शीर्षजटागणभारं गरळाहारं समस्तसंहारम ॥
कैलासाद्रिविहारं पारं भववारिधेरहं वन्दे ॥१॥
चन्द्रकलोज्ज्वलभालं कण्ठव्यालं जगत्त्रयीपालम ॥
कृतनरमस्तकमलं कालं कालस्य कोमलं वन्दे ॥२॥
कोपेक्षणहतकामं स्वात्मारामं नगेन्द्रजावामम ॥
संसृतिशोकविरामं श्यामं कण्ठेन कारणं वन्दे ॥३॥
कटितटविलसितनागं खण्डितयागं महाद्भुतत्यागम ॥
विगतविषयरसरागं भागं यज्ञेषु बिभ्रतं वन्दे ॥४॥
त्रिपुरादिकदनुजान्तं सदैव संशान्तम ॥
लीलाविजितकृतान्तं भान्तं स्वान्तेषु देहिनां वन्दे ॥५॥
सुरसरिदाप्लुतकेशं त्रिदशकुलेशं हृदालयावेशम ॥
विगताशेषक्लेशं देशं सर्वेष्टसम्पदां वन्दे ॥६॥
करतलकलितपिनाकं विगतजराकंसुकर्मणां पाकम ॥
परपदवीतवराकं नाकङ्गमपूगवन्दितं वन्दे ॥७॥
भूतिविभूषितकायं दुस्तरमायं विवर्जितापायम ॥
प्रथमसमूहसहायं सायं प्रातर्निरन्तरं वन्दे ॥८॥
यस्तु पदाष्टकमेतद्ब्रह्मानन्देन निर्मितं नित्यम ॥
पठति समाहितचेताः प्राप्नोत्यन्ते स शैवमेव पदम ॥९॥
इति ब्रह्मानन्दविरचितं श्रीशङ्कराष्टकं संपूर्णम ॥