logo

|

Home >

Scripture >

scripture >

Marathi

असितकृतं शिवस्तोत्रम - Asitakrutam Shivastotram

Asitakrutam Shivastotram


असित कृतं शिव स्तोत्रम

असित उवाच ॥ 

जगद्गुरो नम्स्तुभ्यं शिवाय शिवदाय च । 
योगीन्द्राणां च योगीन्द्र गुरूणां गुरवे नमः ॥१॥ 

मृत्योर्मृत्युस्वरूपेण मृत्युसंसारखण्डन । 
मृत्योरीश मृत्युबीज मृत्युञ्जय नमोऽस्तु  ते ॥२॥

कालरूपं कलयतां कालकालेश कारण । 
कालादतीत कालस्थ कालकाल नमोऽस्तु ते ॥३॥ 

गुणातीत गुणाधार गुणबीज गुणात्मक । 
गुणीश गुणिनां बीज गुणिनां गुरवे नमः ॥४॥ 

ब्रह्मस्वरूप ब्रह्मज्ञ ब्रह्मभावे च तत्पर । 
ब्रह्मबीज स्वरूपेण ब्रह्मबीज नमोऽस्तु ते ॥५॥

इति स्तुत्वा शिवं नत्वा पुरस्तस्थौ मुनीश्वरः । 
दीनवत्साश्रुनेत्रश्च पुळकाञ्चितविग्रहः ॥६॥ 

असितेन कृतं स्तोत्रं भक्तियुक्तश्च यः पठेत । 
वर्षमेकं हविष्याशी शङ्करस्य महात्मनः ॥७॥ 

स लभेद्वैष्णवं पुत्रं ज्ञानिनं चिरजीविनम । 
दरिद्रो भवेद्धनाढ्यो मूको भवति पण्डितः ॥८॥ 

अभार्यो लभते भार्यां सुशीलां च पतिव्रताम । 
इह लोके सुखं भुक्त्वा यात्यन्ते शिवसन्निधिम ॥९॥ 

इदं स्तोत्रं पुरा दत्तं ब्रह्मणा च प्रचेतसे । 
प्रचेतसा स्वपुत्रायासिताय दत्तमुत्तमम ॥१०॥ 

इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे 
असितकृतं शिवस्तोत्रं संपूर्णम ॥ 

Related Content

श्री दशिणामूर्ति स्तोत्रम - Shri daxinamurti stotram

आर्तिहर स्तोत्रम - Artihara stotram

दक्षिणामूर्ति वर्णमालास्तोत्रम - DhakshiNamurthi varnamala

दक्षिणामूर्ति स्तोत्रं - Shri dakshinaamuurti stotram

शिव प्रातः स्मरण स्तोत्रम - shiva praataH smaraNa stotram