logo

|

Home >

Scripture >

scripture >

Marathi

Om symbolसाम्ब दशकम- SaambadashakamOm symbol

Singer

Play Song

Source language

Translation language

Click on the songs to view the meaning


Samba Dashakam साम्बो नः कुलदैवतं पशुपते साम्ब त्वदीया वयं साम्बं स्तौमि सुरासुरोरगगणाः साम्बेन सन्तारिताः । साम्बायास्तु नमो मया विरचितं साम्बात परं नो भजे साम्बस्यानुचरोऽस्म्यहं मम रतिः साम्बे परब्रह्मणि ॥१॥ विष्ण्वाद्याश्च पुरञ्जयं सुरगणा जेतुं न शक्ता स्वयं यं शम्भुं भगवन वयं तु पशवोऽस्माकं त्वमेवेश्वरः । स्वस्वस्थाननियोजिताः सुमनसः स्वस्था बभूवुस्तत- स्तस्मिन्मे हृदयं सुखेन रमतां साम्बे परब्रह्मणि ॥२॥ क्षोणी यस्य रतो रथाङ्गयुगळं चन्द्रार्कबिम्बद्वयं कोदण्डः कनकाचलो हरिरभूद्बाणो विधिः सारथिः । तूणीरोजलधिर्हयाः श्रुतिचयो मौर्वी भुजङ्गाधिप- स्तस्मिन्मे हृदयं सुखेन रमतां साम्बे परब्रह्मणि ॥३॥ येनापादितमङ्गजाङ्गभसितं दिव्याङ्गरागैः समं येन स्वीकृतमब्जसंभवशिरः सौवर्णपात्रैः समम । येनाङ्गीकृतमच्युतस्य नयनं पूजारविन्दैः समं तस्मिन्मे हृदयं सुखेन रमतां साम्बे परब्रह्मणि ॥४॥ गोविन्दादधिकं न दैवतमिति प्रोच्चार्य हस्तावुभा- वुद्धत्याथ शिवस्य संनिधिगतो व्यासो मुनीनां वरः । यस्य स्तम्भितपाणिरानतिकृता नन्दीश्वरेणाभव- त्तस्मिन्मे हृदयं सुखेन रमतां साम्बे परब्रह्मणि ॥५॥ आकाशश्चिकुरायते दशदिशाभोगो दुकूलायते शीतंशुः प्रसवायते स्थिरतरानन्दः स्वरूपायते । वेदान्तो निलयायते सुविनयो यस्य स्वभावायते तस्मिन्मे हृदयं सुखेन रमतां साम्बे परब्रह्मणि ॥ ॥६॥ विष्णुर्यस्य सहस्रनामनियमादम्भोरुहाण्यर्चयन- नेकोनोपचितेपु नेत्रकमलं नैजं पदाब्जद्वये । संपूज्यासुरसंहतिं विदलयंस्त्रैलोक्यपालोऽभव- त्तस्मिन्मे हृदयं सुखेन रमतां साम्बे परब्रह्मणि ॥७॥ सौरिं सत्यगिरं वराहवपुषं पादाम्बुजादर्शने चक्रं यो दयया सम्स्तजगतां नाथं शिरोदर्शने । मिथ्यावाचमपूज्यमेव सततं हंसस्वरूपं विधिम तस्मिन्मे हृदयं सुखेन रमतां साम्बे परब्रह्मणि ॥८॥ यस्यासन धरणीजलाग्निपवनव्योमार्कचन्द्रादयो विख्यातास्तनवोऽष्टधा परिणता नान्यत्ततो वर्तते । ओङ्कारार्थविवेचनी श्रुतिरियं चाचष्ट तुर्यं शिवं तस्मिन्मे हृदयं सुखेन रमतां साम्बे परब्रह्मणि ॥९॥ विष्णुब्रह्मसुराधिपप्रभृतयः सर्वेऽपि देवा यदा संभूताज्जलधेर्विषात्परिभवं प्राप्तास्तदा सत्वरम । तानार्ताच्छरणागतानिति सुरान योऽरक्षदर्धक्षणा- त्तस्मिन्मे हृदयं सुखेन रमतां साम्बे परब्रह्मणि ॥१०॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कऋतौ साम्बदशकं संपूर्णम ॥

Related Content

সাম্ব দশকম- Saambadashakam

સામ્બ દશકમ - Saambadashakam

സാംബ ദശകം- Saambadashakam

साम्ब दशकम् - Saambadashakam

ஸாம்ப தசகம்- Saambadashakam