शिव हरे शिव राम सखे प्रभो त्रिविधतापनिवारण हे विभो ॥
अज जनेश्वर यादव पाहि मां शिव हरे विजयं कुरु मे वरम ॥१॥
कमललोचन राम दयानिधे हर गुरो गजरक्षक गोपते ॥
शिवतनो भव शङ्कर पाहि मां शिव हरे विजयं कुरु मे वरम ॥२॥
स्वजनरञ्जन मङ्गळमन्दिरं भजति तं पुरुषं परमं पदम ॥
भवति तस्य सुखं परमाद्भुतं शिव हरे विजयं कुरु मे वरम ॥३॥
जय युधिष्ठिरवल्लभ भूपते जय जयार्जितपुण्यपयोनिधे ॥
जय कृपामय कृष्ण नमोऽस्तु ते शिव हरे विजयं कुरु मे वरम ॥४॥
भवविभोचन माधव मापते सुकविमानसहंस शिवारते ॥
जनकजारत राघव रक्ष मां शिव हरे विजयं कुरु मे वरम ॥५॥
अवनिमण्डलमङ्गळ मापते जलदसुन्दर राम रमापते ॥
निगमकीर्तिगुणार्णव गोपते शिव हरे विजयं कुरु मे वरम ॥ ६॥
पतितपावननाममयी लता तव यशो विमलं परिगीयते ॥
तदपि माधव मां किमुपेक्षसे शिव हरे विजयं कुरु मे वरम ॥ ७॥
अमरतापरदेव रमापते विजयतस्तव नाम धनोपमा ॥
मयि कथं करुणार्णव जायते शिव हरे विजयं कुरु मे वरम ॥ ८॥
हनुमतः प्रिय चापकर प्रभो सुरसरिद्धृतशेखर हे गुरो ॥
मम विभो किमु विस्मरणं कृतं शिव हरे विजयं कुरु मे वरम ॥ ९॥
नरहरेति परं जनसुन्दरं पठति यः शिवरामकृतस्तवम ॥
विशति रामरमाचरणांबुजे शिव हरे विजयं कुरु मे वरम ॥१०॥
प्रातरुत्थाय यो भक्त्या पठेदेकाग्रमानसः ॥
विजयो जायते तस्य विष्णुसान्निध्यमाप्नुयात ॥११॥
इति श्रीरामानन्दविरचितं शिवरामस्तोत्रं संपूर्णम ॥