ऒं देवा ह वै स्वर्गलोकमायंस्ते रुद्रमपृच्छन को भवानिति ।
सोऽब्रवीदहमेकः प्रथममासीद्वर्तामि च
भविष्यामि च नान्यः कश्चिन्मत्तो व्यतिरिक्त इति ।
सोऽन्तरादन्तरं प्राविशद्दिशश्चान्तरं प्राविशत ।
सोऽहं नित्यानित्यो व्यक्ताव्यक्तो ब्रह्मा ब्रह्माहं प्राञ्चः
प्रत्यञ्चोऽहं दक्षिणाञ्च उदञ्चोऽहममधश्चोर्ध्वश्चाहं
दिशश्च प्रतिदिशश्चाहं पुमानपुमान स्त्रियश्चाहं
सावित्र्यहं गायत्र्यहं त्रिष्टुबूजगत्यनुष्टुप चाऽहं
छन्दोऽहं सत्योऽहं गार्हपत्यो दक्षिणाग्निराहवनीयोऽहं
गौरहं गौर्यहमृगहं यजुरहं सामाहमथर्वाङ्गिरसोऽहं
ज्येष्ठोऽहं श्रेष्ठोऽहं वरिष्ठोऽहमास्वरों नम इति ॥
य इदमथर्वशिरो ब्राह्मणोऽधीते ।
अश्रोत्रियः श्रोत्रियो भवति ।
अनुपनीत उपनीतो भवति ।
सोऽग्निपूतो भवति ।
स वायुपूतो भवति ।
स सूर्यपूतो भवति ।
स सोमपूतो भवति ।
स सत्यपूतो भवति ।
स सर्वैर्वेदैर्ज्ञातो भवति ।
सर्वैर्वेदैरनुध्यातो भवति ।
स सर्वेषु तीर्थेषु स्नातो भवति ।
तेन सर्वैः ऋतुभिरिष्टं भवति ।
गायत्र्याः षष्ठिसहस्राणि जप्तानि भवन्ति ।
प्रणवानामयुतं जप्तं भवति ।
स चक्षुषः पङ्क्तिं पुनाति ।
आसप्तमात पुरुषयुगान्पुनातीत्याह भगवानथर्वशिरः
सकृज्जप्त्वैव शुचिः स पूतः कर्मण्यो भवति ।
द्वितीयं जप्त्वा गणाधिपत्यमवाप्नोति ।
तृतीयं जप्त्वैवमेवानुप्रविशत्यों सत्यमों सत्यमों सत्यं ।
इत्यथर्ववेदे शिवाथार्वशीर्षं संपूर्णम ॥