logo

|

Home >

Scripture >

scripture >

Marathi

Om symbol मृतसञ्जीवन स्तोत्रम - Mritasanjivana stotramOm symbol

Singer

Play Song

Source language

Translation language

Click on the songs to view the meaning


मृतसञ्जीवन स्तोत्रम Please send your corrections mRutasa~njIvana stotram मृतसञ्जीवन स्तोत्रम एवमारध्य गौरीशं देवं मृत्य्ञ्जयमेश्वरं । मृतसञ्जीवनं नाम्ना कवचं प्रजपेत सदा ॥ सारात सारतरं पुण्यं गुह्याद्गुह्यतरं शुभं । महादेवस्य कवचं मृतसञ्जीवनामकं ॥ समाहितमना भूत्वा शृणुष्व कवचं शुभं । शृत्वैतद्दिव्य कवचं रहस्यं कुरु सर्वदा ॥ वराभयकरो यज्वा सर्वदेवनिषेवितः । मृत्युञ्जयो महादेवः प्राच्यां मां पातु सर्वदा ॥ दधाअनः शक्तिमभयां त्रिमुखं षड्भुजः प्रभुः । सदाशिवो.अग्निरूपी मामाग्नेय्यां पातु सर्वदा ॥ अष्टदसभुजोपेतो दण्डाभयकरो विभुः । यमरूपि महादेवो दक्शिणस्यां सदावतु ॥ खड्गाभयकरो धीरो रशोगणनिषेवितः । रशोरूपी महेशो मां नैरृत्यां सर्वदावतु ॥ पाशाभयभुजः सर्वरत्नाकरनिषेवितः । वरुणात्मा महादेवः पश्चिमे मां सदावतु ॥ गदाभयकरः प्राणनायकः सर्वदागतिः । वायव्यां मारुतात्मा मां शङ्करः पातु सर्वदा ॥ शङ्खाभयकरस्थो मां नायकः परमेश्वरः । सर्वात्मान्तरदिग्भागे पातु मां शङ्करः प्रभुः ॥ शूलाभयकरः सर्वविद्यानमधिनायकः । ईशानात्मा तथैशान्यां पातु मां परमेश्वरः ॥ ऊर्ध्वभागे ब्रःमरूपी विश्वात्मा.अधः सदावतु । शिरो मे शङ्करः पातु ललाटं चन्द्रशेखरः ॥ भूमध्यं सर्वलोकेशस्त्रिणेत्रो लोचने.अवतु । भ्रूयुग्मं गिरिशः पातु कर्णौ पातु महेश्वरः ॥ नासिकां मे महादेव ओष्ठौ पातु वृषध्वजः । जिह्वां मे दक्शिणामूर्तिर्दन्तान्मे गिरिशो.अवतु ॥ मृतुय्ञ्जयो मुखं पातु कण्ठं मे नागभूषणः । पिनाकि मत्करौ पातु त्रिशूलि हृदयं मम ॥ पञ्चवक्त्रः स्तनौ पातु उदरं जगदीश्वरः । नाभिं पातु विरूपाक्शः पार्श्वौ मे पार्वतीपतिः ॥ कटद्वयं गिरीशौ मे पृष्ठं मे प्रमथाधिपः । गुह्यं महेश्वरः पातु ममोरू पातु भैरवः ॥ जानुनी मे जगद्दर्ता जङ्घे मे जगदम्बिका । पादौ मे सततं पातु लोकवन्द्यः सदाशिवः ॥ गिरिशः पातु मे भार्यां भवः पातु सुतान्मम । मृत्युञ्जयो ममायुष्यं चित्तं मे गणनायकः ॥ सर्वाङ्गं मे सदा पातु कालकालः सदाशिवः । एतत्ते कवचं पुण्यं देवतानां च दुर्लभम ॥ मृतसञ्जीवनं नाम्ना महादेवेन कीर्तितम । सह्स्रावर्तनं चास्य पुरश्चरणमीरितम ॥ यः पठेच्च्हृणुयान्नित्यं श्रावयेत्सु समाहितः । सकालमृत्युं निर्जित्य सदायुष्यं समश्नुते ॥ हस्तेन वा यदा स्पृष्ट्वा मृतं सञ्जीवयत्यसौ । आधयोव्याध्यस्तस्य न भवन्ति कदाचन ॥ कालमृयुमपि प्राप्तमसौ जयति सर्वदा । अणिमादिगुणैश्वर्यं लभते मानवोत्तमः ॥ युद्दारम्भे पठित्वेदमष्टाविशतिवारकं । युद्दमध्ये स्थितः शत्रुः सद्यः सर्वैर्न दृश्यते ॥ न ब्रह्मादीनि चास्त्राणि शयं कुर्वन्ति तस्य वै । विजयं लभते देवयुद्दमध्ये.अपि सर्वदा ॥ प्रातरूत्थाय सततं यः पठेत्कवचं शुभं । अशय्यं लभते सौख्यमिह लोके परत्र च ॥ सर्वव्याधिविनिर्मृक्तः सर्वरोगविवर्जितः । अजरामरणो भूत्वा सदा षोडशवार्षिकः ॥ विचरव्यखिलान लोकान प्राप्य भोगांश्च दुर्लभान । तस्मादिदं महागोप्यं कवचम समुदाहृतम ॥ मृतसञ्जीवनं नाम्ना देवतैरपि दुर्लभम ॥ ॥ इति वसिष्ठ कृत मृतसञ्जीवन स्तोत्रम ॥

Related Content