This Page is courtesy of Sanskrit Documents List. Please send your corrections
This stotra is also available in
dakshiNamurti varNamAlA stotram दक्षिणामूर्ति वर्णमालास्तोत्रम आऊंमित्येतद्यस्य बुधैर्नाम गृहीतं यद्भासेदं भाति समस्तं वियदादि . यस्याज्ञातः स्वस्वपदस्था विधिमुख्या\- स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि .. १.. नम्राण्गाणां भक्तिमतां यः पुरुषार्था\- न्दत्वा क्षिप्रं हन्ति च तत्सर्वविपत्तीः . पादाम्भोजाधस्तनितापस्मृतिमीशं तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि .. २.. मोहध्वस्त्यै वैणिकवैयासिकिमुख्याः संविन्मुद्रापुस्तकवीणाक्षगुणान्यम . हस्ताम्भोजैर्बिभ्रतमाराधितवन्त\- स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि .. ३.. भद्रारूढं भद्रदमाराधयितृणां भक्तिश्रद्धापूर्वकमीशं प्रणमन्ति . आदित्या यं वाञ्च्हितसिद्ध्यै करुणाब्धिं तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि .. ४.. गर्भान्तःस्थाः प्राणिन एते भवपाश\- च्च्हेदे दक्षं निश्चितवन्तः शरणं यम . आराध्याण्घ्रिप्रस्फुरदम्भोरुहयुग्मं तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि .. ५.. वक्त्रं धन्याः संसृतिवार्धेरतिमात्रा\- द्भीताः सन्तः पूर्णशशाण्कद्युति यस्य . सेवेन्ते.अध्यासीनमनन्तं वटमूलं तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि .. ६.. तेजःस्तोमैरण्गदसंघट्टितभास्व\- न्माणिक्योत्थैर्भासितविश्वो रुचिरैर्यः . तेजोमूर्तिं खानिलतेजःप्रमुखाब्धिं तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि .. ७.. दध्याज्यादिद्रव्यककर्माण्यखिलानि त्यक्त्वा काण्क्षा कर्मफलेष्वत्र करोति . यज्जिज्ञासां रूपफलार्थी क्षितिदेव\- स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि .. ८.. क्षिप्रं लोके यं भजमानः पृथुपुण्यः प्रध्वस्ताधिः प्रोज्झितसंसृत्यखिलार्तिः . प्रत्यग्भूतं ब्रह्म परं सन्रमते य\- स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि .. ९.. णानेत्येवं यन्मनुमध्यस्थितवर्णा\- न्भक्ताः काले वर्णगृहीत्यै प्रजपन्तः . मोदन्ते संप्राप्तसमस्तश्रुतितन्त्रा\- स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि .. १०.. मूर्तिश्च्हायानिर्जितमन्दाकिनिकुन्द\- प्रालेयाम्भोराशिसुधाभूतिसुरेभा . यस्याभ्राभा हासविधौ दक्षशिरोधि\- स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि .. ११.. तप्तस्वर्णच्च्हायजटाजूटकटाह\- प्रोद्यद्वीचीवल्लिविराजत्सुरसिन्धुम . नित्यं सूक्ष्मं नित्यनिरस्ताखिलदोषं तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि .. १२.. येन ज्ञातेनैव समस्तं विदितं स्या\- द्यस्मादन्यद्वस्तु जगत्यां शशशृण्गम . यं प्राप्तानां नास्ति परं प्राप्यमनादिं तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि .. १३.. मत्तो मारो यस्य ललाटाक्षिभवाग्नि\- स्फूर्जत्कीलप्रोषितभस्मीकृतदेहः . तद्भस्मासीद्यस्य सुजातः पटवास\- स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि .. १४.. ह्यम्भोराशौ संसृतिरूपे लुठतां त\- त्पारं गन्तुं यत्पदभक्तिर्दृढनौका . सर्वाराध्यं सर्वगमानन्दपयोनिधिं तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि .. १५.. मेधावी स्यादिन्दुवतंसं धृतवीणं कर्पूराभं पुस्तकहस्तं कमलाक्षम . चित्ते ध्यायन्यस्य वपुर्द्राण्निमिषार्धं तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि .. १६.. धाम्नां धाम प्रौढरुचीनां परमं य\- त्सूर्यादीनां यस्य स हेतुर्जगदादेः . एतावान्यो यस्य न सर्वेश्वरमीड्यं तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि .. १७.. प्रत्याहारप्राणनिरोधादिसमर्थै\- र्भक्तैर्दान्तैः संयतचित्तैर्यतमानैः . स्वात्मत्वेन ज्ञायत एव त्वरया य\- स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि .. १८.. ज्ञांशीभूतान्प्राणिन एतान्फलदाता चित्तान्तःस्थः प्रेरयति स्वे सकले.अपि . कृत्ये देवः प्राक्तनकर्मानुसरः सं\- स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि .. १९.. प्रज्ञामात्रं प्रापितसंबिन्निजभक्तं प्राणाक्षादेः प्रेरयितारं प्रणवार्थम . प्राहुः प्राज्ञा विदितानुश्रवतत्त्वा\- स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि .. २०.. यस्यांज्ञानादेव नृणां संसृतिबोधो यस्य ज्ञानादेव विमोक्षो भवतीति . स्पष्टं ब्रूते वेदशिरो देशिकमाद्यं तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि .. २१.. च्हन्ने.अविद्यारूपपटेनैव च विश्वं यत्राध्यस्तं जीवपरेशत्वमपीदम . भानोर्भानुष्वम्बुवदस्ताखिलभेदं तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि .. २२.. स्वापस्वप्नौ जाग्रदवस्थापि न यत्र प्राणश्वेतः सर्वगतो यः सकलात्मा . कूटस्थो यः केवलसच्चित्सुखरूप\- स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि .. २३.. हा हेत्येवं विस्मयमीयुर्मुनिमुख्या ज्ञाते यस्मिन्स्वात्मतयानात्मविमोहः . प्रत्यग्भूते ब्रह्मणि यातः कथमित्थं तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि .. २४.. यैषा रम्यैर्मत्तमयूराभिधवृत्तै\- रादौ क्लृप्ता यन्मनुवर्णैर्मुनिभण्गी . तामेवैतां दक्षिणवक्त्रः कृपयासा\- वूरीकुर्याद्देशिकसम्राट परमात्मा .. २५.. इति श्रीमत्परमहंसपरिव्रजकाचार्यस्य श्रिगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्च्हंकरभगवत्पाद कृतौ . श्रीदक्षिणामूर्तिवर्णमालास्तोत्रं संपूर्णम .