logo

|

Home >

Scripture >

scripture >

Marathi

Om symbolअसितकृतं शिवस्तोत्रम - Asitakrutam ShivastotramOm symbol

Singer

Play Song

Source language

Translation language

Click on the songs to view the meaning


Asitakrutam Shivastotram असित कृतं शिव स्तोत्रम असित उवाच ॥ जगद्गुरो नम्स्तुभ्यं शिवाय शिवदाय च । योगीन्द्राणां च योगीन्द्र गुरूणां गुरवे नमः ॥१॥ मृत्योर्मृत्युस्वरूपेण मृत्युसंसारखण्डन । मृत्योरीश मृत्युबीज मृत्युञ्जय नमोऽस्तु ते ॥२॥ कालरूपं कलयतां कालकालेश कारण । कालादतीत कालस्थ कालकाल नमोऽस्तु ते ॥३॥ गुणातीत गुणाधार गुणबीज गुणात्मक । गुणीश गुणिनां बीज गुणिनां गुरवे नमः ॥४॥ ब्रह्मस्वरूप ब्रह्मज्ञ ब्रह्मभावे च तत्पर । ब्रह्मबीज स्वरूपेण ब्रह्मबीज नमोऽस्तु ते ॥५॥ इति स्तुत्वा शिवं नत्वा पुरस्तस्थौ मुनीश्वरः । दीनवत्साश्रुनेत्रश्च पुळकाञ्चितविग्रहः ॥६॥ असितेन कृतं स्तोत्रं भक्तियुक्तश्च यः पठेत । वर्षमेकं हविष्याशी शङ्करस्य महात्मनः ॥७॥ स लभेद्वैष्णवं पुत्रं ज्ञानिनं चिरजीविनम । दरिद्रो भवेद्धनाढ्यो मूको भवति पण्डितः ॥८॥ अभार्यो लभते भार्यां सुशीलां च पतिव्रताम । इह लोके सुखं भुक्त्वा यात्यन्ते शिवसन्निधिम ॥९॥ इदं स्तोत्रं पुरा दत्तं ब्रह्मणा च प्रचेतसे । प्रचेतसा स्वपुत्रायासिताय दत्तमुत्तमम ॥१०॥ इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे असितकृतं शिवस्तोत्रं संपूर्णम ॥

Related Content

চন্দ্রচূডালাষ্টকম - Chandrachoodaalaa Ashtakam

কল্কি কৃতম শিৱস্তোত্র - kalki kritam shivastotra

প্রদোষস্তোত্রম - Pradoshastotram

মেধাদক্ষিণামূর্তি সহস্রনামস্তোত্র - Medha Dakshinamurti Saha

দ্বাদশ জ্যোতির্লিঙ্গ স্তোত্রম্