logo

|

Home >

Scripture >

scripture >

Marathi

Om symbolशिवताण्डव स्तुतिः- Shivatandava Stutih Om symbol

Singer

Play Song

Source language

Translation language

Click on the songs to view the meaning


Shivatandava Stutih देवा दिक्पतयः प्रयात परतः खं मुञ्चताम्भोमुचः पाताळं व्रज मेदिनि प्रविशत क्षोणीतलं भूधराः । ब्रह्मन्नुन्नय दूरमात्मभुवनं नाथस्य नो नॄत्यतः शंभोः सङ्कटमेतदित्यवतु वः प्रोत्सारणा नन्दिनः ॥१॥ दोर्दण्डद्वयलीलयाऽचलगिरिभ्राम्यत्तदुच्चैरव- ध्वानोद्भीतजगद्भ्रमत्पदभरालोलत्फणाग्र्योरगम । भृङ्गापिङ्गजटाटवीपरिसरोद्गङ्गोर्मिमालाचल- च्चन्द्रं चारु महेश्वरस्य भवतां निःश्रेयसे मङ्गळम ॥२॥ सन्ध्याताण्डवडम्बर व्यसनिनो भर्गस्य चण्डभ्रमि- व्यानृत्यद्भुजदण्डमण्डल भुवो झंझानिलाः पान्तु वः । येषामुच्छलतां जवेन झगिति व्यूहेषु भूमीभृता- मुड्डीनेषु बिडौजसा पुनरसौ दम्भोलिरालोकितः ॥३॥ शर्वाणीपाणितालैश्चलवलयझणत्कारिभिः श्लाघ्यमानं स्थाने संभाव्यमानं पुळकितवपुषा शंभुना प्रेक्षकेण । खेलत्पिच्छाळिकेकाकलकलकलितं क्रौञ्चमिद्वर्हियूना हेरम्बाकाण्डवबृंहातरळितमनसस्ताण्डवं त्वा धिनोतु ॥४॥ देव-स्तै गुण्यमेदात्सृजति वितनुते संहरत्येष लोका- नस्यैव व्यापिनीभिस्तनुभिरपि जगद्व्याप्तमष्टभिरेव ॥ वन्द्यो नास्येति पश्यन्निव चरणगतः पातु पुष्पाञ्जलिर्वः शंभोर्नृत्यावतारे वलयमणिफणाफूत्कृतैर्विप्रकीर्णः ॥५॥ इति शिवताण्डवस्तुतिः समाप्ता ॥

Related Content

শিৱতাণ্ডৱ স্তুতিঃ- Shivatandava Stutih

શિવતાણ્ડવ સ્તુતિઃ - Shivatandava Stutih

ಶಿವತಾಣ್ಡವ ಸ್ತುತಿಃ- Shivatandava Stutih

ശിവതാണ്ഡവ സ്തുതിഃ- Shivatandava Stutih

ਸ਼ਿਵਤਾਣ੍ਡਵ ਸ੍ਤੁਤਿਃ Shivatandava Stutih