logo

|

Home >

Scripture >

scripture >

Marathi

प्रदोष स्तोत्राष्टकम - Pradhosha Stotrashtakam

Pradhosha Stotrashtakam


प्रदोषस्तोत्राष्टकम ।

सत्यं ब्रवीमि परलोकहितं ब्रवीमि सारं ब्रवीम्युपनिषद्धृदयं ब्रवीमि । 
संसारमुल्बणमसारमवाप्य जन्तोः सारोऽयमीश्वरपदांबुरुहस्य सेवा ॥१॥ 

ये नार्चयन्ति गिरिशं समये प्रदोषे ये नार्चितं शिवमपि प्रणमन्ति चान्ये । 
एतत्कथां श्रुतिपुटैर्न पिबन्ति मूढास्ते जन्मजन्मसु भवन्ति नरा दरिद्राः ॥२॥ 

ये वै प्रदोषसमये परमेश्वरस्य कुर्वन्त्यनन्यमनसोंऽघ्रिसरोजपूजाम । 
नित्यं प्रवृद्धधनधान्यकळत्रपुत्रसौभाग्यसंपदधिकास्त इहैव लोके ॥३॥ 

कैलासशैलभुवने त्रिजगज्जनित्रीं गौरीं निवेश्य कनकाचितरत्नपीठे । 
नृत्यं विधातुममिवाञ्चति शूलपाणौ देवाः प्रदोषसमये नु भजन्ति सर्वे ॥४॥ 

वाग्देवी धृतवल्लकी शतमुखो वेणुं दधत्पद्मजस्तालोन्निद्रकरो रमा भगवती गेयप्रयोगान्विता । 
विष्णुः सान्द्रमॄदङ्गवादनपटुर्देवाः समन्तात्स्थिताः सेवन्ते तमनु प्रदोषसमये देवं मृडानीपतिम ॥५॥ 

गन्धर्वयक्षपतगोरगसिद्धसाध्यविद्याधरामरवराप्सरसां गणांश्च । 
येऽन्ये त्रिलोकनिलयाः सहभूतवर्गाः प्राप्ते प्रदोषसमये हरपार्श्वसंस्थाः ॥६॥ 

अतः प्रदोषे शिव एक एव पूज्योऽथ नान्ये हरिपद्मजाद्याः । 
तस्मिन्महेशे विधिनेज्यमाने सर्वे प्रसीदन्ति सुराधिनाथाः ॥७॥ 

एष ते तनयः पूर्वजन्मनि ब्राह्मणोत्तमः । 
प्रतिग्रहैर्वयो निन्ये न दानाद्यैः सुकर्मभिः ॥८॥

अतो दारिद्र्यमापन्नः पुत्रस्ते द्विजभामिनि । 
दद्दोषपरिहारार्थं शरणं यातु शङ्करम ॥९॥ 

इति श्रीस्कान्दोक्तं प्रदोषस्तोत्राष्टकं संपूर्णम ॥

Related Content

श्री दशिणामूर्ति स्तोत्रम - Shri daxinamurti stotram

आर्तिहर स्तोत्रम - Artihara stotram

दक्षिणामूर्ति वर्णमालास्तोत्रम - DhakshiNamurthi varnamala

दक्षिणामूर्ति स्तोत्रं - Shri dakshinaamuurti stotram

शिव प्रातः स्मरण स्तोत्रम - shiva praataH smaraNa stotram