logo

|

Home >

Scripture >

scripture >

Marathi

चन्द्रमौलीश्वर वर्णमाला स्तुतिः - Chandramaulishvara varnamala stutih

Chandramaulishvara varnamala stutih


Please send your corrections

chandramaulIshvara varNamAlA stutiH 
चन्द्रमौलीश्वर वर्णमाला स्तुतिः 

श्रीपतिप्रमुखादेवाः स्वेप्सितार्थस्य सिद्दये ।
यं स्तुवन्ति समर्चन्ति नमन्ति च भजामि तं ॥ १ ॥

चंचच्चन्द्रकलाचूडः चन्द्रिकाधवलः शिवः ।
प्रत्यञ्चं स्फोरयत्याशु चञ्चले हृदये मम ॥ २ ॥

द्रवी भवति यस्यैव हृदयं स्मृतिमात्रतः ।
द्रप्सवन्मधुरां वाचां दृढयत्वनिशं स नः ॥ ३ ॥

मौले मन्दाकिनि यस्य मालती मालिका निभा ।
मौनिमानसहंसो.अयं मौढ्यं हरतु नः शिवः ॥ ४ ॥

लीनं योगिमनो यत्र तथा जगदपि ध्रुवे ।
लीढं मज्जिह्वया नित्यं करोतु नीजनाम सः ॥ ५ ॥

स्वस्तना नैव विषया दुःखसंभिन्नसौख्यदाः ।
घ्य़ात्वाप्यैवं तत्र सक्तं मुक्तिमार्गाध्वगं कुरु ॥ ६ ॥

रोदिमि क्क शुगामीढहृदयो.अहं दयानिधे ।
कस्याद्रमस्तु हृदयं त्वां विना मयि शङ्करः ॥ ७ ॥

विघ्नेश्वरगुहाश्लिष्टवामदशिणभाग भाक ।
विद्यां मे दिशतु ब्रह्मविषयां गिरिजापतिः ॥ ८ ॥

जपध्यानार्च्नस्तोत्रवन्दनैः सुरभूसुराः ।
यं तोषयन्ति सततं स शिवो नः प्रसीदतु ॥ ९ ॥

यतच्त्तैर्योगिवर्यैध्यायमानपदाम्बुजम ।
यमभीतिविनाशाय याम्यहं शरणं शिवम ॥ १० ॥

तेनैव पाविता पृथ्वी तेनैव कुलमुद्धृतम ।
येन शंभो पदाम्भोजयुगले स्वार्पितं मनः ॥ ११ ॥

चन्द्रमौलीश्वरस्तोत्रं भक्त्या यः पठति प्रगे ।
तस्य श्रीचन्द्रमौलीशः काङ्शितानि प्रयच्च्हति ॥ १२ ॥

Written by shrI chandra shekara bhArati swamiji of shR^ingeri mutt.

Related Content

Sundaramurthy Swamigal - Thevaram - Thirukkazumalam

दक्षिणामूर्ति वर्णमालास्तोत्रम - DhakshiNamurthi varnamala

ശ്രീമദപ്പയ്യ ദീക്ഷിത വിരചിതാ ആത്മാര്പ്പനസ്തുതിഃ - shrimada

श्री दक्षिणामूर्ति नवरत्न मलिक स्तोत्रम - Dakshinamurti nav

ਨਵਵਰ੍ਣਮਾਲਾ - Navavarnamala