logo

|

Home >

Scripture >

scripture >

Marathi

Om symbolअर्धनारीश्वर स्तोत्रमOm symbol

Composer : Shankaracharya

Singer

Play Song

Source language

Translation language

Click on the songs to view the meaning


Ardhanaarishvara Stotram मन्दारमालालुलितालकायै कपालमालाङ्कितशेखराय । दिव्याम्बरायै च दिगम्बराय नमः शिवायै च नमः शिवाय ॥१॥ एकः स्तनस्तुङ्गतरः परस्य वार्तामिव प्रष्टुमगान्मुखाग्रम । यस्याः प्रियार्धस्थितिमुद्वहन्त्याः सा पातु वः पर्वतराजपुत्री ॥२॥ यस्योपवीतगुण एव फणावऋतैकवक्षोरुहः कुचपटीयति वामभागे । तस्मै ममास्तु तमसामवसानसीम्ने चन्द्रार्धमौलिशिरसे नमस्या ॥३॥ स्वेदार्द्रवामकुचमण्डनपत्रभङ्गसंशोषिदक्षिणकराङ्कुलिभस्मरेणुः । स्त्रीपुंनपुंसकपदव्यतिलङ्घिनी वः शंभोस्तनुः सुखयतु प्रकृतिश्चतुर्थी ॥४॥ इत्यर्धनारीश्वरस्तोत्रं संपूर्णम ॥

Related Content

अर्धनारीश्वर स्तोत्रम - Ardhanaarishvara Stotram