logo

|

Home >

Scripture >

scripture >

Marathi

Om symbolअनादि कल्पेश्वर स्तोत्रम - Anaadi Kalpeshvara StotramOm symbol

Singer

Play Song

Source language

Translation language

Click on the songs to view the meaning


Anaadi Kalpeshvara Stotram अनादिकल्पेश्वरस्तोत्रम । कर्पूरगौरो भुजगेन्द्रहारो गङ्गाधरो लोकहितावरः सः । सर्वेश्वरो देववरोऽप्यघोरो योऽनादिकल्पेश्वर एव सोऽसौ ॥१॥ कैलासवासी गिरिजाविलासी श्मशानवासी सुमनोनिवासी । काशीनिवासी विजयप्रकाशी योऽनादिकल्पेश्वर एव सोऽसौ ॥२॥ त्रिशूलधारी भवदुःखहारी कन्दर्पवैरी रजनीशधारी । कपर्दधारी भजकानुसारी योऽनादिकल्पेश्वर एव सोऽसौ॥३॥ लोकाधिनाथः प्रमथाधिनाथः कैवल्यनाथः श्रुतिशास्त्रनाथः । विद्यार्थनाथः पुरुषार्थनाथो योऽनादिकल्पेश्वर एव सोऽसौ ॥४॥ लिङ्गं परिच्छेत्तुमधोगतस्य नाराणश्चोपरि लोकनाथः । बभूवतुस्तावपि नो समर्थो योऽनादिकल्पेश्वर एव सोऽसौ ॥५॥ यं रावणस्ताण्डवकौशलेन गीतेन चातोषयदस्व सोऽत्र । कृपाकटाक्षेण समृद्धिमाप योऽनादिकल्पेश्वर एव सोऽसौ ॥६॥ सकृच्च धाणोऽवनमय्य शीर्षं यस्याग्रतः सोऽप्यलभत्समृद्धिम । देवेन्द्रसंपत्त्यविकाङ्गरिष्ठां योऽनादिकल्पेश्वर एव सोऽसौ ॥७॥ गुणान्विमातुं न समर्थ एष वेषश्च जीवोऽपि विकुण्ठितोऽस्य । श्रुतिश्च नूनं चकितं बभाषे योऽनादिकल्पेश्वर एव सोऽसौ ॥८॥ अनादि कल्पेश उमेश एतत स्तवाष्टकं यः पठति त्रिकालम । सधौतपापोऽखिललोकवन्द्यं शैवं पदं यास्यति भक्तिमांश्चेत ॥९॥ इति श्रीवासुदेवानन्दसरस्वतीकृतमनादिकल्पेश्वरस्तोत्रं संपूर्णम ॥

Related Content

চন্দ্রচূডালাষ্টকম - Chandrachoodaalaa Ashtakam

কল্কি কৃতম শিৱস্তোত্র - kalki kritam shivastotra

প্রদোষস্তোত্রম - Pradoshastotram

মেধাদক্ষিণামূর্তি সহস্রনামস্তোত্র - Medha Dakshinamurti Saha

দ্বাদশ জ্যোতির্লিঙ্গ স্তোত্রম্