logo

|

Home >

Scripture >

scripture >

Marathi

Om symbolशिवाथर्व शीर्षम - ShivaatharvasheershamOm symbol

Singer

Play Song

Source language

Translation language

Click on the songs to view the meaning


Shivaatharvasheersham ऒं देवा ह वै स्वर्गलोकमायंस्ते रुद्रमपृच्छन को भवानिति । सोऽब्रवीदहमेकः प्रथममासीद्वर्तामि च भविष्यामि च नान्यः कश्चिन्मत्तो व्यतिरिक्त इति । सोऽन्तरादन्तरं प्राविशद्दिशश्चान्तरं प्राविशत । सोऽहं नित्यानित्यो व्यक्ताव्यक्तो ब्रह्मा ब्रह्माहं प्राञ्चः प्रत्यञ्चोऽहं दक्षिणाञ्च उदञ्चोऽहममधश्चोर्ध्वश्चाहं दिशश्च प्रतिदिशश्चाहं पुमानपुमान स्त्रियश्चाहं सावित्र्यहं गायत्र्यहं त्रिष्टुबूजगत्यनुष्टुप चाऽहं छन्दोऽहं सत्योऽहं गार्हपत्यो दक्षिणाग्निराहवनीयोऽहं गौरहं गौर्यहमृगहं यजुरहं सामाहमथर्वाङ्गिरसोऽहं ज्येष्ठोऽहं श्रेष्ठोऽहं वरिष्ठोऽहमास्वरों नम इति ॥ य इदमथर्वशिरो ब्राह्मणोऽधीते । अश्रोत्रियः श्रोत्रियो भवति । अनुपनीत उपनीतो भवति । सोऽग्निपूतो भवति । स वायुपूतो भवति । स सूर्यपूतो भवति । स सोमपूतो भवति । स सत्यपूतो भवति । स सर्वैर्वेदैर्ज्ञातो भवति । सर्वैर्वेदैरनुध्यातो भवति । स सर्वेषु तीर्थेषु स्नातो भवति । तेन सर्वैः ऋतुभिरिष्टं भवति । गायत्र्याः षष्ठिसहस्राणि जप्तानि भवन्ति । प्रणवानामयुतं जप्तं भवति । स चक्षुषः पङ्क्तिं पुनाति । आसप्तमात पुरुषयुगान्पुनातीत्याह भगवानथर्वशिरः सकृज्जप्त्वैव शुचिः स पूतः कर्मण्यो भवति । द्वितीयं जप्त्वा गणाधिपत्यमवाप्नोति । तृतीयं जप्त्वैवमेवानुप्रविशत्यों सत्यमों सत्यमों सत्यं । इत्यथर्ववेदे शिवाथार्वशीर्षं संपूर्णम ॥

Related Content

শিৱাথর্ৱ শীর্ষম - Shivaatharvasheersham

શિવાથર્વ શીર્ષમ - Shivaatharvasheersham

ಶಿವಾಥರ್ವ ಶೀರ್ಷಮ್ Shivaatharvasheersham

ശിവാഥര്വ ശീര്ഷം - Shivaatharvasheersham

ਸ਼ਿਵਾਥਰ੍ਵ ਸ਼ੀਰ੍ਸ਼ਮ- Shivaatharvasheersham