logo

|

Home >

Scripture >

scripture >

Marathi

शिवस्तुतिः (श्री मल्लिकुचिसूरिसूनु नारयण पण्डिताचार्य विरचिता) - Shiva Stutih (Shri Mallikuchisoorisoonu Narayana Panditaachaarya Virachita)

Shiva Stutih 
(Shri Mallikuchisoorisoonu Narayana Panditaachaarya Virachita)


शिवस्तुतिः ।
(श्री मल्लिकुचिसूरिसूनु नारयण पण्डिताचार्य विरचिता)

स्फुटं स्फटिकसप्रभं स्फुटितहारकश्रीजटं शशाङ्कदलशेखरं कपिलफुल्लनेत्रत्रयम । 
तरक्षुवरकृत्तिमद्भुजगभूषणं भूतिमत्कदा नु शितिकण्ठ ते वपुरवेक्षते वीक्षणम ॥१॥

त्रिलोचन विलोचने लसति ते ललामायिते स्मरो नियमघस्मरो नियमिनामभूद्भस्मसात । 
स्वभक्तिलतया वशीकृतवती सतीयं सती स्वभक्तवशतो भवानपि  वशी प्रसीद प्रभो ॥२॥ 

महेश  महितोऽसि तत्पुरुषपूरुषाग्र्यो भवानघोररिपुघोर तेऽनवम वामदेवाञ्जलिः । 
नमः सपदिजात ते त्वमिति पञ्चरूपोचितप्रपञ्चचयपञ्चवृन्मम मनस्तमस्ताडय  ॥३॥ 

रसाघनरसानलानिलवियद्विवस्वद्विधुप्रयष्टृषु निविष्टमित्यज भजामि मूर्त्यष्टकम । 
प्रशान्तमुत भीषणं भुवनमोहनं चेत्यहो वपूंषि गुणभूषितेऽहमहमात्ममोहम्भिदे ॥४॥ 

विमुक्तिपरमाध्वनां तव षडध्वनामास्पदं पदं निगमवेदिनो जगति वामदेवादयः । 
कथञ्चिदुपशिक्षिता भगवतैव संविद्रते वयं तु विरलान्तराः कथमुमेश तन्मन्महे ॥५॥ 

कठोरितकुठारया ललितशूलया वाहया रणड्डमरुणा स्फुद्धरिणया सखट्वाङ्गया । 
चलाभिरचलाभिरप्यगणिताभिरुन्नत्यतश्चतुर्दश जगन्ति ते जय जयेत्ययुर्विस्मयम ॥६॥ 

पुरा त्रिपुररन्धनं विविधदैत्यविध्वंसनं पराक्रमपरंपरा अपि परा न ते विस्मयः । 
अमर्षिबलहर्षितक्षुभितवृत्तनेत्रोज्ज्वलज्ज्वलनहेलया शलभितं हि लोकत्रयम ॥७॥ 

सहस्रनयनो गुहः सहसहस्ररश्मिर्विधुर्बृहस्पतिरुताप्पतिः ससुरसिद्धविद्याधराः ।
भवत्पदपरायणाः श्रियमिमां ययुः प्रार्थितां भवान सुरतरुर्भृशं शिव शिव शिवावल्लभ ॥८॥ 

तव प्रियतमादतिप्रियतम सदैवान्तरं पयस्युपहितं घृतं स्वयमिव श्रियो वल्लभम । 
विबुध्य लघुबुद्धयः स्वपरपक्षलक्ष्यायितं पठन्ति हि लुठन्ति ते शठहृदः शुचा शुण्ठिताः ॥९॥ 

निवासनिलया चिता तव शिरस्ततेर्मालिका कपालमपि ते करे त्वमशिवोऽस्यनन्तर्धियाम । 
तथापि भवतः पदं शिवशिवेत्यदो जल्पतामकिञ्चन न किञ्चन वृजिनमस्ति भस्मीभवेत ॥१०॥ 

त्वमेव किल कामधुक सकलकाममापूरयन सदा त्रिनयनो भवान वहति चार्चि नेत्रोद्भवम । 
विषं विषधरान्दधत्पिबसि तेन चानन्दवान्विरुद्धचरितोचिता जगदधीश ते भिक्षुता ॥११॥ 

नमः शिवशिवाशिवाशिवार्थकॄन्ताशिवं  नमो हरहराहराहर हरान्तरीं मे द्रुशम । 
नमो भव भवाभवप्रभवभूतये मे  भवान्नमो मृड नमो नमो नम उमेश तुभ्यं नमः ॥१२॥ 

सतां श्रवणपद्धतिं सरतु सन्नतोक्तेत्यसौ शिवस्य करुणङ्कुरात्प्रतिकृतात्सदा सोचिता । 
इति प्रथितमानसो व्यधित नाम नारायणः शिवस्तुतिमिमां शिवं लिकुचिसूरिसूनुः सुधीः ॥१३॥ 

इति श्रीमल्लिकुचिसूरिसूनुनारयणपण्डिताचार्यविरचिता शिवस्तुतिः संपूर्णा॥

Related Content

श्री दशिणामूर्ति स्तोत्रम - Shri daxinamurti stotram

आर्तिहर स्तोत्रम - Artihara stotram

दक्षिणामूर्ति वर्णमालास्तोत्रम - DhakshiNamurthi varnamala

दक्षिणामूर्ति स्तोत्रं - Shri dakshinaamuurti stotram

शिव प्रातः स्मरण स्तोत्रम - shiva praataH smaraNa stotram