ॐ प्रत्यक्प्रवणधीवृत्या हृद्गृहान्तःप्रवेशनम ।
मण्डपान्तः प्रवेशोऽयं पूजार्थं तव शङ्कर ॥१॥
गुरुवाक्येषु विश्वासः स्थितिरासनसंस्थितिः ।
सर्वसङ्कल्पसन्त्यागः सङ्कल्पस्तव पूजने ॥२॥
सर्वाधारस्त्वमेवेति निश्चयः पीठपूजनम ।
ध्यानध्यातृध्येयबाधो ध्यानमानन्दकारणम ॥३॥
दृश्यप्रमार्जनं चित्तान्निर्माल्यस्य विसर्जनम ।
अहं ब्रह्मेत्यखण्डा या वृत्तिर्धाराभिषेचनम ॥४॥
पृथिव्यात्मकता दृष्टिस्तव गन्धसमर्पणम ।
बोधोपशमवैराग्यं त्रिदळं बिल्वमर्पये ॥५॥।
आकाशात्मकताबोधः कुसुमार्पणमीश्वर ।
जगदाकाशपुष्पाभमिति पद्मं समर्पये ॥६॥
वायुतेजोमयत्वं ते धूपदीपावनुत्तमौ ।
दृश्यासंभवबोधेन निजानन्देन तृप्तता ॥७॥
सर्वतः प्रीतिजनकं नैवेद्यं विनिवेदये ।
जलात्मकत्वबुद्धिस्तु पीयूषं तेऽर्पये पिब ॥८॥
कर्तव्येषवप्रसक्तिस्तु हस्तप्रक्षाळनं तव ॥९॥
दुर्वासनापरित्यागस्तांबूलस्य समर्पणम ।
वाचां विसर्जनं देव दक्षिणा श्रुतिसंमता ॥१०॥
फलाभिसन्धिराहित्यं फलार्पणमनुत्तमम ।
अहमेव परं ब्रह्म सचिदानन्दलक्षणम ॥११॥
एवं निदिध्यासवाक्यं स्तुतिः प्रियकरी तव ।
नामरूपाणि न त्वत्तो भिन्नानीति मतिस्तु या ॥१२॥
तव पुष्पाञ्जलिः शम्भो सर्वत्रोत्कीर्णपुष्पकः ।
स्वप्रकाशात्मबुद्धिस्तु महानीराजनं तव ॥१३॥
प्रादक्षिण्यं सर्वतस्ते व्याप्तिबुद्धिः स्मृतं शिव ।
त्वमेवाहमिति स्थित्या लीनता प्रणतिस्तव ॥१४॥
शुद्धसत्त्वस्याभिवृद्धिश्छत्रं तापापनोदनम ।
रजस्तमस्तिरस्कारश्चामरान्दोळने तव ॥१५॥
निजानन्दपराघूर्णदोळनान्दोळने वस ।
धन्योऽहं कृतकृत्योऽहमिति गानं तव प्रियम ॥१६॥
निरङ्कुशं महातृप्त्या नर्तनं ते मुदे शिव ।
नानाविधैः शब्दजालैर्जृंभणं वाद्यमुत्तमम ॥१७॥
शब्दातिगत्वबुद्धिस्तु कल्याणमिति डिण्डिमः ।
वेगवत्तरगन्ताऽसौ मनोऽश्वस्ते समर्पितः ॥१८॥
अहम्भावमहामत्तगजेन्द्रो भूरिलक्षणः ।
तत्र देहाद्यनारोपनिष्ठा दृढतरोऽङ्कुशः ॥१९॥
अद्वैतबोधदुर्गोऽयं यत्र शत्रुर्न कश्चन ।
जनतारामविस्तारो रमस्वात्र यथासुखम ॥२०॥
कल्पनासंपरित्यागो महाराज्यं समर्पये ।
भोक्तृत्वाध्यासराहित्यं वरं देहि सहस्रधा ॥२१॥
अखण्डा तव पूजेयं सदा भवतु सर्वदा ।
आत्मत्वात्तव मे सर्वपूजैवास्ति न चान्यथा ॥२२॥
इमां पूजां प्रतिदिनं यः पठेद्यत्रकुत्रचित ।
सद्यः शिवमयो भूत्वा मुक्तश्चरति भूतले ॥२३॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमत्कृष्णानन्दसरस्वतीविरचिता शिवमानसपूजा समाप्ता ॥