logo

|

Home >

Scripture >

scripture >

Marathi

Om symbolपरमात्माष्टकम - Paramatma AshtakamOm symbol

Singer

Play Song

Source language

Translation language

Click on the songs to view the meaning


Paramatma Ashtakam परमात्मा अष्टकम । परमात्मंस्तव प्राप्तौ कुशलोऽस्मि न संशयः । तथापि मे मनो दुष्टं भोगेषु रमते सदा ॥१॥ यदा यदा तु वैराग्यं भोगेभ्यश्च करोम्यहम । तदैव मे मनो मूढं पुनर्भोगेषु गच्छति ॥२॥ भोगान्भुक्त्वा मुदं याति मनो मे चञ्चलं प्रभो । तव स्मृति यदा याति तदा याति बहिर्मुखम ॥३॥ प्रत्यहं शास्त्रनिचयं चिन्तयामि समाहितः । तथापि मे मनो मूढं त्यक्त्वा त्वां भोगमिच्छति ॥४॥ शोकमोहौ मानमदौ तवाज्ञानाद्भवन्ति वै । यदा बुद्धिपथं यासि यान्ति ते विलयं तदा ॥५॥ कृपां कुरु तथा नाथ त्वयि चित्तं स्थिरं यथा । मम स्याज्ज्ञानसंयुक्तं तव ध्यानपरायणम ॥६॥ मायया ते विमूढोऽस्मि न पश्यामि हिताहितम । संसारापारपाथोधौ पतितं मां समुद्धर ॥७॥ परमात्मंस्त्वयि सदा मम स्यान्निश्चला मतिः । संसारदुःखगहनात्त्वं सदा रक्षको मम॥८॥ परात्मन इदं स्तोत्रं मोहविच्छेदकारकम । ज्ञानदं च भवेन्नृणां योगानन्देन निर्मितम ॥९॥ इति श्रीयोगानन्दतीर्थविरचितं परमात्माष्टकं संपूर्णम ॥

Related Content

চন্দ্রচূডালাষ্টকম - Chandrachoodaalaa Ashtakam

কল্কি কৃতম শিৱস্তোত্র - kalki kritam shivastotra

প্রদোষস্তোত্রম - Pradoshastotram

মেধাদক্ষিণামূর্তি সহস্রনামস্তোত্র - Medha Dakshinamurti Saha

দ্বাদশ জ্যোতির্লিঙ্গ স্তোত্রম্