logo

|

Home >

Scripture >

scripture >

Marathi

Om symbolशिवमहिम स्तोत्रम - Shivamahima StotramOm symbol

Singer

Play Song

Source language

Translation language

Click on the songs to view the meaning


Shivamahima Stotram महेशानन्ताद्य त्रिगुणरहितामेयविमल स्वराकारापारामितगुणगणाकारिनिवृते । निराधाराधारामरवर निराकार परम प्रभापूराकारावर पर नमो वेद्य शिव ते ॥१॥ नमो वेदावेद्याखिलजगदुपादान नियतं स्वतन्त्रासामान्तानवधुतिनिजाकारविरते । निवर्तन्ते वाचः शिवभजनमप्राप्य मनसा यतोऽशक्ताः स्तोतुं सकृदपि गुणातीत शिव ते ॥२॥ त्वदन्यद्वस्त्वेकं नहि भव समस्तत्रिभुवने विभुस्त्वं विश्वात्मा न च परममस्तीश भवतः । ध्रुवं मायातीतस्त्वमसि सततं नात्र विषयो न ते कृत्यं सत्यं क्वचिदपि विपर्येति शिव ते ॥३॥ त्वयैवेमं लोकं निखिलममलं व्याप्य सततं तथैवान्यां लोकस्थितिमनघ देवोत्तम विभो । त्वयैवैतत्सृष्टं जगदखिलमीशान भगव- न्विलासोऽयं कश्चित्तव शिव नमो वेद्य शिव ते ॥४॥ जगत्सृष्टेः पूर्वं यदभवदुमाकान्त सततं त्वया लीलामात्रं तदपि सकलं रक्षितमभूत ॥ तदेवाग्रे भालप्रकटनयनाद्भुतकरा- ज्जगद्दग्ध्वा स्थास्यस्यज हर नमो वेद्य शिव ते ॥५॥ विभूतीनामन्तो भव न भवतो भूतिविलस- न्निजाकार श्रीमन्न गुणगणसीमाप्यवगता । अतद्व्यावृत्याऽद्धा त्वयि सकलवेदाश्च चकिता भवन्त्येवासामप्रकृतिक नमो धर्ष शिव ते ॥६॥ विराड्र्रूपं यत्ते सकलनिगमागोचरमभू- त्तदेवेदं रूपं भवति किमिदं भिन्नमथवा । न जाने देवेश त्रिनयन सुराराध्यचरण त्वमोङ्कारो वेदस्त्वमसि हि नमोऽघोर शिव ते ॥७॥ यदन्तस्तत्वज्ञा मुनिवरगणा रूपमनघं तवेदं सञ्चिन्त्य स्वमनसि सदासन्नविहताः । ययुर्दिव्यानन्दं तदिदमथवा किं तु न तथा किमेतज्जानेऽहं शरणद नमः शर्व शिव ते ॥८॥ तथा शक्त्या सृष्ट्वा जगदथ च संरक्ष्य बहुधा ततः संहॄत्यैतन्निवसति तदाधारमथवा । इदं ते किं रूपं निरुपम न जाने हर विभो विसर्गः को वा ते तमपि हि नमो भव्य शिव ते ॥९॥ तवानन्तान्याहुः शुचिपरमरूपाणि निगमा- स्तदन्तर्भूतं सत्सदसदनिरुक्तं पदमपि । निरुक्तं छन्दोभिर्निलयनमिदं वानिलयनं न विज्ञातं ज्ञातं सकृदपि नमो ज्येष्ठ शिव ते ॥१०॥ तवाभूत्सत्यं चानृतमपि च सत्यं कृतमभूदृतं सत्यं सत्यं तदपि च यथा रूपमखिलम । यतः सत्यं सत्यं शममपि समस्तं तव विभो कृतं सत्यं सत्यानृतमपि नमो रुद्र शिव ते ॥११॥ तवामेयं मेयं यदपि तदमेयं विरचितं न वामेयं मेयं रचितमपि मेयं विरचितुम । न मेयं मेयं ते न खलु परमेयं परमयं न मेयं न नामेयं वरमपि नमो देव शिव ते ॥१२॥ तवाहारं हारं विदितमविहारं विरहसं नवाहारं हारं हर हरसि हारं न हरसि । न वाहारं हारं परतरविहारं परतरं परं पारं जाने नहि खलु नमो विश्वशिव ते ॥१३॥ यदेतत्तत्त्वं ते सकलमपि तत्त्वेन विदितम न ते तत्त्वं तत्त्वं विदितमपि तत्त्वेन विदितम । न चैतत्तत्त्वं चेन्नियतमपि तत्त्वं किमु भवे न ते तत्त्वं तत्त्वं तदपि च नमो वेद्य शिव ते ॥१४॥ इदं रूपं रूपं सदसदमलं रूपमपि चे- न्न जाने रूपं ते तरतमविभिन्नं परतरम । यतो नान्यद्रूपं नियतमपि वेदैर्निगदितं न जाने सर्वात्मन क्वचिदपि नमोऽनन्त शिव ते ॥१५॥ ंअहद्भूतं भूतं यदपि न च भूतं तव विभो सदा भूतं भूतं किमु न भवतो भूतविषये । यदाभूतं भूतं भवति हि न भव्यं भगवतो भवाभूतं भाव्यं भवति न नमो ज्येष्ठ शिव ते ॥१६॥ वशीभूता भूता सततमपि भूतात्मकतया न ते भूता भूतास्तव यदपि भूता विभुतया । यतो भूता भूतास्तव तु न हि भूतात्मकतया न वा भूता भूताः क्वचिदपि नमो भूत शिव ते ॥१७॥ न ते मायामाया सततमपि मायामयतया ध्रुवं मायामाया त्वयि वर न मायामयमपि । यदा मायामाया त्वयि न खलु मायामयतया न मायामाया वा परमय नमस्ते शिव नमः ॥१८॥ यतन्तः संवेद्यं विदितमपि वेदैर्न विदितं न वेद्यं वेद्यं चेन्नियतमपि वेद्यं न विदितम । तदेवेदं वेद्यं विदितमपि वेदान्तनिकरैः करावेद्यं वेद्यं जितमिति नमोऽतर्क्य शिव ते ॥१९॥ शिवं सेव्यं भावं शिवमतिशिवाकारमशिवं न सत्यं शैवं तच्छिवमिति शिवं सेव्यमनिशम । शिवं शान्तं मत्वा शिवपरमतत्त्वं शिवमयं न जाने रूपत्वं शिवमिति नमो वेद्य शिव ते ॥२०॥ यदज्ञात्वा तत्त्वं सकलमपि संसारपतितं जगज्जन्मावृत्तिं दहति सततं दुःखनिलयम । यदेतज्ज्ञात्वैवावहति च निवृत्तिं परतरां न जाने तत्तत्त्वं परमिति नमो वेद्य शिव ते ॥२१॥ न वेदं यद्रूपं निगमविषयं मङ्गळकरं न दृष्टं केनापि ध्रुवमिति विजाने शिव विभो । ततश्चित्ते शंभो नहि मम विषादो‍ऽघविकॄत्तिः प्रयत्नल्लब्धेऽस्मिन्न किमपि नमः पूर्ण शिव ते ॥२२॥ तवाकर्ण्यागूढं यदपि परतत्त्वं श्रुतिपरं तदेवातीतं सन्नयनपदवीं नात्र तनुते । कदाचित्किञ्चिद्वा स्फुरति कतिधा चेतसि तव स्फुरद्रूपं भव्यं भवहर परावेद्य शिव ते ॥२३॥ त्वमिन्दुर्भानुस्त्वं हुतभुगसि वायुश्च सलिलं त्वमेवाकाशोऽसि क्षितिरसि तथाऽऽत्माऽसि भगवन । ततः सर्वाकारस्त्वमसि भवतो भिन्नमनघान्न तत्सत्यं सत्यं त्रिनयन नमोऽनन्त शिव ते ॥२४॥ विधुं धत्से नित्यं शिरसि मृदुकण्ठोऽपि गरळं नवं नागाहारं भसितममलं भासुरतनुम । करे शूलं भाले ज्वलनमनिशं तत्किमिति ते न तत्त्वं जानेऽहं भवहर नमः कुर्प शिव ते ॥२५॥ तवापाङ्गः शुद्धो यदि भवति भव्ये शुभकरः कदाचित्त्कस्मिंश्चिल्लधुतरनरे विप्रभवति । स एवैताल्लोकान रचयितुमलं सापि च महान- कृपाधारोऽयं सुकयति नमोऽनन्त शिव ते ॥२६॥ भवन्तं देवेशं शिवमितरगीर्वाणसदृशं प्रमादाद्यः कश्चिद्यदि यदपि चित्तेऽपि मनुते । स दुःखं लब्ध्वाऽन्ते नरकमपि याति ध्रुवमिदं ध्रुवं देवाराध्यामितगुण नमोऽनन्त शिव ते ॥२७॥ प्रदोषे रत्नाढ्ये मृदुलतरसिंहासनवरे भवानीमारूढामसकृदपि संवीक्ष्य भवता । कृतं सम्यङ्नाठ्यं प्रथितमिति वेदोऽपि भवति प्रभावः को वाऽयं तव हर नमो दीप शिव ते ॥२८॥ श्मशाने सञ्चारः किमु शिव न ते क्वापि गमनं यतो विश्वं व्याप्याखिलमपि सदा तिष्ठति भवान । विभुं नित्यं शुद्धं शिवमुपहतं व्यापकमिति श्रुतिः साक्षाद्वक्ति त्वयमपि नमः शुद्ध शिव ते ॥२९॥ धनुर्मेरुः शेषो धनुवरगुणो यानमवनि- स्तवैवेदं चक्रं निगमनिकरा वाजिनिकराः । पुरोलक्ष्यं यन्ता विधिरिपुहरिश्चेति निगमः किमेवं त्वन्वेष्यो निगदति नमः पूर्ण शिव ते ॥३०॥ मृदुः सत्त्वं त्वेतद्भवमनघयुक्तं च रजसा तमोयुक्तं शुद्धं हरमपि शिवं निष्कळमिति । वदत्येको वेदस्त्वमसि तदुपास्यं ध्रुवमिदं त्वमोङ्कराकारो ध्रुवमिति नमोऽनन्त शिव ते ॥३१॥ जगत्सुप्तिं बोधं व्रजति भवतो निर्गतमपि प्रवृत्तिं व्यापरं पुनरपि सुषुप्तिं च सकलम । त्वदन्यं त्वत्प्रेक्ष्यं व्रजति शरणं नेति निगमो वदत्यद्धा सर्वः शिव इति नमः स्तुत्य शिव ते ॥३२॥ त्वमेवालोकानामधिपतिरुमानाथ जगतां शरण्यः प्राप्यस्त्वं जलनिधिरिवानन्तपयसाम । त्वदन्यो निर्वाणं तट इति च निर्वाणयतिरप्यतः सर्वोत्कृष्टस्त्वमसि हि नमो नित्य शिव ते ॥३३॥ तवैवांशो भानुस्तपति विधुरप्येति पवनः पवत्येषोऽग्निश्च ज्वलति सलिलं च प्रवहति । तवाज्ञाकारित्वं सकलसुरवर्गस्य सततम त्वमेक: स्वातन्त्र्यं वहसि हि नमोऽनन्त शिव ते ॥३४॥ स्वतन्त्रोऽयं सोमः सकलभुवनैकप्रभुरयं नियन्ता देवानामपि हर नियन्तासि न परः । शिवः शुद्धा मायारहित इति वेदोऽपि वदति स्वयं तामाशास्य त्रयहर नमोऽनन्त शिव ते ॥३५॥ नमो रुद्रानन्तामरवर नमः शङ्कर विभो नमो गौरीनाथ त्रिनयन शरण्याङ्घ्रिकमल । नमः शर्वः श्रीमन्ननघ महदैश्वर्यनिलय स्मरारे पापारे जय जय नमः सेव्य शिव ते ॥ ३६॥ महादेवामेयानघगुणगणप्रामवसत- न्नमो भूयो भूयः पुनरपि नमस्ते पुनरपि । पुराराते शंभो पुनरपि नमस्ते शिव विभो नमो भूयो भूयः शिव शिव नमोऽनन्त शिव ते ॥३७॥ कदाचिद्गण्यन्ते निबिडनियतवृष्टिकणिकाः कदाचित्तत्क्षेत्राण्यपि सिकतलेशं कुशलिना । अनन्तैराकल्पं शिव गुणगणश्चारुरसनै- र्न शक्यं ते नूनं गणयितुमुषित्वाऽपि सततम ॥३८॥ मया विज्ञायैषाऽनिशमपि कृता जेतुमनसा सकामेनामेया सततमपराधा बहुविधाः । त्वयैते क्षन्तव्याः क्वचिदपि शरीरेण वचसा कृतैर्नैतैर्नूनं शिव शिव कृपासागर विभो ॥३९॥ प्रमादाद्ये केचिद्विततमपराधा विधिहताः कऋताः सर्वे तेऽपि प्रशममुपयान्तु स्फुटतरम । शिवः श्रीमच्छम्भो शिवशिव महेशेति च जपन क्वचिल्लिङ्गाकारे शिव हर वसामि स्थिरतरम ॥४०॥ इति स्तुत्वा शिवं विष्णुः प्रणम्य च मुहुर्मुहुः । निर्विण्णो न्यवसन्नूनं कृताञ्जलिपुटः स्थिरम ॥४१॥ तदा शिवः शिवं रूपमादायोवाच सर्वगः । भीषयन्नखिलान्भूतान घनगम्भीरया गिरा ॥४२॥ मदीयं रूपममलं कथं ज्ञेयं भवादृशैः । यत्तु वेदैरविज्ञातमित्युक्त्वाऽन्तर्दधे शिवः ॥४३॥ ततः पुनर्विधिस्तत्र तपस्तप्तुं समारभत । विष्णुश्च शिवतत्त्वस्य ज्ञानार्थमतियत्नतः ॥४४॥ तादृशी शिव मे वाच्छा पूजायित्वा वदाम्यहम । नान्यो मयाऽर्च्यो देवेषु विना शंभुं सनातनम ॥ ४५॥ त्वयापि शाङ्करं लिङ्गं पूजनीयं प्रयत्नतः । विहायैवान्यदेवानां पूजनं शेष सर्वदा ॥४६॥ इति श्रीस्कन्दपुराणे विष्णुविरचितं शिवमहिमस्तोत्रं संपूर्णम ॥

Related Content

অসিতকৃতং শিৱস্তোত্রম - Asitakrutam Shivastotram

Shiva Mahimna Stotra

asitakRutaM shivastotram (असितकृतं शिवस्तोत्रम्)

ದಾರಿದ್ರ್ಯ ದಹನ ಶಿವ ಸ್ತೋತ್ರಮ್

ಅಸಿತಕೃತಂ ಶಿವಸ್ತೋತ್ರಮ್ - Asitakrutam Shivastotram