logo

|

Home >

Scripture >

scripture >

Marathi

Om symbolश्रीशिव सुवर्णमाला स्तवः - Shrishiva Suvarnamaalaa StavahOm symbol

Singer

Play Song

Source language

Translation language

Click on the songs to view the meaning


Srishiva Suvarnamala Stavah अनेककोटिब्रह्माण्डजननीनायकप्रभो । अनेकप्रमुखस्कन्दपरिसेवित पाहि माम ॥१॥ आकारापारनिर्व्याजकरुणायाः सतीपते । आशाभिपूरकानम्रविततेः पाहि शङ्कर ॥२॥ इभाश्वमुखसंपत्तिदानदक्षकृपालव । इष्टप्रालेयशैलेन्द्रपुत्र्याः पाहि गिरीश माम ॥३॥ ईहाशून्यजनावाप्य नतानन्दाब्धिचन्द्रमः । ईशान सर्वविद्यानामिन्दुचूड सदाऽव माम ॥४॥ उरगाधिपसंराजत्पदपङ्केरुहद्वय । उडुराजकृतोत्तंस गिरिजासख मामव ॥५॥ ऊरीकृतविनम्रेष्टपूगसंपूरणव्रत । अखिलामरकोटीरनिघृष्टपद पाहि माम ॥६॥ ऋद्धिदाम्भोजवासायाः काममाशु नमत्ततेः । शैलेन्द्रतनयाश्लिष्ट शर्व मां पाहि सर्वदा ॥७॥ ऋस्वराख्येयरूपाय भूतिदायादराद्दुतम । षण्मुखेभास्यपूज्याय नम्रश्चन्द्रार्धमौलये ॥८॥ लृकाराख्याय लक्ष्मीशद्रुहिणाद्यर्चिताङ्घ्रये । अपारकरुणाजन्मभूमये शंभवे नमः ॥९॥ लॄस्वरूप ललाटाक्ष लाकिन्यादिनिषेवित । लावण्याकर कारुणयवारिधे पाहि मां प्रभो ॥१०॥ एणाङ्कचूड काणादशास्त्रप्रज्ञाप्रदायक । शोणाधर नमस्यामि त्वत्पादाम्बुरुहद्वयम ॥११॥ ऐहिकामुष्मिके पुंसां सुलभे यत्पदार्चनात । चन्द्रार्धविलसन्मौलिं नमामि तमुमापतिम ॥१२॥ ओमित्याख्यां यस्यवेदा वेदान्ताश्च जगुर्मुहुः । ओङ्कारजपतुष्टं तं नौमि चन्द्रार्धशेखरम ॥१३॥ औदासीन्यं समस्तेषु विषयेषु प्रकुर्वताम । सुलभं जगदीशानं पार्वती पतिमाश्रये ॥१४॥ अङ्गशोभापराभूतकोटिराकानिशाकरम । अन्धकान्तककामादिगर्वहारिणमाश्रये ॥१५॥ अश्च उश्च मकारश्च यन्नामावयवाक्षराः । अशेषशुभदातारं तं नौमि शशिशेखरम ॥१६॥ कविता वृणुते रतीशतुल्यं पतिमास्थासहितेव मानिनी । तरसा पुरुषं यदङ्घ्रिनम्रं तमहं नौमि शशाङ्कबालचूडम ॥१७॥ खण्डेन चान्द्रेण किरीटगेन विराजमानं वृषभाधिरूढ । खवायुतेजोऽम्बुधरादिरूपं शैलेन्द्रसुतासमेतम ॥१८॥ गद्यानि पद्यानि च शीघ्रमेव मूकस्य वक्त्रादपि निःसरन्ति । यदीयकारुण्यलवात्तमीशं नमामि चन्द्रार्धकभासिमौलिम ॥१९॥ घटोद्भवाद्या मुनयो यदङ्घ्रिसमर्चनातो महतीं प्रपन्नाः । सिद्धिं तमानम्रजनेष्टदाननिबद्धदीक्षं प्रणमामि शंभुम ॥२०॥ ङकारवाच्याय नमज्जनौघविद्याप्रदानप्रवणाय शीघ्रम । वटागमूलैकनिकेतनाय श्रीदक्षिणास्याय नमः शिवाय ॥२१॥ चयेन भासां वपुषश्चकोरबन्धुं जयन्तं जितपुष्पचापम । प्रालेयशैलेन्द्रसुतामनोऽब्ज भानुं भजे कञ्चन देववर्यम ॥२२॥ छत्रं च वालव्यजने मनोज्ञे समुद्रकाञ्चीं पृथिवीं च लोकाः । जवाद्भजन्तेऽप्यतिकिंपचाना यदङ्घ्रिनम्रास्तमुमेशमीडे ॥२३॥ जन्मस्वनेकेषु विधाय धर्मान्स्ववर्णयोग्यान्मनुजोऽतिभक्त्या । जिज्ञासते यत्पदमादरेण तं नौमि सच्चित्सुखरूपमीशम ॥२४॥ झरीं दधानं दिविषत्तटिन्या झटित्ययोग्यानपि भक्तिपूर्णान । पुनानमर्धेन्दुलसत्किरीटं युवानमीशं कलयामि चित्ते ॥२५॥ ञकाररूपाय रवीन्दुवह्निनेत्राय नानाविधरूपधर्त्रे । लोकावनायातिमनोहराय शैलेन्द्रकन्यापतये नमोऽस्तु ॥२६॥ टवर्णवाच्याय तडित्प्रभाय यमादियोगाङ्गविदर्चिताय । शमादिसंपत्सहितप्यपादपद्माय गौरीपतये नमोऽस्तु ॥२७॥ ठपुक्त्रिवर्णप्रतिपादिताय हराय निःशेषविषाघहर्त्रे । श्रीनीलकण्ठाय यमिप्रवीरध्येयाय कुर्मः प्रणातिं प्रमोदात ॥२८॥ डामरप्रमुखदुःखसमूहध्वंसदक्षचरणस्मरणस्य । शैलजाहृदयपङ्कजभानोः शङ्करस्य चरणौ प्रणतोऽस्मि ॥२९॥ ढक्काख्यवाद्यश्रवणोत्सुकाय प्राढाय कन्दर्पशरप्रभेदे । शिवाय चन्द्रार्धलसज्जटाय कुर्मः प्रमोदात्प्रणतेः सहस्रम ॥३०॥ णान्तदादिहरिदुत्सुखमूर्ते नाकनाथपरिसेवितपाद । वासलोल वटवृक्षतले मां वाराणस्यामिव पाहि दयाळो ॥३१॥ तप्ताः संसृतिवह्निना भुवि नराः संप्राप्य सद्देशिकं तस्यास्याच्छ्रतिशीर्षवाक्यनिचयं श्रुत्वार्थयुक्तं मुहुः । युक्त्या श्रुत्यविरुद्वया तदनुसञ्चिन्त्यार्थमाद्योदितं ध्यात्वाऽजस्रमवाप्नुवन्ति यमहं तं नौमि गौरीपतिम ॥३२॥ थायैयेति समस्तदेववनिता नृत्यं यदग्रेऽन्वहं कुर्वन्त्यम्बुजसंभवप्रभृतयः स्तुन्वन्ति वेदैश्च यम । इन्द्राणीशरमाधवादिसुरा यस्यार्चनां कुर्वते कल्पागप्रभवैः सुमैस्तमनिशं नौम्यादिजावल्लभम ॥३३॥ इति श्रीशिवसुवर्णमालास्तवः संपूर्णः ॥

Related Content

শ্রীশিৱস্তুতি কদম্বম- Shrishivastuti Kadambam

શ્રીશિવસ્તુતિ કદમ્બમ - Shrishivastuti Kadambam

ಶ್ರೀಶಿವಸ್ತುತಿ ಕದಮ್ಬಮ್- Shrishivastuti Kadambam

ശ്രീശിവസ്തുതി കദംബം - Shrishivastuti Kadambam

श्रीशिवस्तुति कदम्बम- Shrishivastuti Kadambam