logo

|

Home >

Scripture >

scripture >

Marathi

Om symbolश्रीशिवस्तुति कदम्बम- Shrishivastuti KadambamOm symbol

Singer

Play Song

Source language

Translation language

Click on the songs to view the meaning


Srishivastuti Kadambam आह्लादजनकस्याद्य सान्निध्यात्तव शङ्कर । चन्द्रश्चन्द्रत्वमापेदे जाने चन्द्रलसज्जट ॥१॥ कालकूटं निगृह्यादावरक्षः सकलं जगत । को वाऽत्र विस्मयः शंभो कालस्यैकस्य निग्रहे ॥२॥ अभवस्त्वं सूचयितुं लोकानामर्धनारीशः । अर्धो वेत्याम्नायः स्वार्थपरो नार्थवाद इति ॥३॥ जडताविदलनदीक्षित जडतापहऋतिं करोषि नो चेन्मे । दीक्षाभङ्गो न भवेद्दाक्षायण्याश्रिताङ्ग किमु तेन ॥४॥ पशुपतिमव मां शंभो पशुपतिरसि गिरिश यस्मात्वम । श्रुतिरप्येवं ब्रुते कर्तव्या ह्यात्मरक्षेति ॥५॥ शीर्षोपरि चन्द्रस्ते लोके शास्त्रे च विख्यातः । कण्ठोपर्यकळङ्कः पूर्णः कोऽयं निशाकरो ब्रुहि ॥६॥ कवित्ववारशिशरन्निशेशं जडत्वनागेन्द्रविभेदसिंहम । मृगत्वगाबद्धकटिप्रदेशं महत्त्वदं नौमि नताय शंभुम ॥७॥ यदङ्घ्रिपाथोरुहसेवनेन प्रयाति सर्वोत्तमतां जडोऽपि । तमम्बिकामानसपद्महंसमुपाश्रये सत्वरचितशुद्धये ॥८॥ बहूनां जनानां मनोऽभीष्टजातं सुसूक्ष्मं वितीर्याशु गर्वायसे त्वम । महेशान यद्यस्ति शक्तिस्तवाहो महन्मन्मनोऽभीष्टमाशु प्रयच्छ ॥९॥ अपां पुष्पार्धस्य प्रतिदिनमहो धारणवशात्प्रभो किं निर्वेदाद्धरणिगतपुष्पालिमधुना । रसाद्धत्से शीर्षे शशधरकिरीटागतनयासहाय प्रब्रूहि प्रणतजनकारुण्यभरित ॥१०॥ बहोः कालात्किं वा शिरसि कृतवासं तव विधुं वियोगं किं पत्युर्भृशमसहमानाः स्वयमहो । समालिङ्गन्त्येताः पतिमतिरसात्पुष्पमिषतः प्रभो तारास्तस्मादसि सुमकिरीटस्त्वमधुना ॥११॥ भक्तानां हृद्रथानां निजनिजपदवीप्राप्तये पार्वतीशः कारुण्यापारवारांनिधिरगपतिजासंयुतः संभ्रमेण । आरुह्यैकं हि बाह्यं रथमिह निखिलांश्चालयन्किं पुरोक्तान्गर्वं पक्षीशवाय्वोर्हरति करुणया शीघ्रनम्रेष्टअदायी ॥१२॥ मत्पापानां बहूनां परिमितिरधुनाऽधीश नास्त्येव नूनं त्वद्वत्पापोपशान्तिप्रदमिह भुवने नास्ति दैवं च सद्यः । तस्मान्मत्पापराशिं दह दह तरसा देहि शुद्धां च बुद्धिं स्रोतः श्रेष्ठावतंस प्रणतभयहर प्राणनाथागजायाः ॥१३॥ कामं सन्तु सुराः स्वपादनमनस्तोत्रार्चनाभिश्चिरं देहं कर्शयते जनाय फलदास्तान्नाश्रये जात्वपि । यो जात्वप्यवशात्स्वनाम वदते लोकाय शीघ्रेष्टदः सोऽव्याद्धेतुविहीनपूर्णकरुणः कान्तायितार्धः शिवः ॥१४॥ नित्यानित्यविवेकभोगविरती शान्त्यादिषट्कं तथा मोक्षेच्छामनपायिनीं वितर भो शंभो कऋपावारिधे । वेदान्तश्रवणं तदर्थमननं ध्यानं चिरं ब्रह्मणः सच्चिद्रूपतनोरखण्डपरमानन्दात्मनः शङ्कर ॥१५॥ मन्नीकाशतनुं प्रगॄह्य करुणावारांनिधे सत्वरं श्रृङ्गाद्रौ वस मोदतः करुणया व्याख्यानसिंहासने । कुर्वल्लोकततिं स्वधर्मनिरतां सौख्यैरशेषैर्वृताम- द्वैतात्मविबोधपूर्णहृदयां चातन्वपर्णापते ॥१६॥ यत्पदाम्बुजसमर्चनसक्तः सक्तिमाशु विषयेषु विहाय । सच्चिदात्मनि विलीनमनस्काः संभवन्ति तमहं शिवमीडे ॥१७॥ रजनीवल्लभचूडो रजनीचरसेव्यपदपद्मः । राकाशशाङ्कधवळो राजति रमणीगृहीतवामाङ्गः ॥१८॥ करवाणीतनुभिस्ते करवाणीशाङ्घ्रिसन्नतिं मोदात । करवाणीतनुशुद्ध्यै करवाणीश्रीबहुत्वाय ॥१९॥ इति श्रीशिवस्तवकदम्बं संपूर्णम ॥

Related Content

শিৱস্তুতিঃ (লঙ্কেশ্ৱর ৱিরচিতা) - Shivastutih (Langeshvara

শিৱস্তুতিঃ (শ্রী মল্লিকুচিসূরিসূনু নারযণ পণ্ডিতাচার্য ৱিরচি

shivastutiH (langkeshvara virachitaa)

Shiva Stutih (Shri Mallikuchisoorisoonu Narayana Panditaach

ಶಿವಸ್ತುತಿಃ (ಲಙ್ಕೇಶ್ವರವಿರಚಿತಾ) - Shivastutih (Langeshvara V