logo

|

Home >

Scripture >

scripture >

Marathi

अनादि कल्पेश्वर स्तोत्रम - Anaadi Kalpeshvara Stotram

Anaadi Kalpeshvara Stotram


अनादिकल्पेश्वरस्तोत्रम ।

कर्पूरगौरो भुजगेन्द्रहारो गङ्गाधरो लोकहितावरः सः । 
सर्वेश्वरो देववरोऽप्यघोरो योऽनादिकल्पेश्वर एव सोऽसौ ॥१॥

कैलासवासी गिरिजाविलासी श्मशानवासी सुमनोनिवासी । 
काशीनिवासी विजयप्रकाशी  योऽनादिकल्पेश्वर एव सोऽसौ ॥२॥ 

त्रिशूलधारी भवदुःखहारी कन्दर्पवैरी रजनीशधारी । 
कपर्दधारी भजकानुसारी योऽनादिकल्पेश्वर एव सोऽसौ॥३॥ 

लोकाधिनाथः प्रमथाधिनाथः कैवल्यनाथः श्रुतिशास्त्रनाथः । 
विद्यार्थनाथः पुरुषार्थनाथो योऽनादिकल्पेश्वर एव सोऽसौ ॥४॥ 

लिङ्गं परिच्छेत्तुमधोगतस्य नाराणश्चोपरि लोकनाथः । 
बभूवतुस्तावपि नो समर्थो योऽनादिकल्पेश्वर एव सोऽसौ ॥५॥ 

यं रावणस्ताण्डवकौशलेन गीतेन चातोषयदस्व सोऽत्र । 
कृपाकटाक्षेण समृद्धिमाप योऽनादिकल्पेश्वर एव सोऽसौ ॥६॥ 

सकृच्च धाणोऽवनमय्य शीर्षं यस्याग्रतः सोऽप्यलभत्समृद्धिम । 
देवेन्द्रसंपत्त्यविकाङ्गरिष्ठां योऽनादिकल्पेश्वर एव सोऽसौ ॥७॥ 

गुणान्विमातुं न समर्थ एष वेषश्च जीवोऽपि विकुण्ठितोऽस्य ।
श्रुतिश्च नूनं चकितं बभाषे योऽनादिकल्पेश्वर एव सोऽसौ ॥८॥ 

अनादि कल्पेश उमेश एतत स्तवाष्टकं यः पठति त्रिकालम । 
सधौतपापोऽखिललोकवन्द्यं शैवं पदं यास्यति भक्तिमांश्चेत ॥९॥ 

इति श्रीवासुदेवानन्दसरस्वतीकृतमनादिकल्पेश्वरस्तोत्रं संपूर्णम ॥

Related Content

श्री दशिणामूर्ति स्तोत्रम - Shri daxinamurti stotram

आर्तिहर स्तोत्रम - Artihara stotram

दक्षिणामूर्ति वर्णमालास्तोत्रम - DhakshiNamurthi varnamala

दक्षिणामूर्ति स्तोत्रं - Shri dakshinaamuurti stotram

शिव प्रातः स्मरण स्तोत्रम - shiva praataH smaraNa stotram