श्रीभगवानुवाच ॥
ऒँ नमो भगवते महा पुरुषाय
सर्वगुणसङ्ख्यानायानन्तायाव्यक्ताय नम इति ॥१॥
भजे भवान्या रणपादपङ्कजं भगस्य कृत्स्नस्य परं परायणम ।
भक्तेष्वलं भावितभूतभावनं भवापहं त्वा भवभावमीश्वरम ॥२॥
न यस्य मायागुणचितवृत्तिभिर्निरीक्षतो ह्यण्वपि दृष्टिरज्यते ।
ईशे यथा नोऽजितमन्युरंहसां कस्तं न मन्येत जिगीपुरात्मनः ॥३॥
असद्दृशो यः प्रतिभाति मायया क्षीबेव मध्वासवताम्रलोचनः ।
न नागवध्वोऽर्हण ईशिरे ह्रिया यत्पादयोः स्पर्शनधर्षितेन्द्रियाः ॥४॥
यमाहुरस्य स्थितिजन्मसंयमं त्रिभिर्विहीनं यमनन्तमृष्टयः ।
न वेदसिद्धार्थमिव क्वचित्स्थितं भूमण्डलं मूर्धसहस्रधामसु ॥५॥
यस्याद्य आसीद्गुणविग्रहो महान्विज्ञानधिष्ण्यो भगवानजः किल ।
यत्संभवोऽहं त्रिवृता स्वतेजसा वैकारिकं तामसमैन्द्रियं सृजे ॥६॥
एते वयं यस्य वशे महात्मनः स्थिताः शकुन्ता इव सूत्रयन्त्रिताः ।
महानहम वैकृततामसेन्द्रियाः स्रुजाम सर्वे यदनुग्रहादिदम ॥७॥
यन्निर्मितां कर्ह्यपि कर्मपर्वणीं मायां जनोऽयं गुणसर्गमोहितः ।
न वेद निस्तारणयोगमञ्जसा तस्मै नमस्ते विलयॊदयात्मने ॥८॥
इति श्रीमद्भागवतान्तर्वर्ति विष्णुकृतं शिवस्तोत्रं समात्पम ॥