logo

|

Home >

Scripture >

scripture >

Marathi

Om symbolमहामृत्युंजय कवच - mrityunjaya kavacha Om symbol

Singer

Play Song

Source language

Translation language

Click on the songs to view the meaning


Mrityunjaya kavacha महामृत्युंजय कवच This Page is courtesy of Sanskrit Documents List. Please send your corrections mRutyunjaya kavacha .. महामृत्युंजय कवच .. श्री गणेशाय नमः । भैरव उवाच । श्रृणुष्व परमेशानि कवचं मन्मुखोदितम । महामृत्युञ जयस्यास्य न देयं परमाद्भुतम ॥ १॥ यं धृत्वा यं पठित्वा च श्रुत्वा च कवचोत्तमम । त्रैलोक्याधिपतिर्भूत्वा सुखितो.अस्मि महेश्वरि ॥ २॥ तदेववर्णयिष्यामि तव प्रीत्या वरानने । तथापि परमं तत्वं न दातव्यं दुरात्मने ॥ ३॥ विनियोगः अस्य श्रीमहामृत्युञ जयकवचस्य श्रीभैरव ऋषिः\, गायत्रीच्हन्दः\, श्रीमहामृत्युञ जयो महारुद्रो देवता\, ॐ बीजं\, जूं शक तिः\, सः कीलकं\, ह्रौमिति तत्वं\, चतुर्वर्गसाधने मृत्युञ जयकवचपाठे विनियोगः । चन्द्रमण्डलमध्यस्थं रुद्रं भाले विचिन्त्य तम । तत्रस्थं चिन्तयेत साध्यं मृत्युं प्राप्तो.अपि जीवति ॥ १॥ ॐ जूं सः ह्रौं शिरः पातु देवो मृत्युञ जयो मम । ॐ श्रीं शिवो ललाटं मे ॐ ह्रौं भ्रुवौ सदाशिवः ॥ २॥ नीलकण्ठो.अवतान्नेत्रे कपर्दी मे.अवताच्च्ह्रुती । त्रिलोचनो.अवताद गण्डौ नासां मे त्रिपुरान्तकः ॥ ३॥ मुखं पीयूषघटभृदोष्ठौ मे कृत्तिकाम्बरः । हनुं मे हाटकेशनो मुखं बटुकभैरवः ॥ ४॥ कन्धरां कालमथनो गलं गणप्रियो.अवतु । स्कन्धौ स्कन्दपिता पातु हस्तौ मे गिरिशो.अवतु ॥ ५॥ नखान मे गिरिजानाथः पायादङ्गुलिसंयुतान । स्तनौ तारापतिः पातु वक्षः पशुपतिर्मम ॥ ६॥ कुक्षिं कुबेरवरदः पार्श्वौ मे मारशासनः । शर्वः पातु तथा नाभिं शूली पृष्ठं ममावतु ॥ ७॥ शिश्र्नं मे शङ्करः पातु गुह्यं गुह्यकवल्लभः । कटिं कालान्तकः पायादूरू मे.अन्धकघातकः ॥ ८॥ जागरूको.अवताज्जानू जङ्घे मे कालभैरवः । गुल्फो पायाज्जटाधारी पादौ मृत्युञ जयो.अवतु ॥ ९॥ पादादिमूर्धपर्यन्तमघोरः पातु मे सदा । शिरसः पादपर्यन्तं सद्योजातो ममावतु ॥ १०॥ रक्षाहीनं नामहीनं वपुः पात्वमृतेश्वरः । पूर्वे बलविकरणो दक्षिणे कालशासनः ॥ ११॥ पश्चिमे पार्वतीनाथो ह्युत्तरे मां मनोन्मनः । ऐशान्यामीश्वरः पायादाग्नेय्यामग्निलोचनः ॥ १२॥ नैऋत्यां शम्भुरव्यान्मां वायव्यां वायुवाहनः । उर्ध्वे बलप्रमथनः पाताले परमेश्वरः ॥ १३॥ दशदिक्षु सदा पातु महामृत्युञ जयश्च माम । रणे राजकुले द्यूते विषमे प्राणसंशये ॥ १४॥ पायाद ओं जूं महारुद्रो देवदेवो दशाक्षरः । प्रभाते पातु मां ब्रह्मा मध्याह्ने भैरवो.अवतु ॥ १५॥ सायं सर्वेश्वरः पातु निशायां नित्यचेतनः । अर्धरात्रे महादेवो निशान्ते मां महोमयः ॥ १६॥ सर्वदा सर्वतः पातु ॐ जूं सः ह्रौं मृत्युञ जयः । इतीदं कवचं पुण्यं त्रिषु लोकेषु दुर्लभम ॥ १७॥ फलश्रुति सर्वमन त्रमयं गुह्यं सर्वतन त्रेषु गोपितम । पुण्यं पुण्यप्रदं दिव्यं देवदेवाधिदैवतम ॥ १८॥ य इदं च पठेन्मन त्री कवचं वार्चयेत ततः । तस्य हस्ते महादेवि त्र्यम्बकस्याष्ट सिद्धयः ॥ १९॥ रणे धृत्वा चरेद्युद्धं हत्वा शत्रूञ जयं लभेत । जयं कृत्वा गृहं देवि सम्प्राप्स्यति सुखी पुनः ॥ २०॥ महाभये महारोगे महामारीभये तथा । दुर्भिक्षे शत्रुसंहारे पठेत कवचमादरात ॥ २१॥ सर्व तत प्रशमं याति मृत्युञ जयप्रसादतः । धनं पुत्रान सुखं लक्ष्मीमारोग्यं सर्वसम्पदः ॥ २२॥ प्राप्नोति साधकः सद्यो देवि सत्यं न संशयः इतीदं कवचं पुण्यं महामृत्युञ जयस्य तु । गोप्यं सिद्धिप्रदं गुह्यं गोपनीयं स्वयोनिवत ॥ २३॥ । इति श्रीरुद्रयामले तन त्रे श्रीदेवीरहस्ये मृत्युञ जयकवचं सम्पूर्णम ।

Related Content