logo

|

Home >

Scripture >

scripture >

Marathi

Om symbolश्रीकण्ठेश स्तोत्रम- Shrikanthesha StotramOm symbol

Singer

Play Song

Source language

Translation language

Click on the songs to view the meaning


Srikantesha Stotram आर्द्रान्तःकरणस्त्वं यस्मादीशान भक्तवृन्देषु । आर्द्रोत्सवप्रियोऽतः श्रीकण्ठात्रास्ति नैव सन्देहः ॥१॥ द्रष्टॄंस्तवोत्सवस्य हि लोकान्पापात्तथा मृत्योः । मा भीरस्त्विति शंभो मध्येतिर्यग्ग तागतैर्ब्रूषे ॥२॥ प्रकरोति करुणयार्द्रान शंभुर्नम्रानिति प्रबोधाय । धर्मोऽयं किल लोकानार्द्रान्कुरुतेऽद्य गौरीश ॥३॥ आर्द्रा नटेशस्य मनोऽब्जवृत्तिरित्यर्थसंबोधकृते जनानाम । आर्द्रर्क्ष एवोत्सवमाह शस्तं पुराणजालं तव पार्वतीश ॥४॥ बाणार्चने भगवतः परमेश्वरस्य प्रीतिर्भवेन्निरुपमेति यतः पुराणैः । संबोध्यते परशिवस्य यथान्धकं ततः करोति बाणार्चनं जगति भक्तियुता जनाळिः ॥५॥ यथान्धकं त्वं विनिहत्य शीघ्रं लोकस्य रक्षामकरोः कऋपाब्धे । तथाज्ञतां मे विनिवार्य शीघ्रं विद्यां प्रयच्छाशु सभाधिनाथ ॥६॥ इति श्रीकण्ठेशस्तोत्रं संपूर्णम ॥

Related Content

শ্রীকণ্ঠেশ স্তোত্রম- Shrikanthesha Stotram

શ્રીકણ્ઠેશ સ્તોત્રમ- Shrikanthesha Stotram

ಶ್ರೀಕಣ್ಠೇಶ ಸ್ತೋತ್ರಮ್ - Shrikanthesha Stotram

ശ്രീകണ്ഠേശ സ്തോത്രം- Shrikanthesha Stotram

ਸ਼੍ਰੀਕਣ੍ਠੇਸ਼ ਸ੍ਤੋਤ੍ਰਮ- Shrikanthesha Stotram