logo

|

Home >

Scripture >

scripture >

Marathi

मृत्युञ्जय मानस पूजा स्तोत्रम - Mrutyunjaya Maanasa Puja Stotram

Mrutyunjaya Maanasa Puja Stotram


मृत्युञ्जयमानसपूजास्तोत्रम ।

कैलासे कमनीयरत्नखचिते कल्पद्रुमूले स्थितं 
कर्पूरस्फटिकेन्दुसुन्दरतनुं कात्यायनीसेवितम । 
गङ्गातुङ्गतरङ्गरञ्जित जटाभारं कृपासागरं 
कण्ठालङ्कृतशेषभूषणममुं मृत्युञ्जयं भावये ॥१॥ 

आगत्य मृत्युञ्जय चन्द्रमौले व्याघ्राजिनालङ्कृत शूलपाणे । 
स्वभक्तसंरक्षणकामधेनो प्रसीद विश्वेश्वर पार्वतीश ॥२॥ 

भास्वन्मौक्तिकतोरणे मरकतस्तम्भायुतालङ्कृते 
सौधे धूपसुवासिते मणिमये माणिक्यदीपाञ्चिते । 
ब्रह्मेन्द्रामरयोगिपुङ्गवगणैर्युक्ते च कल्पद्रुमैः 
श्रीमृत्युञ्जय सुस्थिरो भव विभो माणिक्यसिंहासने ॥३॥ 

मन्दारमल्लीकरवीरमाधवीपुन्नागनीलोत्पलचम्पकान्वितैः । 
कर्पूरपाटीरसुवासितैर्जलैराधत्स्व मृत्युञ्जय पाद्यमुत्तमम ॥४॥ 

सुगन्धपुष्पप्रकरैः सुवासितैर्वियन्नदीशीतळवारिभिः शुभैः । 
त्रिलोकनाथार्तिहरार्घ्यमादराद्गृहाण मृत्युञ्जय सर्ववन्दित ॥५॥ 

हिमाम्बुवासितैस्तोयैः शीतळैरतिपावनैः ।
मृत्युञ्जय महादेव शुद्धाचमनमाचर ॥६॥ 

गुडदधिसहितं मधुप्रकीर्णं सुघृतसमन्वितधेनुदुग्धयुक्तम । 
शुभकर मधुपर्कमाहर त्वं त्रिनयन मॄत्युहर त्रिलोकवन्द्य ॥७॥ 

पञ्चास्त्र शान्त पञ्चास्य पञ्चपातकसंहर ।
पञ्चामृतस्नानमिदं कुरु मृत्युञ्जय प्रभो॥८। 

जगत्रयीख्यातसमस्ततीर्थसमाहृतैः कल्मषहारिभिश्च । 
स्नानं सुतोयैः समुदाचर त्वं मृत्युञ्जयानन्तगुणाभिराम ॥९॥ 

आनीतेनातिशुभ्रेण कौशेयेनामरद्रुमात । 
मार्जयामि जटाभारं शिव मृत्युञ्जय प्रभो ॥१०॥ 

नानाहेमविचित्राणि चरिचीनाम्बराणि च 
विविधानि च दिव्यानि मृत्युञ्जय सुधारय ॥११॥

विशुद्धमुक्ताफलजालरम्यं मनोहरं काञ्चनहेमसूत्रम । 
यज्ञोपवीतं परमं पवित्रमाधत्स्व मृत्युञ्जय भक्तिगम्य ॥१२॥ 

श्रीगन्धं घनसारकुङ्कुमयुतं कस्तूरिकापूरितं 
कालेयेन हिमाम्बुना विरचितं मन्दारसंवासितम । 

दिव्यं देव मनोहरं मणिमये पात्रे समारोपितं 
सर्वाङ्गेषु विलेपयामि सततं मृत्युञ्जय श्रीविभो ॥१३॥ 

अक्षतैर्धवळैर्दिव्यैः सम्यक्तिलसमन्वितैः । 
मृत्युञ्जय महादेव पूजयामि वृषध्वज ॥१४॥ 

चम्पकपङ्कजकुन्दैः करवीरमल्लिकाकुसुमैः । 
विस्तारय निजमुकुटं मृत्युञ्जय पुणडरीकनयनाप्त ॥१५॥

माणिक्यपादुकाद्वन्द्वे मौनिहृत्पद्ममन्दिरे । 
पादौ सत्पद्मसदृशौ मृत्युञ्जय निवेशय ॥१६॥ 

माणिक्यकेयूरकिरीटहारैः काञ्चीमणिस्थापितकुड्मलैश्च ।
मञ्जीरमुख्याभरणैर्मनोज्ञैरङ्गानि मृत्युञ्जय भूषयामि ॥१७॥ 

गजवदन स्कन्दधृतेनातिस्वच्छेन चामरयुगेन । 
गलदलकाननपद्मं मृत्युञ्जय भावयामि हृत्पद्मे ॥१८॥ 

मुक्तातपत्रं शशिकोटिशुभ्रं शुभप्रदं काञ्चन दण्डयुक्तम । 
माणिक्यसंस्थापितहेमकुम्भं सुरेशमृत्युञ्जय तेऽर्पयामि ॥१९॥ 

मणिमुकुरे निष्पटले त्रिजगद्गढान्धकारसप्ताश्वे । 
कन्दर्पकोटिसदृशं मृत्युञ्जय पश्य वदनमात्मीयम ॥२०॥ 

कर्पूरचूर्णं कपिलाज्यपूतं दास्यामि कालेयसमन्वितैश्च । 
समुद्भवं पावनगन्धधूपितं मॄत्युञ्जयाङ्गं परिकल्पयामि ॥२१॥ 

वर्तित्रयोपेतमखण्डदीप्त्या तमोहरं बाह्यमथान्तरं च । 
राज्यं समस्तामरवर्गहृद्यं सुरेशमृत्युञ्जय वंशदीपम ॥२२॥

राजान्नं मधुरान्वितं च मृदुळं माणिक्यपात्रे स्थितं 
हिङ्गूजीरकसन्मरीचमिलितः शाकैरनेकैः शुभैः । 
शाकं सम्यगपूपपूपसहितं सद्योघृतेनाप्लुतं 
श्रीमृत्युञ्जय पार्वतीप्रिय विभो सापोशनं भुज्यताम ॥२३॥ 

कूष्माण्डवार्ताकपटोलिकानां फलानि रम्याणि च कारवेल्ल्याः । 
सुपाकयुक्तानि ससौरभाणि श्रीकण्ठ मृत्युञ्जय भक्षयेश ॥२४॥

शीतळं मधुरं स्वच्छं पावनं वासितं लघु । 
मध्ये स्वीकुरु पानीयं शिव मृत्युञ्जय प्रभो॥२५॥ 

शर्करामिलितं स्निग्धं दुग्धान्नं गोघृतान्वितम । 
कदळीफलसंमिश्रं भुज्यतां मऋत्युसंहर ॥२६॥ 

केवलमतिमाधुर्यं दुग्धैः स्निग्धैश्च शर्करामिलितैः । 
एलामरीचमिलितं मृत्युञ्जय देव भुङ्क्ष्व परमान्नम ॥२७॥ 

रम्भाचूतकपित्थकणटकफलैर्द्राक्षारसस्वादुमत-
खर्जूरैर्मधुरेक्षुखण्डशकलैः सन्नारिकेलाम्बुभिः । 
कर्पूरेण सुवासितैर्गुडजलैर्माधुर्ययुक्तैर्विभो 
श्रीमृत्युञ्जय पूरय त्रिभुवनाधारं विशालोदरम ॥२८॥ 

मनोज्ञरम्भावनखण्डखण्डितान रुचिप्रदान्सर्षपजीरकांश्च । 
ससौरभन्सैन्धवसेवितांश्च गृहाण मृत्युञ्जय लोकवन्द्य ॥२९॥ 

हिङ्गूजीरकसहितं विमलामलकं कपित्थमतिमधुरम । 
बिसखण्डांल्लवणयुतान्मृत्युञ्जय तेऽर्पयामि जगदीश ॥३०॥ 

एलाशुण्ठीसहितं दध्यन्नं चारु हेमपात्रस्थम । 
अमृतप्रतिनिधिमाढ्यं मृत्युञ्जय भुज्यतां त्रिलोकेश ॥३१॥ 

जम्बीरनीराञ्चितशृङ्गबेरं मनोहरानम्लशलाटुखण्डान । 
मृदूपदंशान्सहितोपभुङ्क्ष्व मृत्युञ्जय श्रीकरुणासमुद्र ॥३२॥ 

नागररामठयुक्तं सुललितजम्बीरनीरसंपूर्णम । 
मथितं सैन्धवसहितं पिब हर मृत्युञ्जय क्रतुध्वंसिन ॥३३

मन्दारहेमाम्बुजगन्धयुक्तैर्मन्दाकिनीनिर्मलपुण्यतोयैः । 
गृहाण मृत्युञ्जय पूर्णकाम श्रीमत्परापोशनमभ्रकेश ॥३४॥ 

गगनधुनीविमलजलैर्मृत्युञ्जय पद्मरागपात्रगतैः । 
मृगमदचन्दनपूर्णं प्रक्षाळय चारुहस्तपदयुग्मम ॥३५॥ 

पुन्नागमल्लिकाकुन्दवासितैर्जाह्नवीजलैः 
मृत्युञ्जय महादेव पुनराचमनं कुरु ॥३६॥ 

मौक्तिकचूर्णसमेतैर्मृग मदघनसारवासितैः पूगैः । 
पणैंः स्वर्णसमानैर्मृत्युञ्जय तेऽर्पयामि ताम्बूलम ॥३७॥ 

नीराजनं निर्मलदीप्तिमद्भिर्दीपाङ्कुरैरुज्जवलमुच्छ्रितैश्च । 
घण्टानिनादेन समर्पयामि मृत्युञ्जयाय त्रिपुरान्तकाय ॥ ३८॥ 

विरिञ्चिमुख्यामरवृन्दवन्दिते सरोजमत्स्याङ्कितचक्रचिह्निते । 
ददामि मृत्युञ्जय पादपङ्कजे फणीन्द्रभूषे पुनरर्घ्यमीश्वर ॥३९॥ 

पुन्नागनीलोत्पलकुन्दजातीमन्दारमल्लीकरवीरपङ्कजैः । 
पुष्पाञ्जलिं बिल्वदळैस्तुळस्या मृत्युञ्जयाङ्घ्रौ विनिवेशयामि ॥४०॥ 

पदे पदे सर्वतमोनिकृन्तनं पदे पदे सर्वशुभप्रदायकम । 
प्रदक्षिणं भक्तियुतेन चेतसा करोमि मृत्युञ्जय रक्ष रक्ष माम ॥४१॥ 

नमो गौरीशाय स्फटिकधवळाङ्गाय  च नमो नमो 
लोकेशाय स्तुतविबुधलोकाय च नमः । 
नमः श्रीकण्ठाय क्षपितपुरदैत्याय च नमो नमो 
भालाक्षाय स्मरमदविनाशाय च नमः ॥४२॥ 

संसारे जनितापरोगसहिते तापत्रयाक्रन्दिते  
नित्यं पुत्रकळत्रवित्तविलसत्पाशैर्निबद्धं दृढम । 
गर्वान्धं बहुपापवर्गसहितं कारुण्यदृष्ट्या विभो 
श्रीमृत्युञ्जय पार्वतीप्रिय सदा मां पाहि सर्वेश्वर ॥ ४३॥ 

सौधे रत्नमये नवोत्पलदळाक्रीर्णे च तल्पान्तरे 
कौशेयेन मनोहरेण धवळेनाच्छादिते सर्वशः । 
कर्पूराञ्चितदीपदीप्तिमिलिते रम्योपधानद्वये 
पार्वत्याः करपद्मलालितपदं मृत्युञ्जयं भावये ॥४४॥ 

चतुश्चत्वारिंशद्विलसदुपचारैरमिमतैर्मनःपद्मे 
भक्त्या बहिरपि च पूजां शुभकरीम करोति प्रत्यूषे 
निशि दिवसमध्येऽपि च पुमान्प्रयाति 
श्रीमृत्युञ्जयपदमनेकाद्भुतपदम ॥४५॥ 

प्रातर्लिङ्गमुमापतेरहरहः सन्दर्शनात्स्वर्गदं 
मध्याह्ने हयमेधतुल्यफलदं सायन्तने मोक्षदम । 
भानोरस्तमये प्रदोषसमये पञ्चक्षराराधनं 
तत्कालत्रयतुल्यमिष्टफलदं सद्योऽनवद्यं दृढम ॥४६॥ 

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य 
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्कराचार्यस्य 
कृतं श्रीमृत्युञ्जय मानसपूजास्तोत्रं संपूर्णम ॥

Related Content

श्री दशिणामूर्ति स्तोत्रम - Shri daxinamurti stotram

आर्तिहर स्तोत्रम - Artihara stotram

दक्षिणामूर्ति वर्णमालास्तोत्रम - DhakshiNamurthi varnamala

दक्षिणामूर्ति स्तोत्रं - Shri dakshinaamuurti stotram

निर्गुण मानसपूजा (शन्कर बगवत्पाद) - Nirgunamanasa puja (