This Page is courtesy of Sanskrit Documents List. Please send your corrections
mahAkailAsAShTottarashatanAmAvalI .. शिवकैलासाष्टोत्तरशतनामावलिः .. ॐ श्रीमहाकैलासशिखरनिलयाय नमोनमः । ॐ हिमाचलेन्द्रतनयावल्लभाय नमोनमः । ॐ वामभागकलत्रार्धशरीराय नमोनमः । ॐ विलसद्दिव्यकर्पूरदिव्याभाय नमोनमः । ॐ कोटिकन्दर्पसदृशलावण्याय नमोनमः । ५। ॐ रत्नमौक्तिकवैडूर्यकिरीटाय नमोनमः । ॐ मंदाकिनीजलोपेतमूर्धजाय नमोनमः । ॐ चारुशीतांशुशकलशेखराय नमोनमः । ॐ त्रिपुण्ड्रभस्मविलसत्फालकाय नमोनमः । ॐ सोमपावकमार्ताण्डलोचनाय नमोनमः । १० ॐ वासुकीतशकलसत्कुण्डलाय नमोनमः । ॐ चारुप्रसन्नसुस्मेरवदनाय नमोनमः । ॐ समुद्रोद्भूतगरलकंधराय नमोनमः । ॐ कुरंगविलसत्पाणिकमलाय नमोनमः । ॐ परश्वधद्वयलसद्दिव्यकराब्जाय नमोनमः । १५। ॐ वराभयप्रदकरयुगलाय नमोनमः । ॐ अनेकरत्नमाणिक्यसुहाराय नमोनमः । ॐ मौक्तिकस्वर्णरुद्राशमालिकाय नमोनमः । ॐ हिरण्यकिंकिणीयुक्तकंकणाय नमोनमः । ॐ मंदारमल्लिकादामभूषिताय नमोनमः । २० ॐ महामातंगसत्कृत्तिवसनाय नमोनमः । ॐ नागेंद्रयज्ञोपवीतशोभिताय नमोनमः । ॐ सौदामिनीसमच्छायसुवस्त्राय नमोनमः । ॐ सिंजानमणिमंजीरचरणाय नमोनमः । ॐ चक्राब्जध्वजयुक्तांघ्रिसरोजाय नमोनमः । २५। ॐ अपर्णाकुचकस्तूरीशोभिताय नमोनमः । ॐ गुहमत्तेभवदनजनकाय नमोनमः । ॐ बिडौजोविधिवैकुण्ठसन्नुताय नमोनमः । ॐ कमलाभारतींद्राणीसेविताय नमोनमः । ॐ महापंचाशरीमन्त्रस्वरूपाय नमोनमः । ३० ॐ सहस्रकोटितपनसंकाशाय नमोनमः । ॐ अनेककोटिशीतंशुप्रकाशाय नमोनमः । ॐ कैलासतुल्यवृषभवाहनाय नमोनमः । ॐ नंदीभृंगीमुखानेकसंस्तुताय नमोनमः । ॐ निजपादा.म्बुजासक्तसुलभाय नमोनमः । ३५। ॐ प्रारब्धजन्ममरणमोचनाय नमोनमः । ॐ संसारमयदुःखौघभेषजाय नमोनमः । ॐ चराचरस्थूलसूश्मकल्पकाय नमोनमः । ॐ ब्रह्मादिकीटपर्यन्तव्यापकाय नमोनमः । ॐ सर्वसहामहाचक्रस्यन्दनाय नमोनमः । ४० ॐ सुधाकरजगच्छशूरथांगाय नमोनमः । ॐ अथर्वऋग्यजुस्सामतुरगाय नमोनमः । ॐ सरसीरुहसंजातप्राप्तसारथये नमोनमः । ॐ वैकुण्ठसायविलसत्सायकाय नमोनमः । ॐ चामीकरमहाशैलकार्मुकाय नमोनमः । ४५। ॐ भुजंगराजविलसत्सिञ्जिनीकृतये नमोनमः । ॐ निजाशिजाग्निसन्दग्ध त्रिपुराय नमोनमः । ॐ जलंधरासुरशिरच्छेदनाय नमोनमः । ॐ मुरारिनेत्रपूजांघ्रिपंकजाय नमोनमः । ॐ सहस्रभानुसंकाशचक्रदाअय नमोनमः । ५० ॐ कृतान्तकमहादर्पनाशनाय नमोनमः । ॐ मार्कण्डेयमनोभीष्टदायकाय नमोनमः । ॐ समस्तलोकगीर्वाणशरण्याय नमोनमः । ॐ अतिज्वलज्वालामालविषघ्नाय नमोनमः । ॐ शिशितांधकदैतेयविक्रमाय नमोनमः । ५५। ॐ स्वद्रोहिदशसवनविघाताय नमोनमः । ॐ शंबरांतकलावण्यदेहसंहारिणे नमोनमः । ॐ रतिप्रार्तितमांगल्यफलदाय नमोनमः । ॐ सनकादिसमायुक्तदशिणामूर्तये नमोनमः । ॐ घोरापस्मारदनुजमर्दनाय नमोनमः । ६० ॐ अनन्तवेदवेदान्तवेद्याय नमोनमः । ॐ नासाग्रन्यस्तनिटिलनयनाय नमोनमः । ॐ उपमन्युमहामोहभंजनाय नमोनमः । ॐ केशवब्रह्मसंग्रामनिवाराय नमोनमः । ॐ द्रुहिणांभोजनयनदुर्लभाय नमोनमः । ६५। ॐ धर्मार्थकामकैवल्यसूचकाय नमोनमः । ॐ उत्पत्तिस्थितिसंहारकारणाय नमोनमः । ॐ अनन्तकोटिब्रह्माण्डनायकाय नमोनमः । ॐ कोलाहलमहोदारशमनाय नमोनमः । ॐ नारसिंहमहाकोपशरभाय नमोनमः । ७० ॐ प्रपंचनाशकल्पान्तभैरवाय नमोनमः । ॐ हिरण्यगर्भोत्तमांगच्छेदनाय नमोनमः । ॐ पतंजलिव्याघ्रपादसन्नुताय नमोनमः । ॐ महाताण्डवचातुर्यपंडिताय नमोनमः । ॐ विमलप्रणवाकारमध्यगाय नमोनमः । ७५। ॐ महापातकतूलौघपावनाय नमोनमः । ॐ चंडीशदोषविच्छेदप्रवीणाय नमोनमः । ॐ रजस्तमस्सत्त्वगुणगणेशाय नमोनमः । ॐ दारुकावनमानस्त्रीमोहनाय नमोनमः । ॐ शाश्वतैश्वर्यसहितविभवाय नमोनमः । ८० ॐ अप्राकृतमहादिव्यवपुस्थाय नमोनमः । ॐ अखंडसच्छिदानन्दविग्रहाय नमोनमः । ॐ अशेषदेवताराध्यपादुकाय नमोनमः । ॐ ब्रह्मादिसकलदेववन्दिताय नमोनमः । ॐ पृथिव्यप्तेजोवाय्वाकाशतुरीयाय नमोनमः । ८५। ॐ वसुन्धरमहाभारसूदनाय नमोनमः । ॐ देवकीसुतकौन्तेयवरदाय नमोनमः । ॐ अज्ञानतिमिरध्वान्तभास्कराय नमोनमः । ॐ अद्वैतानन्दविज्ञानसुखदाय नमोनमः । ॐ अविद्योपाधिरहितनिर्गुणाय नमोनमः । ९० ॐ सप्तकोटिमहामन्त्रपूरिताय नमोनमः । ॐ गंधशब्दस्पर्शरूपसाधकाय नमोनमः । ॐ अशराशरकूटस्थपरमाय नमोनमः । ॐ षोडशाब्दवयोपेतदिव्यांगाय नमोनमः । ॐ सहस्रारमहापद्ममण्डिताय नमोनमः । ९५। ॐ अनन्तानन्दबोधांबुनिधिस्थाय नमोनमः । ॐ अकारादिशकारान्तवर्णस्थाय नमोनमः । ॐ निस्तुलौदार्यसौभाग्यप्रमत्ताय नमोनमः । ॐ कैवल्यपरमानन्दनियोगाय नमोनमः । ॐ हिरण्यज्योतिविभ्राजत्सुप्रभाय नमोनमः । १०० ॐ ज्योतिषांमूर्तिमज्योतिरूपदाय नमोनमः । ॐ अनौपम्यमहासौख्यपदस्थाय नमोनमः । ॐ अचिंत्यमहिमाशक्तिरंजिताय नमोनमः । ॐ अनित्यदेहविभ्रांतिवर्जिताय नमोनमः । ॐ सकृत्प्रपन्नदौर्भाग्यच्छेदनाय नमोनमः । ॐ षट्त्रिंशत्तत्त्वप्रशादभुवनाअय नमोनमः । ॐ आदिमध्यान्तरहितदेहस्थाय नमोनमः । ॐ परानन्दस्वरूपार्थप्रबोधाय नमोनमः । ॐ ज्ञानशक्तिकृयाशक्तिसहिताय नमोनमः । ॐ पराशक्तिसमायुक्तपरेशाय नमोनमः । ११० ॐ ओंकारानन्दनोद्यानकल्पकाय नमोनमः । ॐ ब्रह्मादिसकलदेववन्दिताय नमोनमः । ११२ ॥ श्री महाकैलासाष्टोत्तरशतनामावलिः संपूर्णा ॥