logo

|

Home >

Scripture >

scripture >

Marathi

Om symbolअभयङ्करं शिवरक्षास्तोत्रम - Abhayankaram ShivarakshaastotramOm symbol

Singer

Play Song

Source language

Translation language

Click on the songs to view the meaning


Abhayankaram Shivarakshaastotram अभयङ्करं शिवरक्षास्तोत्रम । अस्य श्रीशिवरक्षास्तोत्रमन्त्रस्य याज्ञवल्क्य ऋषिः, श्रीसदाशिवो देवता, अनुष्टुप छन्दः, श्रीसदाशिवप्रीत्यर्थं शिवरक्षास्तोत्रजपे विनियोगः ॥ चरितं देवदेवस्य महादेवस्य पावनम । अपारं परमोदारं चतुर्वर्गस्य साधनम ॥१॥ गौरीविनायकोपेतं पञ्चवक्त्रं त्रिनेत्रकम । शिवं ध्यात्वा दशभुजं शिवरक्षां पठेन्नरः ॥२॥ गङ्गाधरः शिरः पातु भालमर्धेन्दुशेखरः । नयने मदनध्वंसी कर्णौ सर्पविभूषणः ॥३॥ घ्राणं पातु पुरारातिर्मुखं पातु जगत्पतिः । जिह्वां वागीश्वरः पातु कन्धरां शितिकन्धरः ॥४॥ श्रीकण्ठः पातु मे कण्ठं स्कन्धौ विश्वधुरन्धरः । भुजौ भूभारसंहर्ता करौ पातु पिनाकधृक ॥५॥ हृदयं शङ्करः पातु जठरं गिरिजापतिः । नाभिं मृत्युञ्जयः पातु कटी व्याघ्राजिनाम्बरः ॥६॥ सक्थिनी पातु दीनार्तशरणागतवत्सलः । ऊरू महेश्वरः पातु जानुनी जगदीश्वरः ॥७॥ जङ्घे पातु जगत्कर्ता गुल्फौ पातु गणाधिपः । चरणौ करुणासिन्धुः सर्वाङ्गानि सदाशिवः ॥८॥ एतां शिवबलोपेतां रक्षां यः सुकृती पठेत । स भुक्त्वा सकलान्कामान शिवसायुज्यमाप्नुयात ॥९॥ ग्रहभूतपिशाचाद्यास्त्रैलोक्ये विचरन्ति ये । दूरादाशु पलायन्ते शिव नामाभिरक्षणात ॥१०॥ अभयङ्करनामेदं कवचं पार्वतीपतेः । भक्त्या बिभर्ति यः कण्ठे तस्य वश्यं जगत्रयम ॥११॥ इमां नारायणः स्वप्ने शिवरक्षां यथादिशत । प्रातरुत्थाय योगीन्द्रो याज्ञवल्क्यस्तथाऽलिखत ॥१२॥ इति श्रीयाज्ञवल्क्यप्रोक्तमभयङ्करं शिवरक्षास्तोत्रं संपूर्णम ॥

Related Content

চন্দ্রচূডালাষ্টকম - Chandrachoodaalaa Ashtakam

কল্কি কৃতম শিৱস্তোত্র - kalki kritam shivastotra

প্রদোষস্তোত্রম - Pradoshastotram

মেধাদক্ষিণামূর্তি সহস্রনামস্তোত্র - Medha Dakshinamurti Saha

দ্বাদশ জ্যোতির্লিঙ্গ স্তোত্রম্