(शन्कर बगवत्पाद)
(Shankara BagavatpAda)
nirvANamanjchari (shankara bagavatpAda) .. निर्वाणमञ्चरि .. (शन्कर बगवत्पाद) अहं नामरो नैव मर्त्यो न दैत्यो न गन्धर्वयक्शः पिशाचप्रभेदः . पुमान्नैव न स्त्री तथा नैव श्हण्डः प्रकृश्ह्टः प्रकाशस्वरूपः शिवो.अहम.ह .. १.. अहं नैव बालो युवा नैव वृद्धो न वर्णी न च ब्रह्मचारी गृहस्थः . वनस्थो.अपि नाहं न संन्यस्तधर्मा जगज्जन्मनाशैकहेतुः शिवो.अहम.ह .. ३.. अहं नैव मेयस्तिरोभूतमाया तथैवेक्शितुं मां पृथङ्नास्त्युपायः . समाश्लिश्ह्टकायत्रयो.अप्यद्वितीयः सदातीन्द्रियः सर्वरूपः शिवो.अहम.ह .. ३.. अहं नैव मन्ता न गन्ता न वक्ता न कर्ता न भोक्ता न मुक्ताश्रमस्थः . यथाहं मनोवृत्तिभेदस्वरूप\- स्तथा सर्ववृत्तिप्रदीपः शिवो.अहम.ह .. ४.. न मे लोकयात्राप्रवाहप्रवृत्ति\- र्न मे बन्धबुद्ध्या दुरीहानिवृत्तिः . प्रवृत्तिर्निवृत्त्यास्य चित्तस्य वृत्ति\- र्यतस्तन्वहं तत्स्वरूपः शिवो.अहम.ह .. ५.. निदानं यदज्ञानकार्यस्य कार्यं विना यस्य सत्त्वं स्वतो नैव भाति . यदाद्यन्तमध्यान्तरालान्तराल\- प्रकाशात्मकं स्यात्तदेवाहमस्मि .. ६.. यतो.अहं न बुद्धिर्न मे कार्यसिद्धि\- र्यतो नाहमङ्गं न मे लिङ्गभङ्गम.ह . हृदाकाशवर्ती गताङ्गत्रयार्तिः सदा सच्चिदानन्दमूर्तिः शिवो.अहम.ह .. ७.. यदासीद्विलासाद्विकारं जगद्य\- द्विकराश्रयं नाद्वितीयत्वतः स्यात.ह . मनोबुद्धिचित्ताहमाकारवृत्ति\- प्रवृत्तिर्यतः स्यात्तदेवाहमस्मि .. ८.. यदन्तर्बहिर्व्यापकं नित्यशुद्धं यदेकं सदा सच्चिदानन्दकन्दम.ह . यतः स्थूलसूक्श्मप्रपञ्चस्य भानं यतस्तत्प्रसूतिस्तदेवाहमस्मि .. ९.. यदर्केन्दुविद्युत्प्रभाजालमाला\- विलासास्पदं यत्स्वभेदादिशून्यम.ह . समस्तं जगद्यस्य पादात्मकं स्या\- द्यतः शक्तिभानं तदेवाहमस्मि .. १०.. यतः कालमृत्युर्बिभेति प्रकामं यतश्चित्तबुद्धीन्द्रियाणां विलासः . हरिब्रह्मरुद्रेन्द्रचन्द्रादिनाम\- प्रकाशो यतः स्यात्तदेवाहमस्मि .. ११.. यदाकाशवत्सर्वगं शान्तरूपं परं ज्योतिराकारशून्यं वरेण्यम.ह . यदाद्यन्तशून्यं परं शङ्कराख्यं यदन्तर्विभाव्यं तदेवाहमस्मि .. १२.. इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिश्ह्यस्य श्रीमच्च्हङ्करभगवत्पाद कृतौ निर्वाणमञ्जरी संपूर्णा ..