logo

|

Home >

Scripture >

scripture >

Marathi

Om symbol चन्द्रमौलीश्वर वर्णमाला स्तुतिः - Chandramaulishvara varnamala stutih Om symbol

Singer

Play Song

Source language

Translation language

Click on the songs to view the meaning


Chandramaulishvara varnamala stutih Please send your corrections chandramaulIshvara varNamAlA stutiH चन्द्रमौलीश्वर वर्णमाला स्तुतिः श्रीपतिप्रमुखादेवाः स्वेप्सितार्थस्य सिद्दये । यं स्तुवन्ति समर्चन्ति नमन्ति च भजामि तं ॥ १ ॥ चंचच्चन्द्रकलाचूडः चन्द्रिकाधवलः शिवः । प्रत्यञ्चं स्फोरयत्याशु चञ्चले हृदये मम ॥ २ ॥ द्रवी भवति यस्यैव हृदयं स्मृतिमात्रतः । द्रप्सवन्मधुरां वाचां दृढयत्वनिशं स नः ॥ ३ ॥ मौले मन्दाकिनि यस्य मालती मालिका निभा । मौनिमानसहंसो.अयं मौढ्यं हरतु नः शिवः ॥ ४ ॥ लीनं योगिमनो यत्र तथा जगदपि ध्रुवे । लीढं मज्जिह्वया नित्यं करोतु नीजनाम सः ॥ ५ ॥ स्वस्तना नैव विषया दुःखसंभिन्नसौख्यदाः । घ्य़ात्वाप्यैवं तत्र सक्तं मुक्तिमार्गाध्वगं कुरु ॥ ६ ॥ रोदिमि क्क शुगामीढहृदयो.अहं दयानिधे । कस्याद्रमस्तु हृदयं त्वां विना मयि शङ्करः ॥ ७ ॥ विघ्नेश्वरगुहाश्लिष्टवामदशिणभाग भाक । विद्यां मे दिशतु ब्रह्मविषयां गिरिजापतिः ॥ ८ ॥ जपध्यानार्च्नस्तोत्रवन्दनैः सुरभूसुराः । यं तोषयन्ति सततं स शिवो नः प्रसीदतु ॥ ९ ॥ यतच्त्तैर्योगिवर्यैध्यायमानपदाम्बुजम । यमभीतिविनाशाय याम्यहं शरणं शिवम ॥ १० ॥ तेनैव पाविता पृथ्वी तेनैव कुलमुद्धृतम । येन शंभो पदाम्भोजयुगले स्वार्पितं मनः ॥ ११ ॥ चन्द्रमौलीश्वरस्तोत्रं भक्त्या यः पठति प्रगे । तस्य श्रीचन्द्रमौलीशः काङ्शितानि प्रयच्च्हति ॥ १२ ॥ Written by shrI chandra shekara bhArati swamiji of shR^ingeri mutt.

Related Content

চন্দ্রচূডালাষ্টকম - Chandrachoodaalaa Ashtakam

পরমশিৱ পন্চরত্নস্তুতিঃ - Paramashiva pancharatnastutih

নৱৱর্ণমালা - Navavarnamaia

শিৱস্তুতিঃ (লঙ্কেশ্ৱর ৱিরচিতা) - Shivastutih (Langeshvara

চন্দ্রশেখর অষ্টক স্তোত্রম