logo

|

Home >

Scripture >

scripture >

Marathi

Mahakailasa ashtottara shata namavali - महाकैलास अष्टोत्तर शत नामावली

Mahakailasa ashtottara shata namavali

महाकैलास अष्टोत्तर शत नामावली

This Page is courtesy of Sanskrit Documents List. Please send your corrections

mahAkailAsAShTottarashatanAmAvalI 
.. शिवकैलासाष्टोत्तरशतनामावलिः ..

ॐ श्रीमहाकैलासशिखरनिलयाय नमोनमः ।
ॐ हिमाचलेन्द्रतनयावल्लभाय नमोनमः ।
ॐ वामभागकलत्रार्धशरीराय नमोनमः ।
ॐ विलसद्दिव्यकर्पूरदिव्याभाय नमोनमः ।
ॐ कोटिकन्दर्पसदृशलावण्याय नमोनमः । ५।

ॐ रत्नमौक्तिकवैडूर्यकिरीटाय नमोनमः ।
ॐ मंदाकिनीजलोपेतमूर्धजाय नमोनमः ।
ॐ चारुशीतांशुशकलशेखराय नमोनमः ।
ॐ त्रिपुण्ड्रभस्मविलसत्फालकाय  नमोनमः ।
ॐ सोमपावकमार्ताण्डलोचनाय नमोनमः । १०

ॐ वासुकीतशकलसत्कुण्डलाय नमोनमः ।
ॐ चारुप्रसन्नसुस्मेरवदनाय नमोनमः ।
ॐ समुद्रोद्भूतगरलकंधराय नमोनमः ।
ॐ कुरंगविलसत्पाणिकमलाय नमोनमः ।
ॐ परश्वधद्वयलसद्दिव्यकराब्जाय नमोनमः । १५।

ॐ वराभयप्रदकरयुगलाय नमोनमः ।
ॐ अनेकरत्नमाणिक्यसुहाराय नमोनमः ।
ॐ मौक्तिकस्वर्णरुद्राशमालिकाय नमोनमः ।
ॐ हिरण्यकिंकिणीयुक्तकंकणाय नमोनमः ।
ॐ मंदारमल्लिकादामभूषिताय नमोनमः । २०

ॐ महामातंगसत्कृत्तिवसनाय नमोनमः ।
ॐ नागेंद्रयज्ञोपवीतशोभिताय नमोनमः ।
ॐ सौदामिनीसमच्छायसुवस्त्राय नमोनमः ।
ॐ सिंजानमणिमंजीरचरणाय नमोनमः ।
ॐ चक्राब्जध्वजयुक्तांघ्रिसरोजाय नमोनमः । २५।

ॐ अपर्णाकुचकस्तूरीशोभिताय नमोनमः ।
ॐ गुहमत्तेभवदनजनकाय नमोनमः ।
ॐ बिडौजोविधिवैकुण्ठसन्नुताय नमोनमः ।
ॐ कमलाभारतींद्राणीसेविताय नमोनमः ।
ॐ महापंचाशरीमन्त्रस्वरूपाय नमोनमः । ३०

ॐ सहस्रकोटितपनसंकाशाय नमोनमः ।
ॐ अनेककोटिशीतंशुप्रकाशाय नमोनमः ।
ॐ कैलासतुल्यवृषभवाहनाय नमोनमः ।
ॐ नंदीभृंगीमुखानेकसंस्तुताय नमोनमः ।
ॐ निजपादा.म्बुजासक्तसुलभाय नमोनमः । ३५।

ॐ प्रारब्धजन्ममरणमोचनाय नमोनमः ।
ॐ संसारमयदुःखौघभेषजाय नमोनमः ।
ॐ चराचरस्थूलसूश्मकल्पकाय नमोनमः ।
ॐ ब्रह्मादिकीटपर्यन्तव्यापकाय  नमोनमः ।
ॐ सर्वसहामहाचक्रस्यन्दनाय नमोनमः । ४०

ॐ सुधाकरजगच्छशूरथांगाय नमोनमः ।
ॐ अथर्वऋग्यजुस्सामतुरगाय नमोनमः ।
ॐ सरसीरुहसंजातप्राप्तसारथये नमोनमः ।
ॐ वैकुण्ठसायविलसत्सायकाय नमोनमः ।
ॐ चामीकरमहाशैलकार्मुकाय नमोनमः । ४५।

ॐ भुजंगराजविलसत्सिञ्जिनीकृतये नमोनमः ।
ॐ निजाशिजाग्निसन्दग्ध त्रिपुराय नमोनमः ।
ॐ जलंधरासुरशिरच्छेदनाय नमोनमः ।
ॐ मुरारिनेत्रपूजांघ्रिपंकजाय नमोनमः ।
ॐ सहस्रभानुसंकाशचक्रदाअय नमोनमः । ५०

ॐ कृतान्तकमहादर्पनाशनाय नमोनमः ।
ॐ मार्कण्डेयमनोभीष्टदायकाय नमोनमः ।
ॐ समस्तलोकगीर्वाणशरण्याय नमोनमः ।
ॐ अतिज्वलज्वालामालविषघ्नाय नमोनमः ।
ॐ शिशितांधकदैतेयविक्रमाय नमोनमः । ५५।

ॐ स्वद्रोहिदशसवनविघाताय नमोनमः ।
ॐ शंबरांतकलावण्यदेहसंहारिणे नमोनमः ।
ॐ रतिप्रार्तितमांगल्यफलदाय नमोनमः ।
ॐ सनकादिसमायुक्तदशिणामूर्तये नमोनमः ।
ॐ घोरापस्मारदनुजमर्दनाय नमोनमः । ६०

ॐ अनन्तवेदवेदान्तवेद्याय नमोनमः ।
ॐ नासाग्रन्यस्तनिटिलनयनाय नमोनमः ।
ॐ उपमन्युमहामोहभंजनाय नमोनमः ।
ॐ केशवब्रह्मसंग्रामनिवाराय नमोनमः ।
ॐ द्रुहिणांभोजनयनदुर्लभाय नमोनमः । ६५।

ॐ धर्मार्थकामकैवल्यसूचकाय नमोनमः ।
ॐ उत्पत्तिस्थितिसंहारकारणाय नमोनमः ।
ॐ अनन्तकोटिब्रह्माण्डनायकाय नमोनमः ।
ॐ कोलाहलमहोदारशमनाय नमोनमः ।
ॐ नारसिंहमहाकोपशरभाय नमोनमः । ७०

ॐ प्रपंचनाशकल्पान्तभैरवाय नमोनमः ।
ॐ हिरण्यगर्भोत्तमांगच्छेदनाय नमोनमः ।
ॐ पतंजलिव्याघ्रपादसन्नुताय नमोनमः ।
ॐ महाताण्डवचातुर्यपंडिताय नमोनमः ।
ॐ विमलप्रणवाकारमध्यगाय नमोनमः । ७५।

ॐ महापातकतूलौघपावनाय नमोनमः ।
ॐ चंडीशदोषविच्छेदप्रवीणाय नमोनमः ।
ॐ रजस्तमस्सत्त्वगुणगणेशाय नमोनमः ।
ॐ दारुकावनमानस्त्रीमोहनाय नमोनमः ।
ॐ शाश्वतैश्वर्यसहितविभवाय नमोनमः । ८०

ॐ अप्राकृतमहादिव्यवपुस्थाय नमोनमः ।
ॐ अखंडसच्छिदानन्दविग्रहाय नमोनमः ।
ॐ अशेषदेवताराध्यपादुकाय नमोनमः ।
ॐ ब्रह्मादिसकलदेववन्दिताय नमोनमः ।
ॐ पृथिव्यप्तेजोवाय्वाकाशतुरीयाय नमोनमः । ८५।

ॐ वसुन्धरमहाभारसूदनाय नमोनमः ।
ॐ देवकीसुतकौन्तेयवरदाय नमोनमः ।
ॐ अज्ञानतिमिरध्वान्तभास्कराय नमोनमः ।
ॐ अद्वैतानन्दविज्ञानसुखदाय नमोनमः ।
ॐ अविद्योपाधिरहितनिर्गुणाय नमोनमः । ९०

ॐ सप्तकोटिमहामन्त्रपूरिताय नमोनमः ।
ॐ गंधशब्दस्पर्शरूपसाधकाय नमोनमः ।
ॐ अशराशरकूटस्थपरमाय नमोनमः ।
ॐ षोडशाब्दवयोपेतदिव्यांगाय नमोनमः ।
ॐ सहस्रारमहापद्ममण्डिताय नमोनमः । ९५।

ॐ अनन्तानन्दबोधांबुनिधिस्थाय नमोनमः ।
ॐ अकारादिशकारान्तवर्णस्थाय नमोनमः ।
ॐ निस्तुलौदार्यसौभाग्यप्रमत्ताय नमोनमः ।
ॐ कैवल्यपरमानन्दनियोगाय नमोनमः ।
ॐ हिरण्यज्योतिविभ्राजत्सुप्रभाय नमोनमः । १००

ॐ ज्योतिषांमूर्तिमज्योतिरूपदाय नमोनमः ।
ॐ अनौपम्यमहासौख्यपदस्थाय नमोनमः ।
ॐ अचिंत्यमहिमाशक्तिरंजिताय नमोनमः ।
ॐ अनित्यदेहविभ्रांतिवर्जिताय नमोनमः ।
ॐ सकृत्प्रपन्नदौर्भाग्यच्छेदनाय नमोनमः ।
ॐ षट्त्रिंशत्तत्त्वप्रशादभुवनाअय नमोनमः ।
ॐ आदिमध्यान्तरहितदेहस्थाय नमोनमः ।
ॐ परानन्दस्वरूपार्थप्रबोधाय नमोनमः ।
ॐ ज्ञानशक्तिकृयाशक्तिसहिताय नमोनमः ।
ॐ पराशक्तिसमायुक्तपरेशाय नमोनमः । ११०

ॐ ओंकारानन्दनोद्यानकल्पकाय नमोनमः ।
ॐ ब्रह्मादिसकलदेववन्दिताय नमोनमः । ११२

॥ श्री महाकैलासाष्टोत्तरशतनामावलिः संपूर्णा ॥

Related Content

ਨਨ੍ਦਿਕੇਸ਼੍ਵਰ ਅਸ਼੍ਟੋੱਤਰਸ਼ਤਨਾਮਾਵਲਿ: - Nandikeshvara ashtottaras

നന്ദികേശ്വര അശ്ടോത്തരശതനാമാവലീ - Nandikeshvara Ashtottarash

Antiquity Of The Saiva Religion By R. A. Sastri

Atharvashira Upanishat

Bilvashtottara Shatanamavali (Bilva 108 Namavali)