logo

|

Home >

Scripture >

scripture >

Marathi

परमात्माष्टकम - Paramatma Ashtakam

Paramatma Ashtakam


परमात्मा अष्टकम ।

परमात्मंस्तव प्राप्तौ कुशलोऽस्मि न संशयः । 
तथापि मे मनो दुष्टं भोगेषु रमते सदा ॥१॥ 

यदा यदा तु वैराग्यं भोगेभ्यश्च करोम्यहम । 
तदैव मे मनो मूढं पुनर्भोगेषु गच्छति ॥२॥ 

भोगान्भुक्त्वा मुदं याति मनो मे चञ्चलं प्रभो । 
तव स्मृति यदा याति तदा याति बहिर्मुखम ॥३॥ 

प्रत्यहं शास्त्रनिचयं चिन्तयामि समाहितः । 
तथापि मे मनो मूढं त्यक्त्वा त्वां भोगमिच्छति ॥४॥ 

शोकमोहौ मानमदौ तवाज्ञानाद्भवन्ति वै । 
यदा बुद्धिपथं यासि यान्ति ते विलयं तदा ॥५॥ 

कृपां कुरु तथा नाथ त्वयि चित्तं स्थिरं यथा । 
मम स्याज्ज्ञानसंयुक्तं तव ध्यानपरायणम ॥६॥ 

मायया ते विमूढोऽस्मि न पश्यामि हिताहितम । 
संसारापारपाथोधौ पतितं मां समुद्धर ॥७॥ 

परमात्मंस्त्वयि सदा मम स्यान्निश्चला मतिः । 
संसारदुःखगहनात्त्वं सदा रक्षको मम॥८॥ 

परात्मन इदं स्तोत्रं मोहविच्छेदकारकम । 
ज्ञानदं च भवेन्नृणां योगानन्देन निर्मितम ॥९॥ 

इति श्रीयोगानन्दतीर्थविरचितं परमात्माष्टकं संपूर्णम ॥

Related Content

श्री दशिणामूर्ति स्तोत्रम - Shri daxinamurti stotram

आर्तिहर स्तोत्रम - Artihara stotram

दक्षिणामूर्ति वर्णमालास्तोत्रम - DhakshiNamurthi varnamala

दक्षिणामूर्ति स्तोत्रं - Shri dakshinaamuurti stotram

शिव प्रातः स्मरण स्तोत्रम - shiva praataH smaraNa stotram