logo

|

Home >

Scripture >

scripture >

Marathi

Om symbolहरिहर स्तोत्रम- Harihara StotramOm symbol

Singer

Play Song

Source language

Translation language

Click on the songs to view the meaning


Harihara Stotram धर्मार्थकाममोक्षाख्यचतुर्वर्गप्रदायिनौ । वन्दे हरिहरौ देवौ त्रैलोक्यपरिपायिनौ ॥१॥ एकमूर्ती द्विधा भिन्नौ संसारार्णवतारकौ । वन्देऽहं कामदौ देवौ सततं शिवकेशवौ ॥२॥ दयामयौ दीनदरिद्रतापहौ महौजसौ मान्यतमौ सदा समौ । उदारलीलाललितौ सितासितौ नमामि नित्यं शिवकेशवावहम ॥३॥ अनन्तमाहात्म्यनिधी विधिस्तुतौ श्रिया युतौ लोकविधानकारिणौ । सुरासुराधीशनुतौ नुतौ जगत्पती विधत्तां शिवकेशवौ शिवम ॥४॥ जगत्रयीपालननाशकारकौ प्रसन्नहासौ विलसत्सदाननौ । महाबलौ मञ्जुळमूर्तिधारिणौ शिवं विधत्तां शिवकेशवौ सदा ॥५॥ महस्विनौ मोदकरौ परौ वरौ मुनीश्वरैः सेवितपादपङ्कजौ । अजौ सुजातौ जगदीश्वरौ सदा शिवं विधत्तां शिवकेशवौ मम ॥६॥ नमो‍ऽस्तु नित्यं शिवकेशवाभ्यां स्वभक्तसंरक्षणतत्पराभ्याम । देवेश्वराभ्यां करुणाकराभ्यां लोकत्रयीनिर्मितिकारणाभ्याम ॥७॥ सलीलशीलौ महनीयमूर्ती दयाकरौ मञ्जुळसच्चरित्रौ । महोदयौ विश्वविनोदहेतू नमामि देवौ शिवकेशवौ तौ ॥८॥ त्रिशूलपाणिं वरचक्रपाणिं पीताम्बरं स्पष्टदिगम्बरं च । चतुर्भुजं वा दशबाहुयुक्तं हरिं हरं वा प्रणमामि नित्यम ॥९॥ कपालमालाललितं शिवं च सद्वैजयन्तीस्रगुदारशोभम । विष्णुं च नित्यं प्रणिपत्य याचे भवत्पदाम्भोरुहयोः स्मृतिः स्तात ॥१०॥ शिव त्वमेवाऽसि हरिस्वरूपो हरे त्वमेवाऽसि शिवस्वरूपः । भ्रान्त्या जनास्त्वां द्विविधस्वरूपं पश्यन्ति मूढा ननु नाशहेतोः ॥११॥ हरे जना ये शिवरूपिणं त्वां त्वद्रूपमीशं कलयन्ति नित्यम । ते भाग्यवन्तः पुरुषाः कदाऽपि न यान्ति भास्वत्तनयस्य गेहम ॥१२॥ शम्भो जना ये हरिरूपिणं त्वां भवत्स्वरूपं कमलालयेशम । पश्यन्ति भक्त्या खलु ते महान्तौ यमस्य नो यान्ति पुरं कदाचित ॥१३॥ शिवे हरौ भेदधियाऽऽधियुक्ता मुक्तिं लभन्ते न जना दुरापाम । भुक्तिं च नैवेह परन्तु दुःखं संसारकूपे पतिताः प्रयान्ति ॥ हरे हरौ भेददृशो भुशम वै सम्सारसिन्धौ पतिताः सतापाः । पापाशया मोहमयान्धकारे भ्रान्ता महादुःखभरं लभन्ते ॥१५॥ सन्तो लसन्तः सुतरां हरौ च हरे च नित्यं बहुभक्तिमन्तः । अन्तर्महान्तौ शिवकेशवौ तौ ध्यायन्त उच्चैर्मुदमाप्नुवन्ति ॥१६॥ हरौ हरे चैक्यमुदारशीलाः पश्यन्ति शश्वत्सुखदायिलीलाः । ते भुक्तिमुक्ती समवाप्य नूनं सुखं दुरापं सुतरां लभन्ते ॥१७॥ शिवे शिवेशेऽपि च केशवे च पद्मापतौ देववरे महान्तः । भेदं न पश्यन्ति परन्तु सन्तस्तयोरभेदं कलयन्ति सत्यम ॥१८॥ रमापतिं वा गिरिजापतिं वा विश्वेश्वरं वा जगदीश्वरं वा । पिनाकपाणिं खलु शार्ङ्गपाणिं हरि हरं वा प्रणमामि नित्यम ॥१९॥ सुरेश्वरं वा परमेश्वरं वा वैकुण्ठलोकस्थितमच्युतं वा । कैलासशैलस्थितमीश्वरं वा विष्णुं च शंभुं च नमामि नित्यम ॥२०॥ हरिर्दयार्द्राशयतां प्रयातो हरो दयालूत्तमभावमाप्तः । अनेकदिव्यास्त्रधरः परेशः पायादजस्रं कृपया नतं माम ॥ २१॥ शेषोऽस्ति यस्याऽऽभरणत्वमाप्तो यद्दा सुशय्यात्वमितः सदैव । देवः स कोऽपीह हरिर्हरो वा करोतु मे मञ्जुळमङ्गळं द्राक ॥२२॥ हरिं हरं चापि भजन्ति भक्त्या विभेदबुद्धिं प्रविहाय नूनम । सिद्धा महान्तो मुनयो महेच्छाः स्वच्छाशया नारदपर्वताद्याः ॥२३॥ सनत्कुमारादय उन्नतेच्छा मोहेन हीना मुनयो महान्तः । स्वान्तः स्थितं शङ्करमच्युतं च भेदं परित्यज्य सदा भजन्ते ॥२४॥ शिष्टा वसिष्ठादय आत्मनिष्ठाः श्रेष्ठाः स्वधर्मावनकर्मचित्ताः । हृत्तापहारं मलहीनचित्ता हरि हरं चैकतया भजन्ते ॥२५॥ अन्ये महात्मान उदारशीला भृग्वादयो ये परमर्षयस्ते । पश्यन्ति चैक्यं हरिशर्वयोः श्रीसंयुक्तयोरत्र न संशयोऽस्ति ॥२६॥ इन्द्रादयो देववरा उदारा त्रैलोक्यसंरक्षणदत्तचित्ताः । हरिं हरं चैकस्वरूपमेव पश्यन्ति भक्त्या च भजन्ति नूनम ॥२७॥ सर्वेषु वेदेषु खलु प्रसिद्धवैकुण्ठकैलासगयोः सुधाम्नोः । मुकुन्दबालेन्दुवतंसयोः सच्चरित्रयोरीश्वरयोरभेदः ॥२८॥ सर्वाणि शस्त्राणि वदन्ति नूनं हरेर्हरस्यैक्यमुदारमूर्तेः । नास्त्यत्र सन्देहलवोऽपि सत्यं नित्यं जना धर्मधना गदन्ति ॥२९॥ सर्वैः पुराणैरिदमेव सूक्तं यद्विष्णुशंभ्वोर्महनीयमूर्त्योः । ऐक्यं सदैवाऽस्ति न भेदलेशोऽप्यस्तीह चिन्त्यं सुजनैस्तदेवम ।३०॥ भेदं प्रपश्यन्ति नराधमा ये विष्णौ च शंभौ च दयानिधाने । ते यान्ति पापाः परितापयुक्ता घोरं विशालं निरयस्य वासम ॥३१॥ भूताधिपं वा विबुधाधिपं वा रमेश्वरं वा परमेश्वरं वा । पीताम्बरं वा हरिदम्बरं वा हरिं हरं वा पुरुषा भजध्वम ॥३२॥ महस्विवर्यं कमनीयदेहमुदारसारं सुखदायिचेष्टम । सर्वेष्टदेवं दुरितापहारं विष्णुं शिवं वा सततं भजध्वम ॥३३॥ शिवस्य विष्णोश्च विभात्यभेदो व्यासादयोऽपीह महर्षयस्ते । सर्वज्ञभावं दधतो नितान्तं वदन्ति वदन्ति चैवं कलयन्ति सन्तः ॥३४॥ महाशया धर्मविधानदक्षा रक्षापरा निर्जितमानसा ये । तेऽपीह विज्ञाः समदर्शिनो वै शिवस्य विष्णोः कलयन्त्यभेदम॥३५॥ हरिरेव हरो हर एव हरिर्नहि भेदलबोऽपि तयोः प्रथितः । इति सिद्धमुनीशयतीशवरा निगदन्ति सदा विमदाः सुजनाः ॥३६॥ हर एव हरिर्हरिरेव हरो हरिणा च हरेण च विश्वमिदम । प्रविनिर्मितमेतदवेहि सदा विमदो भव तौ भज भावयुतः ॥३७॥ हरिरेव बभूव हरः परमो हर एव बभूव हरिः परमः । हरिता हरता च तथा मिलिता रचयत्यखिलं खलु विश्वमिदम ॥३८॥ वृषध्वजं वा गरुढध्वजं वा गिरीश्वरं वा भुवनेश्वरं वा । पतिं पशूनामथवा यदूनां कृष्णं शिवं वा विबुधा भजन्ते ॥३९॥ भीमाकृतिं वा रुचिराकृतिं वा त्रिलोचनं वा समलोचनं वा । उमापतिं वाऽथ रमापतिं वा हरिं हरं वा मुनयो भजन्ते ॥४०॥ हरिः स्वयं वै हरतां प्रयातो हरस्तु साक्षाद्धरिभावमाप्तः । हरिर्हरश्चापि जगज्जनानामुपास्यदेवौ स्त इति प्रसिद्धिः ॥४१॥ हरिर्हि साक्षात हर एव सिद्धो हरो हि साक्षाद्धरिरेव चास्ते । हरिर्हरश्च स्वयमेव चैको द्विरूपतां कार्यवशात प्रबातः ॥४२॥ हरिर्जगत्पालनकृत्प्रसिद्धो हरो जगन्नाशकरः परात्मा । स्वरूपमात्रेण भिदामवाप्तौ द्वावेकरूपौ स्त इमौ सुरेशौ ॥४३॥ दयानिधानं विलसद्विधानं देवप्रधानं ननु सावधानम । सानन्दसन्मानसभासमानं देवं शिवं वा भज केशवं वा ॥४४॥ श्रीकौस्तुभाभरणमिन्दुकलावतंसं काळीविलासिनमथो कमलाविलासम । देवं मुरारिमथ वा त्रिपुरारिमीशं भेदं विहाय भज भो भज भूरिभक्त्या ॥४५॥ विष्णुः साक्षाच्छंभुरेव प्रसिद्धः शंभुः साक्षाद्विष्णुरेवास्ति नूनम । नास्ति स्वल्पोऽपीह भेदावकाशः सिद्धान्तोऽयं सज्जनानां समुक्तः ॥४६॥ शंभुर्विष्णुश्चैकरूपो द्विमूर्तिः सत्यं सत्यं गद्यते निश्चितं सत । अस्मिन्मिथ्या संशयं कुर्वते ये पापाचारास्ते नरा राक्षसाख्याः ॥४७॥ विष्णौ शंभौ नास्ति भेदावभासः सङ्ख्यावन्तः सन्त एवं वदन्ति । अन्तः किञ्चित्संविचिन्त्य स्वयं द्राक भेदं त्यक्त्वा तौ भजस्व प्रकामम ॥४८॥ विष्णोर्भक्ताः शंभुविद्वेषसक्ताः शंभोर्भक्ता विष्णुविद्वेषिणो ये । कामक्रोधान्धाः सुमन्दाः सनिन्दा विन्दन्ति द्राक ते नरा दुःखजालम ॥४९॥ विष्णौ शंभौ भेदबुद्धिं विहाय भक्त्या युक्ताः सज्जना ये भजन्ते । तेषां भाग्यं वक्तुमीशो गुरुर्नो सत्यं सत्यं वच्म्यहं विद्धि तत्त्वम ॥५०॥ हरेर्विरोधी च हरस्य भक्तो हरस्य वैरी च हरेश्च भक्तः । साक्षादसौ राक्षस एव नूनं नास्त्यत्र सन्देहलवोऽपि सत्यम ॥५१॥ शिवं च विष्णुं च विभिन्नदेहं पशयन्ति ये मूढधियोऽतिनीचाः । ते किं सुसद्भिः सुतरां महद्भिः संभाषणीयाः पुरुषा भवन्ति ॥५२॥ अनेकरूपं विदितैकरूपं महान्तमुच्चैरतिशान्तचित्तम । दान्तं नितान्तं शुभदं सुकान्तं विष्णुं शिवं वा भज भूरिभक्त्या ॥५३॥ हरे मुरारे हर हे पुरारे विष्णो दयाळो शिव हे कृपालो । दीनं जनं सर्वगुणैर्विहीनं मां भक्तमार्तं परिपाहि नित्यम ॥५४॥ हे हे विष्णो शंभुरूपस्त्वमेव हे हे शम्भो विष्णुरूपस्त्वमेव । सत्यं सर्वे सन्त एवं वदन्तः संसारब्धिं ह्यञ्जसा सन्तरन्ति ॥५५॥ विष्णुः शंभुः शंभुरेवास्ति विष्णुः शंभुर्विष्णुर्विष्णुरेवास्ति शंभुः । शंभौ विष्णौ चैकरूपत्वमिष्टं शिष्टा एवं सर्वदा सञ्जपन्ति ॥५६॥ दैवी संपद्विद्यते यस्य पुंसः श्रीमान सोऽयं सर्वदा भक्तियुक्तः । शंभुं विष्णुं चैकरूपं द्विदेहं भेदं त्यक्त्वा संभजन्मोक्षमेति ॥५७॥ येषां पुंसामासुरी संपदास्ते मृत्योर्ग्रासाः कामलोभाभिभूताः । क्रोधेनान्धा बन्धयुक्ता जनास्ते शंभुं विष्णुं भेदबुद्ध्या भजन्ते ॥५८॥ कल्याणकारं सुखदप्रकारं विनिर्विकारं विहितोपकारम । स्वाकारमीशं न कृतापकारं शिवं भजध्वं किल केशवं च ॥५९॥ सच्चित्स्वरूपं करुणासुकूपं गीर्वणभूपं वरधर्मयूपम । संसारसारं सुरुचिप्रसारं देवं हरिं वा भज भो हरं वा ॥६०॥ आनन्दसिन्धुं परदीनबन्धुं मोहान्धकारस्य निकारहेतुम । सद्धर्मसेतुं रिपुधूमकेतुं भजस्व विष्णुं शिवमेकबुद्ध्या ॥६१॥ वेदान्तसिद्धान्तमयं दबाळुं सत्साङ्ख्यशास्त्रप्रतिपाद्यमानम । न्यायप्रसिद्धं सुतरां समिद्धं भजस्व विष्णुं शिवमेकबुद्ध्या ॥६२॥ पापापहारं रुचिरप्रचारं कृतोपकारं विलसद्विहारम । सद्धर्मधारं कमनीयदारं सारं हरिं वा भज भो हरं वा ॥६३॥ हरौ भेदमवेक्षमाणः प्राणी नितान्तं खलु तान्तचेताः । प्रेताधिपस्यैति पुरं दुरन्तं दुःखं च तत्र प्रथितं प्रयाति ॥६४॥ भो भो जना ज्ञानधना मनागप्यर्च्ये हरौ चापि हरे च नूनम । भेदं परित्यज्य मनो निरुध्य सुखं भवन्तः खलु तौ भजन्तु ॥६५॥ आनन्दसन्मन्दिरमिन्दुकान्तं शान्तं नितान्तं भुवनानि पान्तम । भान्तं सुदान्तं विहितासुरान्तं देवं शिवं वा भज केशवं वा ॥६६॥ हे हे हरे कृष्ण जनार्दनेश शंभो शशाङ्काभरणाधिदेव । नारायण श्रीश जगत्स्वरूप मां पाहि नित्यं शरणं प्रपन्नम ॥६७॥ विष्णो दशलोऽच्युत शार्ङ्गपाणे भूतेश शंभो शिव शर्व नाथ । मुकुन्द गोविन्द रमाधिपेश मां पाहि नित्यं शरणं प्रपन्नम ॥६८॥ कल्याणकारिन कमलापते हे गौरीपते भीम भवेश शर्व । गिरीश गौरीप्रिय शूलपाणे मां पाहि नित्यं शरणं प्रपन्नम ॥६९॥ हे शर्व हे शङ्कर हे पुरारे हे हे केशव हे कॄष्ण हे मुरारे । हे दीनबन्धो करुणैकसिन्धो मां पाहि नित्यं शरणं प्रपन्नम ॥७०॥ हे चन्द्रमौले हरिरूप शंभो हे चक्रपाणे शिवरूप विष्णो । हे कामशत्रो खलु कामतात मां पाहि नित्यं भगवन्नमस्ते ॥७१॥ सकललोकपशोकविनाशिनौ परमरम्यतया प्रविकाशिनौ । अघसमूहविदारणकारिणौ हरिहरौ भज मूढ भिदां त्यज ॥७२॥ हरिः साक्षाद्धरः प्रोक्तो हरः साक्षाद्धरिः स्मॄतः । उभयोरन्तरं नास्ति सत्यं सत्यं न संशयः ॥७३॥ यो हरौ च हरे साक्षादेकमूर्तौ द्विधा स्थिते । भेदं करोति मूढात्मा स याति नरकं ध्रुवम ॥७४॥ यस्य बुद्धिर्हरौ चापि हरे भेदं च पश्यति । स नराधमतां यातो रोगी भवति मानवः ॥७५॥ यो हरौ च हरे चापि भेदबुद्धिं करोत्यहो । तस्मान्मूढतमो लोके नान्यः कश्चन विद्यते ॥७६॥ मुक्तिमिच्छसि तेत्तर्हि भेदं त्यज हरौ हरे । अन्यथा जन्मलक्षेषु मुक्तिः खलु सुदुर्लभा ॥७७॥ विष्णोः शिवस्य चाभेदज्ञानान्मुक्तिः प्रजापते । इति सद्वेदवाक्यानां सिद्धान्तः प्रतिपादितः ॥७८॥ विष्णुः शिवः शिवो विष्णुरिति ज्ञानं प्रशिष्यते । एतज्ज्ञानयुतो ज्ञानी नान्यथा ज्ञानमिष्यते ॥७९॥ हरिर्हरो हरश्चपि हरिरस्तीति भावयन । धर्मार्थकाममोक्षाणामधिकारी भवेन्नरः ॥८०॥ हरिं हरं भिन्नरूपं भावयत्यधमो नरः । स वर्णसङ्करो नूनं विज्ञेयो भावितात्मभिः ॥८१॥ हरे शम्भो हरे विष्णो शम्भो हर हरे हर । इति नित्यं रलन जन्तुर्जीवन्मुक्तो हि जायते ॥८२॥ न हरिं च हरं चापि भेदबुद्ध्या विलोकयेत । यदीच्छेदात्मनः क्षेम बुद्धिमान्कुशलो नरः ॥८३॥ हरे हर दयाळो मां पाहि पाहि कृपां कुरु । इति सञ्जपनादेव मुक्तिः प्राणौ प्रतिष्ठिता ॥८४॥ हरिं हरं द्विधा भिन्नं वस्तुतस्त्वेकरूपकम । प्रणमामि सदा भक्त्या रक्षतां तौ महेश्वरौ ॥८५॥ इदं हरिहरस्तोत्रं सूक्तं परमदुर्लभम । धर्मार्थकाममोक्षाणां दायकं दिव्यमुत्तमम ॥८६॥ शिवकेशवयोरैक्यप्रतिपादकमीडितम । पठेयुः कृतिनः शान्ता दान्ता मोक्षाभिलाषिणः ॥८७॥ एतस्य पठनात्सर्वाः सिद्धयो वशगास्तथा । देवयोर्विष्णुशिवयोर्भक्तिर्भवति भूतिदा ॥८८॥ धर्मार्थी लभते धर्ममर्थार्थी चार्थमश्नुते । कामार्थी लभते कामं मोक्षार्थी मोक्षमश्नुते ॥८९॥ दुर्गमे घोरसङ्ग्रामे कानने वधबन्धने । कारागारेऽस्य पठनाज्जायते तत्क्षणं सुखी ॥९०॥ वेदे यथा सामवेदो वेदान्तो दर्शने यथा । स्मृतौ मनुस्मृतिर्यद्वत वर्णेषु ब्राह्मणो यथा ॥९१॥ यथाऽऽश्रमेषु सन्न्यासो यथा देवेषु वासवः । यथाऽश्वत्थः पादपेषु यथा गङ्गा नदीषु च ॥९२॥ पुराणेषु यथा श्रेष्ठं महाभारतमुच्यते । यथा सर्वेषु लोकेषु वैकुण्ठः परमोत्तमः ॥९३॥ यथा तीर्थेषु सर्वेषु प्रयागः श्रेष्ठ ईरितः । यथा पुरीषु सर्वासु वरा वाराणसी मता ॥९४॥ यथा दानेषु सर्वेषु चान्नदानं महत्तमम । यथा सर्वेषु धर्मेषु चाहिंसा परमा स्मृता ॥९५॥ यथा सर्वेषु सौख्येषु भोजनं प्राहुरुत्तमम । तथा स्तोत्रेषु सर्वेषु स्तोत्रमेतत्परात्परम ॥९६॥ अन्यानि यानि स्तोत्राणि तानि सर्वाणि निश्चितम । अस्य स्तोत्रस्य नो यान्ति षोडशीमपि सत्कलाम ॥९७॥ भूतप्रेतपिशाचाद्या बालवृद्धग्रहाश्च ये । ते सर्वे नाशमायान्ति स्तोत्रस्यास्य प्रभावतः ॥९८॥ यत्रास्य पाठो भवति स्तोत्रस्य महतो ध्रुवम । तत्र साक्षात्सदा लक्ष्मीर्वसत्येव न संशयः ॥९९॥ अस्य स्तोत्रस्य पाठेन विश्वेशौ शिवकेशवौ । सर्वान्मनोरथान्पुंसां पूरयेतां न संशयः ॥१००॥ पुण्यं पुण्यं महत्पुण्यं स्तोत्रमेतद्धि दुर्लभम । भो भो मुमुक्षवः सर्वे यूयं पठत सर्वदा ॥१०१॥ इत्यच्युताश्रमस्वामिविरचितं श्रीहरिहराद्वैतस्तोत्रं संपूर्णम ॥

Related Content

শিৱস্তুতিঃ (লঙ্কেশ্ৱর ৱিরচিতা) - Shivastutih (Langeshvara

শিৱস্তুতিঃ (শ্রী মল্লিকুচিসূরিসূনু নারযণ পণ্ডিতাচার্য ৱিরচি

shivastutiH (langkeshvara virachitaa)

Shiva Stutih (Shri Mallikuchisoorisoonu Narayana Panditaach

ಶಿವಸ್ತುತಿಃ (ಲಙ್ಕೇಶ್ವರವಿರಚಿತಾ) - Shivastutih (Langeshvara V