chandramaulIshvara varNamAlA stutiH चन्द्रमौलीश्वर वर्णमाला स्तुतिः श्रीपतिप्रमुखादेवाः स्वेप्सितार्थस्य सिद्दये । यं स्तुवन्ति समर्चन्ति नमन्ति च भजामि तं ॥ १ ॥ चंचच्चन्द्रकलाचूडः चन्द्रिकाधवलः शिवः । प्रत्यञ्चं स्फोरयत्याशु चञ्चले हृदये मम ॥ २ ॥ द्रवी भवति यस्यैव हृदयं स्मृतिमात्रतः । द्रप्सवन्मधुरां वाचां दृढयत्वनिशं स नः ॥ ३ ॥ मौले मन्दाकिनि यस्य मालती मालिका निभा । मौनिमानसहंसो.अयं मौढ्यं हरतु नः शिवः ॥ ४ ॥ लीनं योगिमनो यत्र तथा जगदपि ध्रुवे । लीढं मज्जिह्वया नित्यं करोतु नीजनाम सः ॥ ५ ॥ स्वस्तना नैव विषया दुःखसंभिन्नसौख्यदाः । घ्य़ात्वाप्यैवं तत्र सक्तं मुक्तिमार्गाध्वगं कुरु ॥ ६ ॥ रोदिमि क्क शुगामीढहृदयो.अहं दयानिधे । कस्याद्रमस्तु हृदयं त्वां विना मयि शङ्करः ॥ ७ ॥ विघ्नेश्वरगुहाश्लिष्टवामदशिणभाग भाक । विद्यां मे दिशतु ब्रह्मविषयां गिरिजापतिः ॥ ८ ॥ जपध्यानार्च्नस्तोत्रवन्दनैः सुरभूसुराः । यं तोषयन्ति सततं स शिवो नः प्रसीदतु ॥ ९ ॥ यतच्त्तैर्योगिवर्यैध्यायमानपदाम्बुजम । यमभीतिविनाशाय याम्यहं शरणं शिवम ॥ १० ॥ तेनैव पाविता पृथ्वी तेनैव कुलमुद्धृतम । येन शंभो पदाम्भोजयुगले स्वार्पितं मनः ॥ ११ ॥ चन्द्रमौलीश्वरस्तोत्रं भक्त्या यः पठति प्रगे । तस्य श्रीचन्द्रमौलीशः काङ्शितानि प्रयच्च्हति ॥ १२ ॥
Written by shrI chandra shekara bhArati swamiji of shR^ingeri mutt.