logo

|

Home >

Scripture >

scripture >

Marathi

Om symbolभेदभङ्गाभिधानस्तोत्रम- Bhedabhanggaabhidhaana StotramOm symbol

Singer

Play Song

Source language

Translation language

Click on the songs to view the meaning


Bhedabhanggaabhidhaana Stotram चतुर्वाहनाभ्यम्बुजाद्भूतवन्तं भवन्तं भवच्छेदकर्तारमुग्रम । मुखानां चतुष्कं दधानं प्रधानं शिवं सृष्टिकर्तारमीशानमीडे ॥१॥ उमाङ्कश्रितं स्वं करं चोत्क्षिपन्तं गिरीशोत्तमाङ्गस्थचन्द्रं दिधीर्षुम । मुहुर्गर्जितं सस्मितं सर्वपूज्यं शिवं विघ्नहर्तारमीशानमीडे ॥२॥ सुमेरोः समन्तात्सदैवाशु यन्तं सहस्रोस्रभासा नभो भासयन्तम । जगद्भद्रहेतोर्धृतानेकरूपं शिवं व्याधिहर्तारमीशानमीडे ॥३॥ रमाजानकीरुक्मिणीजाम्बवत्याद्यनेकस्वशक्तिस्फुरद्वामभागम । हृषीकेशरामाघशित्र्वादिसंज्ञं शिवं सर्वदातारमीशानमीडे ॥ ४॥ धनाध्यक्षरूपेण ऋक्थान्यवन्तं कुबेरालकेशादिनामौघवन्तम । पुलस्त्यान्वयोत्पत्तिभाजं विराजं शिवं द्रव्यदातारमीशानमीडे ॥५॥ प्रशस्तारुविद्यानिधानं सुधानं स्वभूस्वापपर्यङ्कतां सन्दधानम । अनन्तावतारच्छलेनाधिशीष शिवं भूमिधर्तारमीशानमीडे ॥६॥ अनेकक्रियारूपनामप्रकाशैर्निजं देवतापञ्चकं दर्शयन्तम । तथैवावतारान दशान्यांश्च लोके नटं वाखिलं दैवतं ज्योतिरीडे ॥७॥ श्रुतेर्नेह नानेति शब्दप्रमाणैर्मुनिम्यस्तदर्थावयवैः पुराणैः । निजामेकतां द्योतयन्तां सुधीम्यः सदासच्चिदात्मानमीशानमीडे ॥८॥ अजस्रेश्वराराधने दत्तचेता महात्माच्युताद्याश्रमान्तः परिव्राट । अकार्षीदिदं भेदभङ्गाभिधानं मुदे स्तोत्रमन्तर्भिदाभङ्गभाजाम ॥९॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमदच्युताश्रमविरचितं भेदभङ्गाभिधानस्तोत्रं समाप्तम ॥

Related Content

ভেদভঙ্গাভিধানস্তোত্রম - Bhedabhanggaabhidhaana Stotram

ભેદભઙ્ગાભિધાનસ્તોત્રમ- Bhedabhanggaabhidhaana Stotram

ಭೇದಭಙ್ಗಾಭಿಧಾನಸ್ತೋತ್ರಮ್- Bhedabhanggaabhidhaana Stotram

ഭേദഭംഗാഭിധാനസ്തോത്രം- Bhedabhanggaabhidhaana Stotram

ਭੇਦਭਙ੍ਗਾਭਿਧਾਨਸ੍ਤੋਤ੍ਰਮ -Bhedabhanggaabhidhaana Stotram