logo

|

Home >

Scripture >

scripture >

Marathi

Om symbolसन्तति प्रदम अभिलाष अष्टक स्तोत्रम - Santhathi Pradama Abhilasha Ashtaka Stotram Om symbol

Singer

Play Song

Source language

Translation language

Click on the songs to view the meaning


Santhathi Pradama Abhilasha Ashtaka Stotram एकं ब्रह्मैवाद्वितीयं समस्तं सत्यं सत्यं नेह नानास्ति किञ्चित । एको रुद्रो न द्वितीयोऽवतस्थे तस्मादेकं त्वां प्रपद्ये महेशम ॥१॥ एकः कर्ता त्वं हि सर्वस्य शंभो नानारूपेषवेकरूपोऽप्यरूपः । यद्वत्प्रत्यक्पूर्ण एकोऽप्यनेकस्तस्मान्नान्यं त्वां विनेशं प्रपद्ये ॥२॥ रज्जौ सर्पः शुक्तिकायां च रौप्यं पयः पूरस्तन्मृगाख्ये मरीचौ । यद्वत्तद्वद्विषवगेव प्रपञ्चो यस्मिन ज्ञाते तं प्रपद्ये महेशम ॥३॥ तोये शैत्यं दाहकत्वं च वह्नौ तापो भानौ शीतभानौ प्रसादः । पुष्पे गन्धो दुग्धमध्ये च सर्पिर्यत्तच्छंभो त्वं ततस्त्वां प्रपद्ये ॥४॥ शब्दं गृह्णास्यश्रवास्त्वं हि जिघ्रेरघ्राणस्त्वं व्यङ्घ्रिरायासि दूरात । व्यक्षः पश्येस्त्वं रसज्ञोऽन्यजिह्वः कस्त्वां सम्यग्वेत्त्यतस्त्वां प्रपद्ये ॥५॥ नो वेदस्त्वामीश साक्षाद्विवेद नो वा विष्णुर्नो विधाताऽखिलस्य ॥ नो योगीन्द्रा नेन्द्रमुख्याश्च देवा भक्तो वेद त्वामतस्त्वां प्रपद्ये ॥६॥ नो ते गोत्रं नेश जन्मापि नाख्या नो त्वा रूपं नैव शीलं न देशः । इत्थंभूतोऽपीश्वरस्त्वं त्रिलोक्या सर्वान्कामान पूरयेस्तद्भजे त्वाम ॥७॥ त्वत्तः सर्वं त्वं हि सर्वं स्मरारे त्वं गौरीशस्त्वं च नग्नोऽतिशान्तः। त्वं वै शुद्धस्त्वं युवा त्वं च बालस्तत्वं यत्किं नास्त्यतस्त्वां नतोऽस्मि ।८॥ स्तुत्वेति विप्रो निपपात भूमौ स दण्डवद्यावदतीव हृष्टः । तावत्स तालोऽखिलवृद्धवृद्धः प्रोवाच भूदेव वरं वृणीहि ॥९॥ तत उत्थाय हृष्टात्मा मुनिर्विश्वानरः कृती । प्रत्यब्रवीत्किमज्ञातं सर्वज्ञस्य तव प्रभो ॥१०॥ सर्वान्तरात्मा भगवान सर्वः सर्वप्रदो भगवान । याच्ञां प्रति नियुङ्क्ते मां किमीशो दैन्यकारिणीम ॥११॥ इति श्रुत्वा वचस्तस्य देवो विश्वानरस्य ह । शुचेः शुचिव्रतस्याथ शुचि स्मित्वाऽब्रवीच्छिशुः ॥१२॥ बाल उवाच॥ त्वया शुचे शुचिष्मत्यां योऽभिलाषः कृतो हृदि । अचिरेणैव कालेन स भविष्यत्यसंशयम ॥१३॥ तव पुत्रत्वमेष्यामि शुचिष्मत्यां महामते । ख्यातो गृहपतिर्नाम्ना शुचिः सर्वामरप्रियः ॥१४॥ अभिलाषाष्टकं पुण्यं स्तोत्रमेतन्मयेरितम । अब्दं त्रिकालपठनात्कामदं शिवसन्निधौ ॥१५॥ एतत्स्तोत्रस्य पठनं पुत्रपौत्रधनप्रदम । सर्वशान्तिकरं वापि सर्वापत्त्यरिनाशनम ॥१६॥ स्वर्गापवर्गसंपत्तिकारकं नात्र संशयः । प्रातरुत्थाय सुस्नातो लिङ्गमभ्यर्च्य शांभवम ॥१७॥ वर्षं जपन्निदं स्तोत्रमपुत्रः पुत्रवान भवेत । वैशाखे कार्तिके माघे विशेषनियमैर्युतः ॥१८॥ यः पठेत स्नानसमये स लभेत्सकलं फलम । कार्तिकस्य तु मासस्य प्रसादादहमव्ययः ॥१९॥ तव पुत्रत्वमेशःयामि यास्त्वन्यस्तत्पठिष्यति । अभिलाषाष्टकमिदं न देयं यस्य कस्यचित ॥२०॥ गोपनीयं प्रयत्नेन महावन्ध्याप्रसूतिकृत । स्त्रिया वा पुरुषेणापि नियमाल्लिङ्गसन्निधौ ॥२१॥ अब्दं जप्तमिदं स्तोत्रं पुत्रदं नात्र संशयः । इत्युक्त्वान्तर्दधे बालः सोऽपि विप्रो गृहं ययौ ॥२२॥ इति श्रीस्कन्दपुराणे काशीखण्डे सन्ततिप्रदमभिलाषाष्टकस्तोत्रं संपूर्णम ॥

Related Content

अभयङ्करं शिवरक्षास्तोत्रम - Abhayankaram Shivarakshaastotra

निर्वाण दसकं - Nirvana Dasakam

प्रदोष स्तोत्राष्टकम - Pradhosha Stotrashtakam

शिव नामावलि अष्टकम - Shiva Naamavali Ashtakam

जन्म सागरोत्तारण स्तोत्रम- Janma Saagarottaarana Stotram