logo

|

Home >

Scripture >

scripture >

Marathi

मृतसञ्जीवन स्तोत्रम - Mritasanjivana stotram

मृतसञ्जीवन स्तोत्रम

Please send your corrections

mRutasa~njIvana stotram 
मृतसञ्जीवन स्तोत्रम 

एवमारध्य गौरीशं देवं मृत्य्ञ्जयमेश्वरं ।
मृतसञ्जीवनं नाम्ना कवचं प्रजपेत सदा ॥

सारात सारतरं पुण्यं गुह्याद्गुह्यतरं शुभं ।
महादेवस्य कवचं मृतसञ्जीवनामकं ॥

समाहितमना भूत्वा शृणुष्व कवचं शुभं ।
शृत्वैतद्दिव्य कवचं रहस्यं कुरु सर्वदा ॥

वराभयकरो यज्वा सर्वदेवनिषेवितः ।
मृत्युञ्जयो महादेवः प्राच्यां मां पातु सर्वदा ॥

दधाअनः शक्तिमभयां त्रिमुखं षड्भुजः प्रभुः ।
सदाशिवो.अग्निरूपी मामाग्नेय्यां पातु सर्वदा ॥

अष्टदसभुजोपेतो दण्डाभयकरो विभुः ।
यमरूपि महादेवो दक्शिणस्यां सदावतु ॥

खड्गाभयकरो धीरो रशोगणनिषेवितः ।
रशोरूपी महेशो मां नैरृत्यां सर्वदावतु ॥

पाशाभयभुजः सर्वरत्नाकरनिषेवितः ।
वरुणात्मा महादेवः पश्चिमे मां सदावतु ॥

गदाभयकरः प्राणनायकः सर्वदागतिः ।
वायव्यां मारुतात्मा मां शङ्करः पातु सर्वदा ॥

शङ्खाभयकरस्थो मां नायकः परमेश्वरः ।
सर्वात्मान्तरदिग्भागे पातु मां शङ्करः प्रभुः ॥

शूलाभयकरः सर्वविद्यानमधिनायकः ।
ईशानात्मा तथैशान्यां पातु मां परमेश्वरः ॥

ऊर्ध्वभागे ब्रःमरूपी विश्वात्मा.अधः सदावतु ।
शिरो मे शङ्करः पातु ललाटं चन्द्रशेखरः ॥

भूमध्यं सर्वलोकेशस्त्रिणेत्रो लोचने.अवतु ।
भ्रूयुग्मं गिरिशः पातु कर्णौ पातु महेश्वरः ॥

नासिकां मे महादेव ओष्ठौ पातु वृषध्वजः ।
जिह्वां मे दक्शिणामूर्तिर्दन्तान्मे गिरिशो.अवतु ॥

मृतुय्ञ्जयो मुखं पातु कण्ठं मे नागभूषणः ।
पिनाकि मत्करौ पातु त्रिशूलि हृदयं मम ॥

पञ्चवक्त्रः स्तनौ पातु उदरं जगदीश्वरः ।
नाभिं पातु विरूपाक्शः पार्श्वौ मे पार्वतीपतिः ॥

कटद्वयं गिरीशौ मे पृष्ठं मे प्रमथाधिपः ।
गुह्यं महेश्वरः पातु ममोरू पातु भैरवः ॥

जानुनी मे जगद्दर्ता जङ्घे मे जगदम्बिका ।
पादौ मे सततं पातु लोकवन्द्यः सदाशिवः ॥

गिरिशः पातु मे भार्यां भवः पातु सुतान्मम ।
मृत्युञ्जयो ममायुष्यं चित्तं मे गणनायकः ॥

सर्वाङ्गं मे सदा पातु कालकालः सदाशिवः ।
एतत्ते कवचं पुण्यं देवतानां च दुर्लभम ॥

मृतसञ्जीवनं नाम्ना महादेवेन कीर्तितम ।
सह्स्रावर्तनं चास्य पुरश्चरणमीरितम ॥

यः पठेच्च्हृणुयान्नित्यं श्रावयेत्सु समाहितः ।
सकालमृत्युं निर्जित्य सदायुष्यं समश्नुते ॥

हस्तेन वा यदा स्पृष्ट्वा मृतं सञ्जीवयत्यसौ ।
आधयोव्याध्यस्तस्य न भवन्ति कदाचन ॥

कालमृयुमपि प्राप्तमसौ जयति सर्वदा ।
अणिमादिगुणैश्वर्यं लभते मानवोत्तमः ॥

युद्दारम्भे पठित्वेदमष्टाविशतिवारकं ।
युद्दमध्ये स्थितः शत्रुः सद्यः सर्वैर्न दृश्यते ॥

न ब्रह्मादीनि चास्त्राणि शयं कुर्वन्ति तस्य वै ।
विजयं लभते देवयुद्दमध्ये.अपि सर्वदा ॥

प्रातरूत्थाय सततं यः पठेत्कवचं शुभं ।
अशय्यं लभते सौख्यमिह लोके परत्र च ॥

सर्वव्याधिविनिर्मृक्तः सर्वरोगविवर्जितः ।
अजरामरणो भूत्वा सदा षोडशवार्षिकः ॥

विचरव्यखिलान लोकान प्राप्य भोगांश्च दुर्लभान ।
तस्मादिदं महागोप्यं कवचम समुदाहृतम ॥

मृतसञ्जीवनं नाम्ना देवतैरपि दुर्लभम ॥

  ॥ इति वसिष्ठ कृत मृतसञ्जीवन स्तोत्रम ॥

Related Content