This Page is courtesy of Sanskrit Documents List. Please send your corrections
pradOsha stotram .. प्रदोषस्तोत्रम .. श्री गणेशाय नमः । जय देव जगन्नाथ जय शङ्कर शाश्वत । जय सर्वसुराध्यक्ष जय सर्वसुरार्चित ॥ १॥ जय सर्वगुणातीत जय सर्ववरप्रद । जय नित्य निराधार जय विश्वम्भराव्यय ॥ २॥ जय विश्वैकवन्द्येश जय नागेन्द्रभूषण । जय गौरीपते शम्भो जय चन्द्रार्धशेखर ॥ ३॥ जय कोट्यर्कसङ्काश जयानन्तगुणाश्रय । जय भद्र विरूपाक्ष जयाचिन्त्य निरञ्जन ॥ ४॥ जय नाथ कृपासिन्धो जय भक्तार्तिभञ्जन । जय दुस्तरसंसारसागरोत्तारण प्रभो ॥ ५॥ प्रसीद मे महादेव संसारार्तस्य खिद्यतः । सर्वपापक्षयं कृत्वा रक्ष मां परमेश्वर ॥ ६॥ महादारिद्र्यमग्नस्य महापापहतस्य च । महाशोकनिविष्टस्य महारोगातुरस्य च ॥ ७॥ ऋणभारपरीतस्य दह्यमानस्य कर्मभिः । ग्रहैः प्रपीड्यमानस्य प्रसीद मम शङ्कर ॥ ८॥ दरिद्रः प्रार्थयेद्देवं प्रदोषे गिरिजापतिम । अर्थाढ्यो वा.अथ राजा वा प्रार्थयेद्देवमीश्वरम ॥ ९॥ दीर्घमायुः सदारोग्यं कोशवृद्धिर्बलोन्नतिः । ममास्तु नित्यमानन्दः प्रसादात्तव शङ्कर ॥ १०॥ शत्रवः संक्षयं यान्तु प्रसीदन्तु मम प्रजाः । नश्यन्तु दस्यवो राष्ट्रे जनाः सन्तु निरापदः ॥ ११॥ दुर्भिक्षमरिसन्तापाः शमं यान्तु महीतले । सर्वसस्यसमृद्धिश्च भूयात्सुखमया दिशः ॥ १२॥ एवमाराधयेद्देवं पूजान्ते गिरिजापतिम । ब्राह्मणान्भोजयेत पश्चाद्दक्षिणाभिश्च पूजयेत ॥ १३॥ सर्वपापक्षयकरी सर्वरोगनिवारणी । शिवपूजा मया.अ.अख्याता सर्वाभीष्टफलप्रदा ॥ १४॥ ॥ इति प्रदोषस्तोत्रं सम्पूर्णम ॥