तिराशु जायेत । अद्भुतचरितायास्मै प्रणतिं कुर्मः सदाशिवेन्द्राय ॥२६॥ दुर्जनदूराय तरां सज्जनसुलभाय हस्तपात्राय । तरुतलनिकेतनाय प्रणतिं कुर्मः सदाशिवेन्द्राय ॥२७॥ भवसिन्धुधारयित्रे भवभक्ताय प्रणम्रवश्याय । भवबन्धविरहिताय प्रणतिं कुर्मः सदाशिवेन्द्राय ॥२८॥ त्रिविधस्यापि त्यागं वपुषः कर्तुं स्थलत्रये य इव । अकरोत्समाधिमस्मै प्रणतिं कुर्मः सदाशिवेन्द्राय ॥२९॥ कामिनमपि जितहृदयं क्रूरं शान्तं जडं सुधियम । कुरुते यत्करुणाऽस्मै प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ ३०॥ वेदस्मृतिस्थविद्वल्लक्षणलक्ष्येषु सन्दिहानानाम । निश्चयकृते विहर्त्रे प्रणतिं कुर्मः सदाशिवेन्द्राय ॥३१॥ बालारुणनिभवपुषे लीलानिर्धूतकामगर्वाय । लोलाय चितिपरस्यां प्रणतिं कुर्मः सदाशिवेन्द्राय ॥३२॥ शरणीकृताय सुगुणैणीकृतरक्तपङ्कजाताय । धरणीसद्रुक्क्षमाय प्रणतिं कुर्मः सदाशिवेन्द्राय ॥३३॥ प्रणताय यतिवरेण्यैर्गणनाथेनाप्यसाध्यविघ्नहृते । गुणदासीकृतजगते प्रणतिं कुर्मः सदाशिवेन्द्राय ॥३४॥ सहमानाय सहस्राण्यप्यपराधान्प्रणम्रजनरचितान । सहसैव मोक्षदात्रे प्रणतिं कुर्मः सदाशिवेन्द्राय ॥३५॥ धृतदेहाय नतावलितूणप्रज्ञाप्रदानवाञ्छातः । श्रीदक्षिणवक्त्राय प्रणतिं कुर्मः सदाशिवेन्द्राय ॥३६॥ तापत्रयार्तहृदयस्तापत्रयहारदक्षनमनमहम । गुरुवरबोधितमहिमन शरणं यास्ये तवाङ्घ्रिकमलयुगम ॥ ३७॥ सदात्मनि विलीनहृत्सकलवेदशास्त्रार्थवित सरित्तटविहारकृत सकललोकहृत्तापहृत । सदाशिवपदाम्बुजप्रणतलोकलभ्य प्रभो सदाशिवयतीट सदा मयि कृपामपारां कुरु ॥३८॥ पुरा यवनकर्तनस्रवदमन्दरक्तोऽपि यः पुनः पदसरोरुहप्रणतमेनमेनोविधिम । कृपापरवशः पदं पतनवर्जितं प्राप यत्सदाशिवयतीट स मय्यनवधिं कृपां सिञ्चतु ॥३९॥ हृषीकहृतचेतसि प्रहृतदेहके रोगकैरनेकवृजिनालये शमदमादिगन्धोज्झिते । तवाङ्घ्रिपतिते यतौ यतिपते महायोगिराट सदाशिव कृपां मयि प्रकुरु हेतुशून्यां द्रुतम ॥४०॥ न चाहमतिचातुरीरचितशब्दसङ्घैः स्तुतिं विधातुमपि च क्षमो न च जपादिकेऽप्यस्ति मे । बलं बलवतां वर प्रकुरु हेतुशून्यां विभो सदाशिव कृपां मयि प्रवर योगिनां सत्वरम ॥४१॥ शब्दार्थविज्ञानयुता हि लोके वसन्ति लोका बहवः प्रकामम । निष्ठायुता न श्रुतद्रुष्टपूर्वा बिना भवन्तं यतिराज नूनम ॥४२॥ स्तोकार्चनप्रीतहृदम्बुजाय पादाब्जचूडापररूपधर्त्रे । शोकापहर्त्रे तरसा नतानां पाकाय पुण्यस्य नमो वतीश ॥४३॥ नाहं हृषीकाणि विजेतुमीशो नाहं सपर्बाभजनादि कर्तुम । निसर्गया त्वं दययैव पाहि सदाशिवेमं करुणापयोधे ॥४४॥ कृतयाऽनयानतावलिकोटिगतेनातिमन्दबोधेन । मुदमेहि नित्यतृप्तप्रवर स्तुत्या सदाशिवायाशु ॥४५॥ इति श्रीमज्जगद्गुरुशृङ्गगिरि श्रीसच्चिदानन्दशिवाभिनवनृसिंहभारतीस्वामिभिर्विरचिता सदाशिवमहेन्द्रस्तुतिः समाप्ता ॥

Related Content

চন্দ্রচূডালাষ্টকম - Chandrachoodaalaa Ashtakam

কল্কি কৃতম শিৱস্তোত্র - kalki kritam shivastotra

প্রদোষস্তোত্রম - Pradoshastotram

মেধাদক্ষিণামূর্তি সহস্রনামস্তোত্র - Medha Dakshinamurti Saha

দ্বাদশ জ্যোতির্লিঙ্গ স্তোত্রম্