महेशानन्ताद्य त्रिगुणरहितामेयविमल
स्वराकारापारामितगुणगणाकारिनिवृते ।
निराधाराधारामरवर निराकार परम
प्रभापूराकारावर पर नमो वेद्य शिव ते ॥१॥
नमो वेदावेद्याखिलजगदुपादान नियतं
स्वतन्त्रासामान्तानवधुतिनिजाकारविरते ।
निवर्तन्ते वाचः शिवभजनमप्राप्य मनसा
यतोऽशक्ताः स्तोतुं सकृदपि गुणातीत शिव ते ॥२॥
त्वदन्यद्वस्त्वेकं नहि भव समस्तत्रिभुवने
विभुस्त्वं विश्वात्मा न च परममस्तीश भवतः ।
ध्रुवं मायातीतस्त्वमसि सततं नात्र विषयो न ते
कृत्यं सत्यं क्वचिदपि विपर्येति शिव ते ॥३॥
त्वयैवेमं लोकं निखिलममलं व्याप्य सततं
तथैवान्यां लोकस्थितिमनघ देवोत्तम विभो ।
त्वयैवैतत्सृष्टं जगदखिलमीशान भगव-
न्विलासोऽयं कश्चित्तव शिव नमो वेद्य शिव ते ॥४॥
जगत्सृष्टेः पूर्वं यदभवदुमाकान्त सततं
त्वया लीलामात्रं तदपि सकलं रक्षितमभूत ॥
तदेवाग्रे भालप्रकटनयनाद्भुतकरा-
ज्जगद्दग्ध्वा स्थास्यस्यज हर नमो वेद्य शिव ते ॥५॥
विभूतीनामन्तो भव न भवतो भूतिविलस-
न्निजाकार श्रीमन्न गुणगणसीमाप्यवगता ।
अतद्व्यावृत्याऽद्धा त्वयि सकलवेदाश्च चकिता
भवन्त्येवासामप्रकृतिक नमो धर्ष शिव ते ॥६॥
विराड्र्रूपं यत्ते सकलनिगमागोचरमभू-
त्तदेवेदं रूपं भवति किमिदं भिन्नमथवा ।
न जाने देवेश त्रिनयन सुराराध्यचरण
त्वमोङ्कारो वेदस्त्वमसि हि नमोऽघोर शिव ते ॥७॥
यदन्तस्तत्वज्ञा मुनिवरगणा रूपमनघं
तवेदं सञ्चिन्त्य स्वमनसि सदासन्नविहताः ।
ययुर्दिव्यानन्दं तदिदमथवा किं तु न तथा
किमेतज्जानेऽहं शरणद नमः शर्व शिव ते ॥८॥
तथा शक्त्या सृष्ट्वा जगदथ च संरक्ष्य बहुधा
ततः संहॄत्यैतन्निवसति तदाधारमथवा ।
इदं ते किं रूपं निरुपम न जाने हर विभो
विसर्गः को वा ते तमपि हि नमो भव्य शिव ते ॥९॥
तवानन्तान्याहुः शुचिपरमरूपाणि निगमा-
स्तदन्तर्भूतं सत्सदसदनिरुक्तं पदमपि ।
निरुक्तं छन्दोभिर्निलयनमिदं वानिलयनं
न विज्ञातं ज्ञातं सकृदपि नमो ज्येष्ठ शिव ते ॥१०॥
तवाभूत्सत्यं चानृतमपि च सत्यं कृतमभूदृतं
सत्यं सत्यं तदपि च यथा रूपमखिलम ।
यतः सत्यं सत्यं शममपि समस्तं तव विभो
कृतं सत्यं सत्यानृतमपि नमो रुद्र शिव ते ॥११॥
तवामेयं मेयं यदपि तदमेयं विरचितं
न वामेयं मेयं रचितमपि मेयं विरचितुम ।
न मेयं मेयं ते न खलु परमेयं परमयं
न मेयं न नामेयं वरमपि नमो देव शिव ते ॥१२॥
तवाहारं हारं विदितमविहारं विरहसं
नवाहारं हारं हर हरसि हारं न हरसि ।
न वाहारं हारं परतरविहारं परतरं
परं पारं जाने नहि खलु नमो विश्वशिव ते ॥१३॥
यदेतत्तत्त्वं ते सकलमपि तत्त्वेन विदितम
न ते तत्त्वं तत्त्वं विदितमपि तत्त्वेन विदितम ।
न चैतत्तत्त्वं चेन्नियतमपि तत्त्वं किमु भवे
न ते तत्त्वं तत्त्वं तदपि च नमो वेद्य शिव ते ॥१४॥
इदं रूपं रूपं सदसदमलं रूपमपि चे-
न्न जाने रूपं ते तरतमविभिन्नं परतरम ।
यतो नान्यद्रूपं नियतमपि वेदैर्निगदितं
न जाने सर्वात्मन क्वचिदपि नमोऽनन्त शिव ते ॥१५॥
ंअहद्भूतं भूतं यदपि न च भूतं तव विभो
सदा भूतं भूतं किमु न भवतो भूतविषये ।
यदाभूतं भूतं भवति हि न भव्यं भगवतो
भवाभूतं भाव्यं भवति न नमो ज्येष्ठ शिव ते ॥१६॥
वशीभूता भूता सततमपि भूतात्मकतया
न ते भूता भूतास्तव यदपि भूता विभुतया ।
यतो भूता भूतास्तव तु न हि भूतात्मकतया
न वा भूता भूताः क्वचिदपि नमो भूत शिव ते ॥१७॥
न ते मायामाया सततमपि मायामयतया
ध्रुवं मायामाया त्वयि वर न मायामयमपि ।
यदा मायामाया त्वयि न खलु मायामयतया
न मायामाया वा परमय नमस्ते शिव नमः ॥१८॥
यतन्तः संवेद्यं विदितमपि वेदैर्न विदितं
न वेद्यं वेद्यं चेन्नियतमपि वेद्यं न विदितम ।
तदेवेदं वेद्यं विदितमपि वेदान्तनिकरैः
करावेद्यं वेद्यं जितमिति नमोऽतर्क्य शिव ते ॥१९॥
शिवं सेव्यं भावं शिवमतिशिवाकारमशिवं
न सत्यं शैवं तच्छिवमिति शिवं सेव्यमनिशम ।
शिवं शान्तं मत्वा शिवपरमतत्त्वं शिवमयं
न जाने रूपत्वं शिवमिति नमो वेद्य शिव ते ॥२०॥
यदज्ञात्वा तत्त्वं सकलमपि संसारपतितं
जगज्जन्मावृत्तिं दहति सततं दुःखनिलयम ।
यदेतज्ज्ञात्वैवावहति च निवृत्तिं परतरां
न जाने तत्तत्त्वं परमिति नमो वेद्य शिव ते ॥२१॥
न वेदं यद्रूपं निगमविषयं मङ्गळकरं
न दृष्टं केनापि ध्रुवमिति विजाने शिव विभो ।
ततश्चित्ते शंभो नहि मम विषादोऽघविकॄत्तिः
प्रयत्नल्लब्धेऽस्मिन्न किमपि नमः पूर्ण शिव ते ॥२२॥
तवाकर्ण्यागूढं यदपि परतत्त्वं श्रुतिपरं
तदेवातीतं सन्नयनपदवीं नात्र तनुते ।
कदाचित्किञ्चिद्वा स्फुरति कतिधा चेतसि तव
स्फुरद्रूपं भव्यं भवहर परावेद्य शिव ते ॥२३॥
त्वमिन्दुर्भानुस्त्वं हुतभुगसि वायुश्च सलिलं
त्वमेवाकाशोऽसि क्षितिरसि तथाऽऽत्माऽसि भगवन ।
ततः सर्वाकारस्त्वमसि भवतो भिन्नमनघान्न
तत्सत्यं सत्यं त्रिनयन नमोऽनन्त शिव ते ॥२४॥
विधुं धत्से नित्यं शिरसि मृदुकण्ठोऽपि गरळं
नवं नागाहारं भसितममलं भासुरतनुम ।
करे शूलं भाले ज्वलनमनिशं तत्किमिति ते
न तत्त्वं जानेऽहं भवहर नमः कुर्प शिव ते ॥२५॥
तवापाङ्गः शुद्धो यदि भवति भव्ये शुभकरः
कदाचित्त्कस्मिंश्चिल्लधुतरनरे विप्रभवति ।
स एवैताल्लोकान रचयितुमलं सापि च महान-
कृपाधारोऽयं सुकयति नमोऽनन्त शिव ते ॥२६॥
भवन्तं देवेशं शिवमितरगीर्वाणसदृशं
प्रमादाद्यः कश्चिद्यदि यदपि चित्तेऽपि मनुते ।
स दुःखं लब्ध्वाऽन्ते नरकमपि याति ध्रुवमिदं
ध्रुवं देवाराध्यामितगुण नमोऽनन्त शिव ते ॥२७॥
प्रदोषे रत्नाढ्ये मृदुलतरसिंहासनवरे
भवानीमारूढामसकृदपि संवीक्ष्य भवता ।
कृतं सम्यङ्नाठ्यं प्रथितमिति वेदोऽपि भवति
प्रभावः को वाऽयं तव हर नमो दीप शिव ते ॥२८॥
श्मशाने सञ्चारः किमु शिव न ते क्वापि गमनं
यतो विश्वं व्याप्याखिलमपि सदा तिष्ठति भवान ।
विभुं नित्यं शुद्धं शिवमुपहतं व्यापकमिति
श्रुतिः साक्षाद्वक्ति त्वयमपि नमः शुद्ध शिव ते ॥२९॥
धनुर्मेरुः शेषो धनुवरगुणो यानमवनि-
स्तवैवेदं चक्रं निगमनिकरा वाजिनिकराः ।
पुरोलक्ष्यं यन्ता विधिरिपुहरिश्चेति निगमः
किमेवं त्वन्वेष्यो निगदति नमः पूर्ण शिव ते ॥३०॥
मृदुः सत्त्वं त्वेतद्भवमनघयुक्तं च रजसा
तमोयुक्तं शुद्धं हरमपि शिवं निष्कळमिति ।
वदत्येको वेदस्त्वमसि तदुपास्यं ध्रुवमिदं
त्वमोङ्कराकारो ध्रुवमिति नमोऽनन्त शिव ते ॥३१॥
जगत्सुप्तिं बोधं व्रजति भवतो निर्गतमपि
प्रवृत्तिं व्यापरं पुनरपि सुषुप्तिं च सकलम ।
त्वदन्यं त्वत्प्रेक्ष्यं व्रजति शरणं नेति निगमो
वदत्यद्धा सर्वः शिव इति नमः स्तुत्य शिव ते ॥३२॥
त्वमेवालोकानामधिपतिरुमानाथ जगतां शरण्यः
प्राप्यस्त्वं जलनिधिरिवानन्तपयसाम ।
त्वदन्यो निर्वाणं तट इति च निर्वाणयतिरप्यतः
सर्वोत्कृष्टस्त्वमसि हि नमो नित्य शिव ते ॥३३॥
तवैवांशो भानुस्तपति विधुरप्येति पवनः
पवत्येषोऽग्निश्च ज्वलति सलिलं च प्रवहति ।
तवाज्ञाकारित्वं सकलसुरवर्गस्य सततम
त्वमेक: स्वातन्त्र्यं वहसि हि नमोऽनन्त शिव ते ॥३४॥
स्वतन्त्रोऽयं सोमः सकलभुवनैकप्रभुरयं
नियन्ता देवानामपि हर नियन्तासि न परः ।
शिवः शुद्धा मायारहित इति वेदोऽपि वदति
स्वयं तामाशास्य त्रयहर नमोऽनन्त शिव ते ॥३५॥
नमो रुद्रानन्तामरवर नमः शङ्कर विभो
नमो गौरीनाथ त्रिनयन शरण्याङ्घ्रिकमल ।
नमः शर्वः श्रीमन्ननघ महदैश्वर्यनिलय
स्मरारे पापारे जय जय नमः सेव्य शिव ते ॥ ३६॥
महादेवामेयानघगुणगणप्रामवसत-
न्नमो भूयो भूयः पुनरपि नमस्ते पुनरपि ।
पुराराते शंभो पुनरपि नमस्ते शिव विभो
नमो भूयो भूयः शिव शिव नमोऽनन्त शिव ते ॥३७॥
कदाचिद्गण्यन्ते निबिडनियतवृष्टिकणिकाः
कदाचित्तत्क्षेत्राण्यपि सिकतलेशं कुशलिना ।
अनन्तैराकल्पं शिव गुणगणश्चारुरसनै-
र्न शक्यं ते नूनं गणयितुमुषित्वाऽपि सततम ॥३८॥
मया विज्ञायैषाऽनिशमपि कृता जेतुमनसा
सकामेनामेया सततमपराधा बहुविधाः ।
त्वयैते क्षन्तव्याः क्वचिदपि शरीरेण वचसा
कृतैर्नैतैर्नूनं शिव शिव कृपासागर विभो ॥३९॥
प्रमादाद्ये केचिद्विततमपराधा विधिहताः
कऋताः सर्वे तेऽपि प्रशममुपयान्तु स्फुटतरम ।
शिवः श्रीमच्छम्भो शिवशिव महेशेति च जपन
क्वचिल्लिङ्गाकारे शिव हर वसामि स्थिरतरम ॥४०॥
इति स्तुत्वा शिवं विष्णुः प्रणम्य च मुहुर्मुहुः ।
निर्विण्णो न्यवसन्नूनं कृताञ्जलिपुटः स्थिरम ॥४१॥
तदा शिवः शिवं रूपमादायोवाच सर्वगः ।
भीषयन्नखिलान्भूतान घनगम्भीरया गिरा ॥४२॥
मदीयं रूपममलं कथं ज्ञेयं भवादृशैः ।
यत्तु वेदैरविज्ञातमित्युक्त्वाऽन्तर्दधे शिवः ॥४३॥
ततः पुनर्विधिस्तत्र तपस्तप्तुं समारभत ।
विष्णुश्च शिवतत्त्वस्य ज्ञानार्थमतियत्नतः ॥४४॥
तादृशी शिव मे वाच्छा पूजायित्वा वदाम्यहम ।
नान्यो मयाऽर्च्यो देवेषु विना शंभुं सनातनम ॥ ४५॥
त्वयापि शाङ्करं लिङ्गं पूजनीयं प्रयत्नतः ।
विहायैवान्यदेवानां पूजनं शेष सर्वदा ॥४६॥
इति श्रीस्कन्दपुराणे विष्णुविरचितं शिवमहिमस्तोत्रं संपूर्णम ॥