This Page is courtesy of Sanskrit Documents List. Please send your corrections
mArgasahAyalingastuti of Appayya Deekshitar .. श्री मार्गसहायलिङ्ग स्तुतिः .. ॥ श्रीमद अप्पय्यदीशितेन्द्रैः विरचिता ॥ पयो\-नदीतीर निवासलिङ्गं बालार्क\-कोटि प्रतिमं त्रिनेत्रम । पद्मासनेनार्चित दिव्यलिङ्गं वन्दामहे मार्गसहायलिङ्गम ॥ १॥ गङ्गातरङ्गोल्लसदुत्तमाङ्गं गजेन्द्र\-चर्मांबर भूषिताङ्गम । गौरी\-मुखांभोज\-विलोल\-भृङ्गं वन्दामहे मार्गसहायलिङ्गम ॥ २॥ सुकङ्कणीभूत महाभुजङ्गं संञान\-संपूर्ण\-निजान्तरङ्गम । सूर्येन्दु\-बिंबानल\-भूषिताङ्गं वन्दामहे मार्गसहायलिङ्गम ॥ ३॥ भक्तप्रियं भावविलोलभृङ्गं भक्तानुकूलामल भूषिताङ्गम । भावैक\-लोक्यान्तरमादिलिङ्गं वन्दामहे मार्गसहायलिङ्गम ॥ ४॥ सामप्रियं सौम्य महेशलिङ्गं सामप्रदं सौम्य\-कटाशलिङ्गम । वामाङ्ग\-सौन्दर्य\-विलोलिताङ्गं वन्दामहे मार्गसहायलिङ्गम ॥ ५॥ पञ्चाशरी\-भूत\-सहस्रलिङ्गं पञ्चामृतस्नान\-परायणाङ्गम । पञ्चामृतांभोज\-विलोल\-भृङ्गं वन्दामहे मार्गसहायलिङ्गम ॥ ६॥ वन्दे सुराराधित\-पादपद्मं श्रीश्यामवल्ली\-रमणं महेशम । वन्दे महामेरु\-शरासनं शिवं वन्दा सदा मार्गसहायलिङ्गम ॥ ७॥ ॥ इति श्री मार्गसहायलिङ्ग स्तुतिः संपूर्णा ॥ ॥ ॐ तत्सत ॥