यः पादपपिहिततनुः प्रकाशतां परशुरामेण ।
नीतः सोऽव्यात्सततं श्रीकण्ठः पादनम्रकल्पतरुः ॥१॥
यः कालं जितगर्वं कऋत्वा क्षणतो मृकण्डुमुनिसूनुम ।
निर्भयमकरोत्सोऽव्यच्छ्रीकण्ठः पादनम्रकल्पतरुः ॥२॥
कुष्ठापस्मारमुखा रोगा यत्पादसेवनात्सहसा ।
प्रशमं प्रयान्ति सोऽव्याच्छ्रीकण्ठः पादनम्रकल्पतरुः ॥३॥
यदविद्यैव जगदिदमखिलं प्रतिभाति सत्यवत्पूर्वम ।
ज्ञानात्सोऽव्यात्सततं श्रीकण्ठः पादनम्रकल्पतरुः ॥४॥
यतिवृन्दवन्द्यचरणः कमिता धरणीधरेन्द्रतनयायाः ।
श्रीशादिवन्दितोऽव्याच्छ्रीकण्ठः पादनम्रकल्पतरुः ॥५॥
यो दक्षिणास्यरूपं धृत्वा विज्ञानदानकृतदीक्षः ।
मुग्धेभ्योऽपि स पायाच्छ्रीकण्ठः पादनम्रकल्पतरुः ॥६॥
अन्धोऽपि यत्करुणया चक्षुष्मान्भवति सत्वरं लोके ।
करुणानिधिः स पायाच्छ्रीकण्ठः पादनम्रकल्पतरुः ॥७॥
कपिलातटादृतगतिः कपिलादिमुनीन्द्रवन्द्यपदपद्मः ।
श्रीदः पायात्सततं श्रीकण्ठः पादनम्रकल्पतरुः ॥८॥
श्रीकण्ठाष्टकमेतत्पठति जनो यः कऋतादरः सततम ।
श्रीविद्यासदनं स प्रभवेन्नैवात्र सन्देहः ॥९॥
इति श्रीकण्ठाष्टकं संपूर्णम ॥