द्वादशज्योतिर्लिङ्गस्मरणम सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनम । उज्जयिन्यां महाकाळमोङ्कारममलेश्वरम ॥१॥ परल्यां वैद्यनाथं च डाकिन्यां भीमशङ्करम । सेतुबन्धे तु रामेशं नागेशं दारुकावने ॥२॥ वाराणस्यां तु विश्वेशं त्र्यंबकं गौतमीतटे । हिमालयॆ तु केदारं घुसृणेशं शिवालये ॥३॥ एतानि ज्योतिर्लिङ्गानि सायं प्रातः पठेन्नरः । सप्तजन्मकृतं पापं स्मरणेन विनश्यति ॥४॥ इति द्वादशज्योतिर्लिङ्गस्मरणं संपूर्णम ॥