logo

|

Home >

Scripture >

scripture >

Marathi

Om symbolमहादेवाष्टकम - Mahadeva AshtakamOm symbol

Singer

Play Song

Source language

Translation language

Click on the songs to view the meaning


Mahadeva Ashtakam शिवं शान्तं शुद्धं प्रकटमकळङ्कं श्रुतिनुतं महेशानं शंभुं सकलसुरसंसेव्यचरणम । गिरीशं गौरीशं भवभयहरं निष्कळमजं महादेवं वन्दे प्रणतजनतापोपशमनम ॥१॥ सदा सेव्यं भक्तैर्हृदि वसन्तं गिरिशय- मुमाकान्तं क्षान्तं करघृतपिनाकं भ्रमहरम । त्रिनेत्रं पञ्चास्यं दशभुजमनन्तं शशिधरं महादेवं वन्दे प्रणतजनतापोपशमनम ॥२॥ चिताभस्मालिप्तं भुजगमुकुटं विश्वसुखदं धनाध्यक्षस्याङ्गं त्रिपुरवधकर्तारमनघम । करोटीखट्वाङ्गे ह्युरसि च दधानं मृतिहरं महादेवं वन्दे प्रणतजनतापोपशमनम ॥३॥ सदोत्साहं गङ्गाधरमचलमानन्दकरणं पुरारातिं भातं रतिपतिहरं दीप्तवदनम । जटाजूटैर्जुष्टं रसमुखगणेशानपितरं महादेवं वन्दे प्रणतजनतापोपशमनम ॥४॥ वसन्तं कैलासे सुरमुनिसभायां हि नितरां ब्रुवाणं सद्धर्मं निखिलमनुजानन्दजनकम । महेशानी साक्षात्सनकमुनिदेवर्षिसहिता महादेवं वन्दे प्रणतजनतापोपशमनम ॥५॥ शिवां स्वे वामाङ्गे गुहगणपतिं दक्षिणभुजे गले कालं व्यालं जलधिगरळं कण्ठविवरे । ललाटे श्वेतेन्दुं जगदपि दधानं च जठरे महादेवं वन्दे प्रणतजनतापोपशमनम ॥६॥ सुराणां दैत्यानां बहुलमनुजानां बहुविधं तपःकुर्वाणानां झटिति फलदातारमखिलम । सुरेशं विद्येशं जलनिधिसुताकान्तहृदयं महादेवं वन्दे प्रणतजनतापोपशमनम ॥७॥ वसानं वैयाघ्रीं मृदुलललितां कृत्तिमजरां वृषारूढं सृष्ट्यादिषु कमलजाद्यात्मवपुषम । अतर्क्यं निर्मायं तदपि फलदं भक्तसुखदं महादेवं वन्दे प्रणतजनतापोपशमनम ॥८॥ इदं स्तोत्रं शंभोर्दुरितदलनं धान्यधनदं हृदि ध्यात्वा शंभुं तदनु रघुनाथेन रचितम । नरः सायंप्रातः पठति नियतं तस्य विपदः क्षयं यान्ति स्वर्गं व्रजति सहसा सोऽपि मुदितः ॥९॥ इति पण्डितरघुनाथशर्मणा विरचितं श्रीमहादेवाष्टकं समाप्तम ॥

Related Content

সদাশিৱাষ্টকম - Sadashivashtakam

Sadashiva Ashtakam

shivaaShTakam

સદાશિવાષ્ટકમ - Sadashivashtakam

સદાશિવાષ્ટકમ - Sadashivashtakam