logo

|

Home >

Scripture >

scripture >

Marathi

महामृत्युंजय कवच - mrityunjaya kavacha

Mrityunjaya kavacha

महामृत्युंजय कवच

This Page is courtesy of Sanskrit Documents List. Please send your corrections

mRutyunjaya kavacha 
.. महामृत्युंजय कवच ..

श्री गणेशाय नमः ।
भैरव उवाच ।

श्रृणुष्व परमेशानि कवचं मन्मुखोदितम ।
महामृत्युञ जयस्यास्य न देयं परमाद्भुतम ॥ १॥

यं धृत्वा यं पठित्वा च श्रुत्वा च कवचोत्तमम ।
त्रैलोक्याधिपतिर्भूत्वा सुखितो.अस्मि महेश्वरि ॥ २॥

तदेववर्णयिष्यामि तव प्रीत्या वरानने ।
तथापि परमं तत्वं न दातव्यं दुरात्मने ॥ ३॥

विनियोगः

अस्य श्रीमहामृत्युञ जयकवचस्य श्रीभैरव ऋषिः\, गायत्रीच्हन्दः\, श्रीमहामृत्युञ जयो महारुद्रो देवता\, ॐ बीजं\, जूं शक तिः\, सः कीलकं\, ह्रौमिति तत्वं\, चतुर्वर्गसाधने मृत्युञ जयकवचपाठे विनियोगः । चन्द्रमण्डलमध्यस्थं रुद्रं भाले विचिन्त्य तम । तत्रस्थं चिन्तयेत साध्यं मृत्युं प्राप्तो.अपि जीवति ॥ १॥ ॐ जूं सः ह्रौं शिरः पातु देवो मृत्युञ जयो मम । ॐ श्रीं शिवो ललाटं मे ॐ ह्रौं भ्रुवौ सदाशिवः ॥ २॥ नीलकण्ठो.अवतान्नेत्रे कपर्दी मे.अवताच्च्ह्रुती । त्रिलोचनो.अवताद गण्डौ नासां मे त्रिपुरान्तकः ॥ ३॥ मुखं पीयूषघटभृदोष्ठौ मे कृत्तिकाम्बरः । हनुं मे हाटकेशनो मुखं बटुकभैरवः ॥ ४॥ कन्धरां कालमथनो गलं गणप्रियो.अवतु । स्कन्धौ स्कन्दपिता पातु हस्तौ मे गिरिशो.अवतु ॥ ५॥ नखान मे गिरिजानाथः पायादङ्गुलिसंयुतान । स्तनौ तारापतिः पातु वक्षः पशुपतिर्मम ॥ ६॥ कुक्षिं कुबेरवरदः पार्श्वौ मे मारशासनः । शर्वः पातु तथा नाभिं शूली पृष्ठं ममावतु ॥ ७॥ शिश्र्नं मे शङ्करः पातु गुह्यं गुह्यकवल्लभः । कटिं कालान्तकः पायादूरू मे.अन्धकघातकः ॥ ८॥ जागरूको.अवताज्जानू जङ्घे मे कालभैरवः । गुल्फो पायाज्जटाधारी पादौ मृत्युञ जयो.अवतु ॥ ९॥ पादादिमूर्धपर्यन्तमघोरः पातु मे सदा । शिरसः पादपर्यन्तं सद्योजातो ममावतु ॥ १०॥ रक्षाहीनं नामहीनं वपुः पात्वमृतेश्वरः । पूर्वे बलविकरणो दक्षिणे कालशासनः ॥ ११॥ पश्चिमे पार्वतीनाथो ह्युत्तरे मां मनोन्मनः । ऐशान्यामीश्वरः पायादाग्नेय्यामग्निलोचनः ॥ १२॥ नैऋत्यां शम्भुरव्यान्मां वायव्यां वायुवाहनः । उर्ध्वे बलप्रमथनः पाताले परमेश्वरः ॥ १३॥ दशदिक्षु सदा पातु महामृत्युञ जयश्च माम । रणे राजकुले द्यूते विषमे प्राणसंशये ॥ १४॥ पायाद ओं जूं महारुद्रो देवदेवो दशाक्षरः । प्रभाते पातु मां ब्रह्मा मध्याह्ने भैरवो.अवतु ॥ १५॥ सायं सर्वेश्वरः पातु निशायां नित्यचेतनः । अर्धरात्रे महादेवो निशान्ते मां महोमयः ॥ १६॥ सर्वदा सर्वतः पातु ॐ जूं सः ह्रौं मृत्युञ जयः । इतीदं कवचं पुण्यं त्रिषु लोकेषु दुर्लभम ॥ १७॥

फलश्रुति

सर्वमन त्रमयं गुह्यं सर्वतन त्रेषु गोपितम । पुण्यं पुण्यप्रदं दिव्यं देवदेवाधिदैवतम ॥ १८॥ य इदं च पठेन्मन त्री कवचं वार्चयेत ततः । तस्य हस्ते महादेवि त्र्यम्बकस्याष्ट सिद्धयः ॥ १९॥ रणे धृत्वा चरेद्युद्धं हत्वा शत्रूञ जयं लभेत । जयं कृत्वा गृहं देवि सम्प्राप्स्यति सुखी पुनः ॥ २०॥ महाभये महारोगे महामारीभये तथा । दुर्भिक्षे शत्रुसंहारे पठेत कवचमादरात ॥ २१॥ सर्व तत प्रशमं याति मृत्युञ जयप्रसादतः । धनं पुत्रान सुखं लक्ष्मीमारोग्यं सर्वसम्पदः ॥ २२॥ प्राप्नोति साधकः सद्यो देवि सत्यं न संशयः इतीदं कवचं पुण्यं महामृत्युञ जयस्य तु । गोप्यं सिद्धिप्रदं गुह्यं गोपनीयं स्वयोनिवत ॥ २३॥ । इति श्रीरुद्रयामले तन त्रे श्रीदेवीरहस्ये मृत्युञ जयकवचं सम्पूर्णम ।

Related Content