यः षड्वक्त्रगजाननाद्भुतसुताविष्कारणव्यजिता-
चिन्त्यॊत्पादनवैभवां गिरिसुतां मायां निजाङ्गॆ दधत ।
सॆव्यां संसृतिहानयॆ त्रिपथगां विद्यां च मूर्ध्ना वहन
स्वं ब्रह्मत्वमभिव्यनक्ति भजतः पायात स गङ्गाधरः ॥१॥
यस्यालॊच्य कपर्ददुर्गविलुठद्गङ्गांबुशौक्ल्याच्छता-
माधुर्याणि पराजयॊदितशुचा क्षीणः कलामात्रताम ।
बिभ्रत पित्सति नूनमुत्कटजटाजूटॊच्चकूटाच्छशी
लालाटाक्षिशिखासु सॊऽस्तु भजतां भव्याय गङ्गाधरः ॥२॥
यल्लालाटकृपीटयॊनिसततासङ्गाद्विलीनः शशी
गङ्गारूपमुपॆत्य तत्प्रशमनाशक्तः कृशाङ्गः शुचा ।
उद्बध्नाति तनुं त्रपापरवशॊ मन्यॆ जटादामभिः
पायात स्तव्यविभाव्यनव्यचरितॊ भक्तान स गङ्गाधरः ॥३॥
अङ्कारूढधराधराधिपसुतासौन्दर्यसन्तर्जिता
गङ्गा यस्य कपर्ददुर्गमवनॆ लीना विलीना ह्रिया ।
चिन्तापाण्डुतनुः स्खलन्त्यविरतं पार्वत्यसूयास्मितै-
रन्तर्धि बहु मन्यतॆऽस्तु भजतां भूत्यै स गङ्गाधरः ॥४॥
मुग्धां स्न्रिग्ध इव प्रतार्य गिरिजामर्धाङ्गदानच्छला-
न्नित्यॊद्यद्वहुलभ्रमां त्रिपथगामात्मॊत्तमाङ्गॆ वहन ।
स्थानॆ यॊ विषमॆक्षणत्वपदवीमारॊप्यतॆ कॊविदैः
प्रच्छन्नप्रणयक्रमॊऽस्तु भजतां प्रीत्यै स गङ्गाधरः ॥५॥
सॆवासज्जसुरार्षिपरिषद्व्याकीर्णपुष्पाञ्जलिप्रश्च-
यॊतन्मकरन्दबिन्दुसततासारः पतन्मस्तकॆ ।
यस्याविश्रमसंभृतस्त्रिपथगानाम्ना जनैः ख्याप्यतॆ
स त्रैलॊक्यनिषॆविताङ्घ्रियुगळः पुष्णातु गङ्गाधरः ॥६॥
यस्मिन्नुद्धतताण्डवैकरसतासाटॊपनाठ्यक्रमॆ
विस्रस्तासु जटासु भासुर तनुर्धाराशतैः पातुका ।
गङ्गाजङ्गमवारिपर्वतधियं चित्तॆ विधत्तॆ सता-
मॆतं चित्रविभूतिरस्तु भजतां भव्याय गङ्गाधरः ॥७॥
यॊ गङ्गापयसि प्रभॊ तव महानत्यादरः कल्पतॆ
संमूर्च्छद्विषयापनाय विधयॆ क्रुध्यस्यसत्यॊक्तयॆ ।
ईशानस्तवसागरान्तगमनॆ वाण्यः पुराण्यॊऽक्षमाः
सङ्क्षिप्यॆत्थमभिष्टुतः ससितगुः प्रीतॊऽस्तु गङ्गाधरः ॥८॥
इतीशानस्तवः संपूर्णः ॥