logo

|

Home >

Scripture >

scripture >

Marathi

Om symbolईश्वर प्रार्थना स्तोत्रम - Ishvara Prarthana StotramOm symbol

Singer

Play Song

Source language

Translation language

Click on the songs to view the meaning


Ishvara Prarthana Stotram ईश्वरप्रार्थनास्तोत्रम ईश्वरं शरणं यामि क्रोधमोहादिपीडितः । अनाथं पतितं दीनं पाहि मां परमेश्वर ॥ १॥ प्रभुस्त्वं जगतां स्वामिन वश्यं सर्वं तवास्ति च । अहमज्ञो विमूढोऽस्मि त्वां न जानामि हे प्रभो ॥२॥ ब्रह्मा त्वं च तथा विष्णुस्त्वमेव च महेश्वरः । तव तत्त्वं न जानामि पाहि मां परमेश्वर ॥३॥ त्वं पिता त्वं च मे माता त्वं बन्धुः करुणानिधे । त्वां विना नहि चान्योऽस्ति मम दुःखविनाशकः ॥४॥ अन्तकाले त्वमेवासि मम दुःख विनाशकः । तस्माद्वै शरणोऽहं ते रक्ष मां हे जगत्पते ॥५॥ पितापुत्रादयः सर्वे संसारे सुखभागिनः । विपत्तौ परिजातायां कोऽपि वार्ताम न पृच्छति ॥६॥ कामक्रोधादिभिर्युक्तो लोभमोहादिकैरपि । तान्विनश्यात्मनो वैरीन पाहि मां परमेश्वर ॥७॥ अनेके रक्षिताः पूर्वं भवता दुःखपीडिताः । क्व गता ते दया चाद्य पाहि मां हे जगत्पते ॥८॥ न त्वां विना कश्चिदस्ति संसारे मम रक्षकः । शरणं त्वां प्रपन्नोऽहं त्राहि मां परमेश्वर ॥९॥ ईश्वर प्रार्थनास्तोत्रं योगानन्देन निर्मितम । यः पठेद्भक्तिसंयुक्तस्तस्येशः संप्रसीदति ॥१०॥ इति श्रीयोगानन्दतीर्थविरचितं ईश्वरप्रार्थनास्तोत्रं संपूर्णम ॥

Related Content

চন্দ্রচূডালাষ্টকম - Chandrachoodaalaa Ashtakam

কল্কি কৃতম শিৱস্তোত্র - kalki kritam shivastotra

প্রদোষস্তোত্রম - Pradoshastotram

মেধাদক্ষিণামূর্তি সহস্রনামস্তোত্র - Medha Dakshinamurti Saha

দ্বাদশ জ্যোতির্লিঙ্গ স্তোত্রম্