logo

|

Home >

Scripture >

scripture >

Marathi

गौरीगिरीशस्तोत्रम -Gaurigirisha Stotram

Gaurigirisha Stotram


गौरीगिरीश स्तोत्रम

चन्द्रार्धप्रविभासिमस्तकतटौ तन्द्राविहीनौ सदा
भक्तौघप्रतिपालने निजतनुच्छायाजितार्कायुतौ । 
शृङ्गाद्रिस्थविवाहमण्डपगतौ कारुण्यवारान्निधी 
कल्याणं तनुतां समस्तजगतां गौरीगिरीशौ मुदा ॥१॥ 

अन्योन्यार्चनतत्परौ मधुरवाक्सन्तोषितान्योन्यकौ 
चन्द्रार्धांचितशेखरा प्रणमतामिष्टर्थदौ सत्वरम । 
शृङ्गाद्रिस्थविवाहमण्डपगतौ शृङ्गारजन्मावनी 
कल्याणं तनुतां समस्तजगतां गौरीगिरीशौ मुदा ॥२॥ 

सौन्दर्येण परस्परं प्रमुदितावन्योन्यचित्तस्थितौ 
राकाचन्द्रसमानवक्त्रकमलौ पादाब्जकालङ्कृतौ ।
शृङ्गाद्रिस्थविवाहमण्डपगतौ गङ्गातटावासिनौ 
कल्याणं तनुतां समस्तजगतां गौरीगिरीशौ मुदा ॥३॥

सिंहोक्षाग्र्यगती महोन्नतपदं संप्रापयन्तौ नता-
नंहोराशिनिवारणैकनिपुणौ ब्रह्मोग्रविष्ण्वर्चितौ ।
शृङ्गाद्रिस्थविवाहमण्डपगतौ गाङ्गेयभूषोज्ज्वलौ 
कल्याणं तनुतां समस्तजगतां गौरीगिरीशौ मुदा ॥४॥ 

कस्तूरीघानसारचर्चिततनू प्रस्तूयमानौ सुरै-
रस्तूक्त्या प्रणतेष्टपूरणकरौ वस्तूपलब्धिप्रदौ । 
शृङ्गाद्रिस्थविवाहमण्डपगतावङ्गावधूतेन्दुभौ 
कल्याणं तनुतां समस्तजगतां गौरीगिरीशौ मुदा ॥५॥ 

वाणीनिर्जितहंसकोकिलरवौ पाणीकृतांभोरुहौ 
वेणीकेशविनिर्जिताहिचपलौ क्षोणीसमानक्षमौ । 
शृङ्गाद्रिस्थविवाहमण्डपगतौ तुङ्गेष्टजालप्रदो 
कल्याणं तनुतां समस्तजगतां गौरीगिरिशौ मुदा॥६॥

कामापत्तिविभूतिकारणदशौ सोमार्धभूषोज्ज्वलौ 
सामाम्नायसुगीयमानचरितौ रामार्चिताङ्घ्रिद्वयौ ।
शृङ्गाद्रिस्थविवाहमण्डपगतौ माणिक्यभूषान्वितौ 
कल्याणं तनुतां समस्तजगतां गौरीगिरीशौ मुदा ॥७॥

दंभाहङ्कॄतिदोषशून्यपुरुषैः संभावनीयौ सदा
जंभारातिमुखामरेन्द्रविनुतौ कुंभात्मजाद्यर्चितौ ।
शृङ्गाद्रिस्थविवाहमण्डपगतौ वाग्दानदीक्षाधरौ 
कल्याणं तनुतां समस्तजगतां गौरीगिरीशौ मुदा॥८॥

शापानुग्रहशक्तिदाननिपुणौ तापापनोदक्षमौ 
सोपानक्रमतोऽधिकारेभिरनुप्राप्यौ क्षमासागरौ । 
शृङ्गाद्रिस्थविवाहमण्डपगतौ लावण्यपाथोनिधी 
कल्याणं तनुतां समस्तजगतां गौरीगिरीशौ मुदा ॥९॥ 

शोणांभोरुहतुल्यपादयुगळौ बाणार्चनातोषितौ 
वीणाधृङ्मुनिगीयमानविभवौ बालारुणाभांबरौ । 
शृङ्गाद्रिस्थविवाहमण्डपगतौ तुल्याधिकैर्वर्जितौ 
कल्याणं तनुतां समस्तजगतां गौरीगिरीशौ मुदा ॥१०॥ 

इति गौरीगिरीशस्तोत्रं संपूर्णम ॥

Related Content

श्री दशिणामूर्ति स्तोत्रम - Shri daxinamurti stotram

आर्तिहर स्तोत्रम - Artihara stotram

दक्षिणामूर्ति वर्णमालास्तोत्रम - DhakshiNamurthi varnamala

दक्षिणामूर्ति स्तोत्रं - Shri dakshinaamuurti stotram

शिव प्रातः स्मरण स्तोत्रम - shiva praataH smaraNa stotram