logo

|

Home >

Scripture >

scripture >

Marathi

Om symbolविश्वेश्वरलहरी- VishveshvaralahariOm symbol

Singer

Play Song

Source language

Translation language

Click on the songs to view the meaning


Vishveshvaralahari सिद्धिबुद्धिपतिं वन्दे श्रीगणादीश्वरं मुदा । तस्य यो वन्दनं कुर्यात स धीनां योगमिन्वति ॥१॥ वन्दे काशीपतिं काशी जाता यत्कृपया पुरी । प्रकाशनार्थं भक्तानां होतारं रत्नधातमम ॥२॥ भक्तावनं करोमीति मा गर्वं वह शङ्कर । तेभ्यः स्वपूजाग्रहणात्तवेतत्सत्यमङ्गिरः ॥३॥ मुधा लक्ष्मीं कामयन्ते चञ्चलां सकला जनाः । काशीरूपां कामयेऽहं लक्ष्मीमनपगामिनीम ॥४॥ प्राप्नुवन्तु जना लक्ष्मीं मदान्धनृपसेवनात । लभे विश्वेशसेवातो गामश्वं पुरुषानहम ॥५॥ न मत्कुटुंबरक्षार्थं माहूयामि श्रियं बुधाः । विश्वेश्वराराधनार्थं श्रियं देवीमुपह्वये ॥६॥ आपातरमणीयेयं श्रीर्मदान्धकरी चला । असारसंसृतौ काशीं सा हि श्रीरमृता सताम ॥७॥ काशी गङ्गाऽन्नपूर्णा च विश्वेशाद्याश्च देवताः । अवन्तु बालमज्ञं मामुशतीरिव मातरः ॥८॥ सदैव दुःखकारिणीं न संसृतिं हि कामये शिवप्रियां सुखप्रदां परां पुरीं हि कामये । स्वभक्तदुःखहारकं मनोरथप्रपूरकं शिवं सदा मुदा भजे महेरणाय चक्षसे ॥९॥ स्वसेवकसुतादीनां पालनं कुर्वते नृपाः । पास्येवास्मांस्तु विश्वेश गीर्वाणः पाहि नः सुतान ॥१०॥ निषेव्य काशिकां पुरीं सदाशिवं प्रपूज्य वै गुरोर्मुखारविन्दतः सदादिरूपमद्वयम । विचार्य रूपमात्मनो निषेध्य नश्वरं जडं चिदात्मना तमोभिदं धनेन हन्मि वृश्चिकम ॥११॥ हे भागीरथि हे काशि हे विश्वेश्वर ते सदा । कलयामि स्तवं श्रेष्ठमेष रारन्तु ते हृदि ॥१२॥ विश्वनाथ सदा काश्यां देह्यस्मभ्यं धनं परम । पुरा युद्धेषु दैत्यानां विद्महे त्वां धनञ्जयम ॥१३॥ अविनाशि पुरा दत्तं भक्तेभ्यो द्रविणं त्वया । काशिविश्वेशगङ्गे त्वामथ ते स्तुम्नमीमहे ॥१४॥ संसारदाववह्नौ मां पतितं दुःखितं तव । विश्वेश पाहि गङ्गाद्यैरागत्य वृषभिः सुतम ॥१५॥ काशीं प्रति वयं याम दयया विश्वनाथ ते । तत्रैव वासं कुर्याम वृक्षे न वसतिं वयः ॥१६॥ हे सरस्वति हे गङ्गे हे कालिन्दि सदा वयम । भजामामृतरूपं तं यो वः शिवतमो रसः ॥१७॥ विश्वनाथेदमेव त्वां याचाम सततं वयम । स्थित्वा काश्यामध्वरे त्वां हविष्मन्तो जरामहे ॥१८॥ सर्वासु सोमसंस्थासु काश्यामिन्द्रस्वरूपिणे । हे विश्वेश्वर ते नित्यं सोमं चोदामि पीतये ॥१९॥ काश्यां रौद्रेषु चान्येषु यजाम त्वां मखेषु वै । हे विश्वेश्वर देवैस्त्वं रारन्धि सवमेषु नः ॥ २०॥ मां मोहाद्या दुर्जनाश्च बाधन्ते निष्प्रयोजनम । विश्वेश्वर ततो मे त्वां वरुत्रीं धिषणां वह ॥२१॥ रुद्राक्षभस्मधारी त्वां काश्यां स्तौमीश संस्तवैः । त्वत्पादांबुजभृङ्गं मां न स्तोतारं निदेकरः ॥२२॥ विहाय चञ्चलं वधूसुतादिकं हि दुःखदं त्वदीयकामसंयुता भवेम काशिकापुरी । स्वसेवकार्तिनाशक प्रकृष्टसंविदर्पक भवैव देव सन्ततं ह्युतत्वमस्मयुर्वसो ॥२३॥ विश्वेश काश्यां गङ्गायां स्नात्वा त्वां रम्यवस्तुभिः । पूजयाम वयं भक्त्या कुशिकासो अवस्यवः ॥२४॥ विश्वेश नित्यमस्मभ्यं भयमुत्पादयन्ति ये । तेषां विधायोपमर्दं ततो नो अभयं कृधि ॥२५॥ राक्षसानां स्वभावोऽयं बाध्या विश्वेश जीवकाः । भक्तानुकंपया शंभो सर्वं रक्षो निबर्हय ॥२६॥ विश्वेश्वर सदा भीतः संसारर्णवज्जनात । मां पालय सदेति त्वां पुरुहूतमुपब्रुवे ॥२७॥ इदं विमृश्यनश्वरं जडं सदैव दुःखदं समर्चितुं शिवं गताः पराः पुरीं यतो द्विजाः । ततोऽभिगम्य तां पुरीं समर्च्य वस्तुभिः परैः शिवं स्वभक्तमुक्तिदं तमिल्यखित्व ईमहे ॥२८॥ काश्यां वयं सदैव त्वां यजाम सकलैर्मखैः । विश्वेश्वर त्वं समग्रैर्देवैरासत्सि बर्हिषि ॥२९॥ यक्षेश्वरेण रक्षितं श्रेष्ठं धनमखेषु ते । देहि व्ययाय शङ्कर ह्यस्मभ्यमप्रतिष्कृतः ॥३०॥ मत्पूर्वजा महाशैवा भस्मरुद्राक्षधारिणः । विश्वेश्वर सुरेषु त्वामद्वशमिव येमिरे ॥३१॥ शंभोर्विधाय येऽर्चनं तिष्ठन्ति तत्परा यदा । तान शङ्करो गिरे द्रुतं यूथेन वृष्णिरेजति ॥३२॥ त्वां पूजयामीश सुरं मानसैर्दिव्यवस्तुभिः । हे विश्वेश्वर देवैस्त्वं सोम रारन्धि नो हृदि ॥३३॥ प्रादुर्भवसि सद्यस्त्वं क्लेशो भक्तजने यदा । ततोऽहं क्लेशवान कुर्वे सद्योजाताय वै नमः ॥३४॥ वामदेवेति मनू रम्यतां यस्य सञ्जगौ । ईशस्तस्मात्कियते वामदेवाय ते नमः ॥३५॥ दयासिन्धो दीनबन्धो योऽस्तीश वरदः करः । अस्माकं वरदानेन स युक्तस्तेऽस्तु दक्षिणः ॥३६॥ दुष्टभीतस्य मे नित्यं करस्तेऽभयदायकः । महेशाभयदाने स्यादुत सव्यः शतक्रतो ॥३७॥ महेश्वरीयपदपद्मसेवकः पुरन्दरादिपदनिःस्पृहः सदा । जनोऽस्ति यः सततदुर्गतः प्रभो पृणक्षि वसुना भवीयसा ॥३८॥ रक्षणाय नास्ति मे त्वां विनेश साधनम । निश्चयेन हे शिव त्वामवस्युराचके ॥३९॥ रोगैर्दुःखैर्वैरिगणैश्च युक्तास्त्वद्दासत्वाच्छङ्कर तत्सहस्व । रम्यं स्तोत्रं रोषकरं वचो वा यत्किञ्चाहं त्वायुरिदं वदामि ॥४०॥ ध्यायाम वस्तु शङ्करं याचाम धाम शङ्करम । कुर्याम कर्म शङ्करं वोचेम शन्तमं हृदे ॥४१॥ माता तातः स्वादिष्ठं च पौष्टिकं मन्वाते वाक्यं बालस्य कुत्सितम । यद्वत्तद्वाक्यं मेऽस्तु शंभवे स्वादोः स्वादीयो रुद्राय बन्धनम ॥४२॥ शिवं सुगन्धिसंयुतं स्वभक्तपुष्टिवर्धनम । सुदीनभक्तपालकं त्रियम्बकं यजामहे ॥४३॥ देव देव गिरिजावल्लभ त्वं पाहि पाहि शिव शंभो महेश । यद्वदामि सततं स्तोत्रवाक्यं तज्जुषस्व कृधि मा देववन्तम ॥४४॥ त्यक्त्वा सदा निष्फलकार्यभारं धॄत्वा सदा शङ्करनामसारम । हे जीव जन्मान्तकनाशकारं यक्ष्यामहे सौमनसाय रुद्रम ॥४५॥ स्थित्वा काश्यां निर्मलगङ्गातोये स्नात्वा संपूज्य त्रिदशेश्वरं वै । तस्य स्तोत्रं पापहरैस्तु देव भद्रं कर्णेभिः शृणुयाम देवाः ॥४६॥ वाराणस्यां शङ्करं सुराढ्यं संपूज्येशं वसुभिः सुकान्तैः । अग्रे नृत्यन्तः शिवस्य रूपं भद्रं पश्येमाक्षभिर्यजत्राः ॥४७॥ इच्छामस्त्वां पूजयितुं वयं विश्वेश सन्ततम ॥ प्रयच्छ नो धनं श्रेष्ठं यशसं वीरवत्तमम ॥४८॥ काश्यामुषित्वा गङ्गायां स्रात्वा संपूज्य शङ्करम । ध्यात्वा तच्चरणौ नित्यमलक्ष्मीर्नाशयाम्यहम ॥४९॥ असत्पदं स्वहर्षदं न चान्यहर्षदायकं सदा मुदा प्रसूर्यथा शृणोति भाषितं शिशोः । शिवापगाशिवाबलाशिवालयासमन्वित- स्तथा शिवेश नः सुरैर्गिरमुपश्रुतिं चर ॥५०॥ सगरस्यात्मजा गङ्गे मताः सन्तारितास्त्वया । अगरस्यात्मजा तस्मात किं न तारयसि ध्रुवम ॥५१॥ प्रायिकोऽयं प्रवादोऽस्तु तरन्ति तव सन्निधौ । तारकं नाम ते गङ्गे सन्निधेः किं प्रयोजनम ।५२॥ मीनैरायतलोचने वसुमुखीवाब्जेन रोमावलीयुक्तो राजवतीव पद्ममुकुलैः शैवालवल्ल्या युतैः । उद्भास्वज्जघनेन वालपुलिनैरुद्यद्भुजेवोर्मिभिर- गर्तेनोज्ज्वलनाभिकेव विलसत्येषा परं जाह्नवी ॥५३॥ शृङ्गारितां जलचरैः शिवसुन्दराङ्ग- सङ्गां सदापहृतविश्वधवान्तरङ्गाम भृङ्गाकुलांबुजगलन्मकरन्दतुन्द- भृङ्गावलीविलसितां कलयेऽथ गङ्गाम ॥५४॥ विश्वेशोऽसि धनाधिपप्रियसखा किं चान्नपूर्णापतिर- जामाता धरणीमृतो निरुपमाष्टैश्वर्ययुक्तः स्वयम । चत्वार्येव तथापि दास्यसि फलान्यात्माश्रयान्ते चिरं तेभ्योऽतो बत युज्यते पशुपते लब्धावतारस्तव ॥५५॥ दोषाकरं वहसि मूर्ध्नि कलङ्कवन्तं कण्ठे द्विजिह्वमतिवकगतिं सुघोरम । पापीत्ययं मयि कुतो न कृपां करोषि युक्तैव ते विषमद्दष्टिरतो महेश ।५६॥ अस्ति त्रिनेत्रमुडुराजकला ममेति गर्वायते ह्यतितरां बत विश्वनाथ । त्वद्वासिनो जननकाशिशशाङ्कचूडा- भालेक्षणाश्च न भवन्ति जनाः कियन्तः ॥५७॥ कामं सन्त्यज नश्वरेऽत्र विषये वामं पदं मा विश क्षेमं चात्मन आचर त्वमदयं कामं स्मरस्वान्तकम । भीमं दण्डधरस्य योतिहृदयारामं शिरप्रोल्लस- त्सोमं भावया विश्वनाथमनिशं सोमं सखे मानसे ॥५८॥ संपूज्य त्रिदशवरं सदाशिवं यो विश्वेशस्तुतिलहरीं सदा पठेद्वै । कैलासे शिवपदकञ्जराजहंस आकल्पं स हि निवसेच्छिवस्वरूपः ॥५९॥ अनेन प्रीयतां देवो भगवान काशिकापतिः । श्रीविश्वनाथः पूर्वेषामस्माकं कुलदैवतम ॥६०॥ इयं विश्वेशलहरी रचिता खण्डयज्वना । विश्वेशतुष्टिदा नित्यं वसतां हृदये सताम ॥६१॥ नाम्ना गुणैश्चापि शिवैव माता तातः शिवस्त्रयम्बकयज्वनामा । मल्लारिदेवः कुलदैवतं मे श्रीकौशिकस्यास्ति कुले च जन्म ॥६२॥ इति श्रीगणेशदीक्षितात्मजत्र्यम्बकदीक्षिततनूजखण्डराजदीक्षितविरचिता विश्वेश्वरलहरी संपूर्णा ॥

Related Content

Shivananda lahari

Jeevanmuktandalahari Stotram

Sadashiva Pancharatnam

श्री शिवानन्द लहरी - shivaananda lahari

જીવન્મુક્તાનન્દલહરી સ્તોત્રમ - Jeevanmuktananda Lahari Stotr