logo

|

Home >

Scripture >

scripture >

Marathi

द्वादश ज्योतिर्लिङ्ग स्तोत्रम - Dvadasha Jyothirlinga Stotram

Dvadasha Jyothirlinga Stotram


द्वादश ज्योतिर्लिङ्ग स्तोत्रम ।   सौराष्ट्रदेशे विशदेऽतिरम्ये ज्योतिर्मयं चन्द्र कलावतंसम । भक्तिप्रदानाय कृपावतीर्णं तं सोमनाथं शरणं प्रपद्ये ॥१॥ श्रीशैलशृङ्गॆ विबुधातिसङ्गे तुलाद्रितुङ्गेऽपि मुदा वसन्तम । तमर्जुनं मल्लिकपूर्वमेकं नमामि संसारसमुद्रसेतुम ॥२॥ अवन्तिकायां विहितावतारं मुक्तिप्रदानाय च सज्जनानाम । अकालमृत्योः परिरक्षणार्थं वन्दे महाकालमहासुरेशम ॥३॥ कावेरिकानर्मदयोः पवित्रे समागमे सज्जनतारणाय । सदैव मान्धातृपुरे वसन्तमोङ्कारमीशं शिवमेकमीडे ॥४॥ पूर्वोत्तरे प्रज्वलिकानिधाने सदा वसन्तं गिरिजासमेतम । सुरासुराराधितपादपद्मं श्रीवैद्यनाथं तमहं नमामि ॥५॥ याम्ये सदङ्गे नगरेऽतिरम्ये विभूषिताङ्गं विविधैश्च भोगैः । सद्भक्तिमुक्तिप्रदमीशमेकं श्रीनागनाथं शरणं प्रपद्ये ॥६॥   महाद्रिपार्श्वे च तटे रमन्तं सम्पुज्यमानं सततं मुनीन्द्रैः । सुरासुरैर्यक्षमहोरगाद्यैः केदारमीशं शिवमेकमीडे ॥७॥ सह्याद्रिशीर्षे विमले वसन्तं गोदावरीतीरपवित्रदेशे । यद्दर्शनात्पातकमाशु नाशं प्रयाति तं त्र्यम्बकमीशमीडे ॥८॥ सुताम्रपर्णीजलराशियोगे निबध्य सेतुं विशिखैरसंख्यैः । श्रीरामचन्द्रेण समर्पितं तं रामेश्वराख्यं नियतं नमामि ॥९॥ यं डाकिनीशाकिनिकासमाजैर्निषेव्यमाणं पिशिताशनैश्च । सदैव भीमादिपदप्रसिद्धं तं शङ्करं भक्तहितं नमामि ॥१०॥ सानन्दमानन्दवने वसन्तमानन्दकन्दं हतपाप वॄन्दम । वाराणसीनाथमनाथनाथं श्रीविश्वनाथं शरणं प्रपद्ये ॥११॥ इलापुरे रम्यविशालकेऽस्मिन्समुल्लसन्तं च जगद्वरेण्यम । वन्दे महोदारतरस्वभावं घृष्णेश्वराख्यं शरणं प्रपद्ये ॥१२॥ ज्योतिर्मयद्वादशलिङ्गकानां शिवात्मनां प्रोक्तमिदं क्रमेण । स्तोत्रं पठित्वा मनुजोऽतिभक्त्या फलं तदालोक्य निजं भजेच्च ॥१३॥ इति श्रीद्वादशज्योतिर्लिङ्गस्तोत्रं संपूर्णम ॥ 

Related Content

श्री दशिणामूर्ति स्तोत्रम - Shri daxinamurti stotram

आर्तिहर स्तोत्रम - Artihara stotram

दक्षिणामूर्ति वर्णमालास्तोत्रम - DhakshiNamurthi varnamala

दक्षिणामूर्ति स्तोत्रं - Shri dakshinaamuurti stotram

शिव प्रातः स्मरण स्तोत्रम - shiva praataH smaraNa stotram